Goddess Matangi

श्री मातङ्गी कवचम् (सुमुखी कवचम्)

(Sri Matangi Kavacham)

Also known as shri matangi kavacham · shree matangi kavacham · matangi kavacham

An armour of Matangi, called in its own heading the armour of the fair-faced one, and it opens with Parvati asking Shiva for it on a condition — tell me the armour of Matangi, if you have any love for me. The armour proper is made of her mantra broken across the body, so that Ucchishta-chandali Matangi, subduer of all, svaha, guards one part and the destroyer of every enemy the next. Directions for the practice and for wearing the written armour follow it. The closing verse gives the claim these texts make for themselves in its strongest form: one who repeats Matangi's mantra without knowing this armour gains nothing by it, even after a hundred thousand preliminary repetitions.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री मातङ्गी कवचम् (सुमुखी कवचम्) ॥
श्रीपार्वत्युवाच
देवदेव महादेव सृष्टिसंहारकारक ।
मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥ १ ॥
शिव उवाच
अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् ।
तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥ २ ॥
शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे ।
अनया सदृशी विद्या न भूता न भविष्यति ॥ ३ ॥
॥ ध्यानम् ॥
शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् ।
एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥ ४ ॥
॥ कवचम् ॥
उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः ।
सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥ ५ ॥
महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु ।
ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥ ६ ॥
ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका ।
ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥ ७ ॥
ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा ।
ज्येष्ठमातङ्ग्यङ्गुलीर्मे अङ्गुल्यग्रे नमामि च ॥ ८ ॥
उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी ।
शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥ ९ ॥
उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः ।
स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥ १० ॥
॥ गोपनीयता निर्देश ॥
अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् ।
भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥ ११ ॥
दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् ।
उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥ १२ ॥
॥ साधना विधि ॥
रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः ।
रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥ १३ ॥
सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन ।
अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥ १४ ॥
॥ कवच धारण विधि ॥
भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् ।
प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥ १५ ॥
स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे ।
सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥ १६ ॥
स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च साङ्गना ॥ १७ ॥
जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् ।
शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥ १८ ॥
॥ फलश्रुति ॥
इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा ।
तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥ १९ ॥
॥ इति श्रीरुद्रयामलतन्त्रे श्री मातङ्गी सुमुखी कवचम् सम्पूर्णम् ॥

Explore More