Goddess Radha

श्री राधा कवचम्

(Sri Radha Kavacham)

Also known as shri radha kavacham · shree radha kavacham · radha kavacham

An armour of Rādhā from the Jñānāmṛtasāra of the Nārada Pañcarātra, asked for by Pārvatī and given by Śiva. Her request has an urgency the form does not require — if there is compassion in you, lord, save me from sorrow and from fear; you alone are the refuge, holder of the trident and the Pināka — and his answer names what the armour does before giving it: it makes every protection, takes away every killing, gives devotion to Hari directly, accomplishes both enjoyment and release, draws the three worlds, and brings about nearness to Hari. That last is the one that matters in this tradition, where proximity rather than liberation is the thing wanted. Its closing verse restricts transmission sharply: it is to be given to a Vaiṣṇava who is pure and possessed of dispassion, and otherwise the giver comes to ruin.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री राधा कवचम् ॥
पार्वत्युवाच।
कैलास वासिन् भगवन् भक्तानुग्रहकारक ।
राधिका कवचं पुण्यं कथयस्व मम प्रभो ॥ १ ॥
यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात् ।
त्वमेव शरणं नाथ शूलपाणे पिनाकधृत् ॥ २ ॥
शिव उवाच।
शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् ।
सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥ ३ ॥
हरिभक्तिप्रदं साक्षाद्भुक्तिमुक्तिप्रसाधनम् ।
त्रैलोक्याकर्षणं देवि हरिसान्निध्यकारकम् ॥ ४ ॥
सर्वत्र जयदं देवि सर्वशत्रुभयावहम् ।
सर्वेषां चैव भूतानां मनोवृत्तिहरं परम् ॥ ५ ॥
चतुर्धा मुक्तिजनकं सदानन्दकरं परम् ।
राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥ ६ ॥
इदं कवचमज्ञात्वा राधामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे ॥ ७ ॥
॥ विनियोगः ॥
ऋषिरस्य महादेवोऽनुष्टुप् छन्दश्च कीर्तितम् ।
राधाऽस्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥ ८ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
॥ कवचम् ॥
श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥ ९ ॥
श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी ।
हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना ॥ १० ॥
ओष्ठं पातु कृपादेवी अधरं गोपिका तथा ।
वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी ॥ ११ ॥
चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा ।
कण्ठं पातु हरिप्राणा हृदयं विजया तथा ॥ १२ ॥
बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा ।
कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥ १३ ॥
नखांश्चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा ।
नखान् विधुमुखी देवी गोपी पादतलं तथा ॥ १४ ॥
शुभप्रदा पातु पृष्ठं कुक्षौ श्रीकान्तवल्लभा ।
जानुदेशं जया पातु हरिणी पातु सर्वतः ॥ १५ ॥
वाक्यं वाणी सदा पातु धनागारं धनेश्वरी ।
पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥ १६ ॥
उत्तरां हरिता पातु दक्षिणां वृषभानुजा ।
चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥ १७ ॥
सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी ।
रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥ १८ ॥
हेतुदा सङ्गवे पातु केतुमाला दिवार्धके ।
शेषाऽपराह्णसमवे शमिता सर्वसन्धिषु ॥ १९ ॥
योगिनी भोगसमये रतौ रतिप्रदा सदा ।
कामेशी कौतुके नित्यं योगे रत्नावली मम ॥ २० ॥
सर्वदा सर्वकार्येषु राधिका कृष्णमानसा ।
इत्येतत्कथितं देवि कवचं परमाद्भुतम् ॥ २१ ॥
॥ फलश्रुति ॥
सर्वरक्षाकरं नाम महारक्षाकरं परम् ।
प्रातर्मध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥ २२ ॥
सर्वार्थसिद्धिस्तस्य स्याद्यन्मनसि वर्तते ।
राजद्वारे सभायां च सङ्ग्रामे शत्रुसङ्कटे ॥ २३ ॥
प्राणार्थनाशसमये यः पठेत्प्रयतो नरः ।
तस्य सिद्धिर्भवेद्देवि न भयं विद्यते क्वचित् ॥ २४ ॥
आराधिता राधिका च तेन सत्यं न संशयः ।
गङ्गास्नानाद्धरेर्नामग्रहणाद्यत्फलं लभेत् ॥ २५ ॥
तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः ।
हरिद्रारोचनाचन्द्रमण्डितं हरिचन्दनम् ॥ २६ ॥
कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे ।
कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥ २७ ॥
कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः ।
संहारं चाऽहं नियतं करोमि कुरुते तथा ॥ २८ ॥
वैष्णवाय विशुद्धाय विरागगुणशालिने ।
दद्यात्कवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥ २९ ॥
॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे राधा कवचम् सम्पूर्णम् ॥

Explore More