वीणापुस्तक धारिणीं नतकुचां मुक्ताप्रवालावलिम् ।
श्यामाङ्गीं शशिशङ्खकुण्डलधरां दन्तप्रभासुस्मितां
आकर्णालक-वेणि-कञ्ज-नयनां ध्यायेच्छुक श्यामलाम् ॥ १॥
हालामदाघूर्णित लोचनाभां बालां भजे बालतमाल नीलाम् ॥ २॥
बाला नीलविशालचारुवदना प्रालम्बिधम्मिल्लका ।
हारोदञ्चित पीवरस्तनतटी हालामदोल्लासिनी
श्यामा काचन मोहिनी विजयते चञ्चत्प्रपञ्चीकृता ॥ ३॥
मुक्ताभूषाङ्करयुगलतां वल्लकीं वादयन्तीम् ।
माध्वीमत्तां मधुकर निनदां श्यामलां कोमलाङ्गीं
मातङ्गीं तां सकलफलदां सन्ततं भावयामि ॥ ४॥
स्फायत्कुण्डलभूषणां कुवलयश्यामां कुरङ्गीदृशीम् ।
उत्तुङ्गस्तनकुम्भयुग्म विलसत्काश्मीरपत्रावलीं
मातङ्गीं पदकैरवं नवचरच्चन्द्रातपत्राम्भजे ॥ ५॥
न्यस्तैकाघ्रिं सरोजे शशिशकलधरां वल्लकींवादयन्तीम् ।
कल्ह्नाराबद्धमालां नियमितविलसच्चूलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुमदविवशां चित्रकोद्भासिभालाम् ॥ ६॥
अन्येपरं वाग्विभवं मुनीन्द्रा परांश्रियं भक्तिभरेण चान्ये ॥ ७॥
आम्नाय वाक्यैः प्रतिपादनार्थे प्रबोधयन्तीं शुकमादरेण ॥ ८॥
मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचसां निरिच्छाः ॥ ९॥
आस्फोटयन्तीं करवल्लकीं तां मातङ्गिनीं मद्धृदये भजामि ॥ १०॥
मध्ये मदाघूर्णित नेत्रपद्मां मातङ्गिनीं शम्भुवधूं नमामि ॥ ११॥
कदम्ब मालाङ्कितकेशपाशां मातङ्गकन्यां हृदिभावयामि ॥ १२॥
स्वर्गंगतिं भक्तजना मनुष्याः परां श्रियं भक्ति भरेण चान्ये ॥ १३॥
श्यामां वामाङ्क विन्यस्त मालिकां बालिकाम्भजे ॥ १४॥
चूलीचुम्बित चारुचम्पक दलागौरी मदोल्लासिनी ।
नाली बाल पलाश कर्णविलसत्कल्लोल कालिच्छटा
काली साचलकन्यका विजयते मच्चित्त पद्मासना ॥ १५॥
वेणी बद्ध कदम्ब पुष्प कलिकामेणी विलोलेक्षणाम् ।
श्रोणी लम्ब विराजमान सुजपा शोणाम्बरालङ्कृतां
एणाङ्कार्क विभूषणां कलयतां भिल्लीं पुरन्ध्रीम्भजे ॥ १६॥
कृपापूर्णापाङ्गीं कुचभर नताङ्गीं स्मितमुखीम् ।
भ्रमद्भ्रूभङ्गे ते विविध कुसुमैस्तैरिवयुतां
भजेऽहं मातङ्गीं मदपरवशाङ्गीमनुदिनम् ॥ १७॥
विपञ्ची सञ्चारारुण करसरोजां भगवतीम् ।
मदासक्तामुक्ता फलगुणितहारस्तनतटां
कृपावासामीशामतिरुचिरहासां भजशिवाम् ॥ १८॥
पानप्रमत्त चलितालि कुलालकान्ताम् ।
वीणामनोहरनिनादविनोदशीलां
वाणीं भजे शुकनिभां मधुपान लोलाम् ॥ १९॥
नेत्रारविन्द करुणामृतवाहिनीं ताम् ।
रक्तारविन्द विनिवेशितवामपादां
श्यामां मतङ्गतनयां मनसा स्मरामि ॥ २०॥
कादम्बरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां
मातङ्गकन्यां मनसास्मरामि ॥ २१॥
गृहीतमधुपात्रिकां मदविघूर्ण नेत्रोज्वलाम् ।
घनस्तनभरानतां गलित चूलिकां श्यामलां
करस्फुरित वल्लकीं विमलशङ्ख ताटङ्किनीम् ॥ २२॥
माहेन्द्र नीलोत्पल कोमलाङ्गीं मातङ्ग कन्यां मनसास्मरामि ॥ २३॥
कुवलय समोत्तमाङ्गीं कुवलय चूलीं नमामि मातङ्गीम् ॥ २४॥
मधुपानरतारतापायाद्वाणी वीणाविनोदविश्रान्ता ॥ २५॥
सप्तस्वरालापविशेषतन्त्रीं बालाम्भजे भव्यमतङ्गपुत्रीम् ॥ २६॥
भक्तोपरिन्यस्तकृपावलम्बां बालां भजे भव्यगुणां मदम्बाम् ॥ २७॥
कलिमल तनुमङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ २८॥
कलिन्दापत्याभां करकलित हृदयां रक्तवसनाम् ।
पुराणीं कल्याणीं पुरमथनपुण्योदयकला-
मधीराक्षीं वन्दे बहुकुसुमसन्नद्धकबरीम् ॥ २९॥
स्तनाभ्यामानम्रां तरुणमिहिरां रक्तवसनाम् ।
महाकल्याणीं तन्मधुमदभरां ताम्रनयनां
तमालश्यामां नस्तवकयतु सौख्यानिसततम् ॥ ३०॥
कपोलविलसन्महाकनकपत्र ताटङ्किनीम् ।
तपः फलमिहाश्रितां तरुणभासरक्ताम्बरां
तमालदलमेचकां तरुणलोचनामाश्रये ॥ ३१॥
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ ३२॥
कुरुतां दुरिताद्विमोक्षणं मे तुहिना भिल्लिकुटुम्बिनी भवानी ॥ ३३॥
तन्त्रीताल विराविणीमसकलैरास्फालयन्ती नखैः ।
अर्धोन्मीलित लोचनं सविलसद्ग्रीवं मुखंविभ्रती
श्यामा काचन मोहिनी विजयते मातङ्गकन्यामयि ॥ ३४॥
कदम्ब वनमालिकं शशिकला समुद्भासितम् ॥ ३५॥
समस्त सुखदायिनी तरुणपत्र ताटङ्किनी ॥ ३६॥
कर्पूरोज्वलचारुशङ्खवलयां काश्मीररक्तांशुकाम् ।
तन्त्रीतालसपाटलां गुलिदलां वन्दामहे मातरं
मातङ्गीं मदमन्थरां मरकतश्यामां मनोहारिणीम् ॥ ३७॥
तालीपत्र पुटान्तरैः समनतैस्ताटङ्किनी मौक्तिकैः ।
भाले कल्पतरोः प्रसूनविलसदृष्ट्वैव सम्मोहिनी
काञ्ची दामवती विजयते वीणासवादानना ॥ ३८॥
स्विद्यद्वक्त्रां कदम्ब प्रविलसद्वेणिकामत्त वीणाम् ।
बिम्बोष्ठीं रक्तवस्त्रां मृगमद तिलकामिन्दुरेखावतंसां
कर्णोद्यच्छङ्खपत्रां करकलितशुकां नौमि तुङ्गस्तनीं ताम् ॥ ३९॥
रत्नगैवेयहाराङ्गद कटिलसत्सूत्र मञ्जीरघोषाम् ।
आनीयार्थानभीष्टान् स्मितमधुरदृशा साधिकं तर्पयन्तीं
ध्यायेद्देवीं शुकाभांशुकमखिलकलारूपमस्याश्चपार्श्वे ॥ ४0॥
क्षोणीपाल सुरेन्द्र पन्नगगणै राराधिताङ्घ्रिद्वयाम् ।
एणीचञ्चललोचनां सुवदनां वाणीं पुराणोज्वलां
श्रोणीभारभरालसामनिमिषां पश्यामि विश्वेश्वरीम् ॥ ४१॥
मरकतमणिभागमेचकाभांमदमविरोधमनस्विनीमुपासे ॥ ४२॥
वक्षोजपीठनिहितोज्वलचारुवीणां श्यामां नमामि मदिरारुणनेत्रयुग्माम् ॥ ४३॥
भृङ्गीवादनतत्परां सुनयनां मूर्धालकैर्बर्बराम् ।
गुञ्जाहारधरां समुन्नतकुचां चन्द्राननां शाम्भवीं
भिल्ली वेषधरां नमामि शबरी तामेकवीरां पराम् ॥ ४४॥
मुदञ्चत्स्वेदाम्भः क्षणगणित फेनोद्गम रुचिम् ।
शिवं शान्तं पात्रप्रवणमृगयाकारकरणं
शिवामम्बज्ञातिं चरणमहमन्वेमिशरणम् ॥ ४५॥
जपाकर्णाभूषां शिखिवरक्षकलापाम्बरवतीम् ।
नदज्झल्ली वल्लीनवकिसलयैस्तां परिवृतां
नवामोहारूढां कुटिलकबरीं मोहशबरीम् ॥ ४६॥
शिरो रङ्गे नृत्यत्कनकदल दूब मञ्जुलदलम् ।
धनुर्वामे चापे शरमपरपाणौ निदधतीं
नितम्बे बर्हालिं कुटिलकबरीं नौमि शबरीम् ॥ ४७॥
श्यामल कोमल गात्रं पाटलनयनं परं भजेधाम ॥ ४८॥
शङ्कर जितेत्यमित्रं पङ्कजनेत्रं परं भजेधाम ॥ ४९॥
मातामातङ्गी मङ्गेस्वायतना ॥ ५०॥
लसन्मणिमयासने सहचरीभिराराधिताम् ।
लसत्कनककङ्कणां रजतमञ्जुमञ्जीरकां
जगज्जनविमोहिनीं जपविधौ स्मरेदम्बिकाम् ॥ ५१॥
अरुणाधरमाविरस्तुचित्ते करुणाशालि कपालि भागधेयम् ॥ ५२॥
बिम्बोष्ठीं नवयावकार्द्र चरणामाकीर्ण केशोज्वलाम् ॥ ५३॥
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखां देवींशुकश्यामलाम् ॥ ५४॥
दिव्यगन्धर्वकन्याभिस्समाराधितपादुकाम् ॥ ५५॥
सङ्गीत मातृकां वन्दे वरदां सुस्मिताननाम् ॥ ५६॥
निहितमतिर्यद्यपि मामपेतचेतीभवति स्तोतुं विलोभयति ॥ ५७॥
भगवति मातङ्गेश्वरि नमस्तुभ्यं महादेवि ॥ ५८॥
