सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः ।
अत्यर्थं मनसा कृताच्युतजपः पापान्धकारातपः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 1 ॥
प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः ।
सच्छास्त्रादि विदूषकाखिलमृषावादीभकण्ठीरवः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 2 ॥
त्रय्यर्थस्मृतिजैमिनीयकवितासङ्कीतपारङ्गतः ।
विप्रक्षत्रविडङ्घ्रिजातमुखरानेकप्रजासेवितः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 3 ॥
प्रत्यक्स्थद्विजपुङ्गवालय लसन्मन्त्रालयाख्ये पुरे ।
नव्येन्द्रोपलनीलभव्यकरसद्वृन्दावनान्तर्गतः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 4 ॥
रागाघौघहपादुकाद्वयचरः पद्माक्षमालाधरः ।
भास्वद्दण्टकमण्डलूज्ज्वलकरो रक्ताम्बराडम्बरः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 5 ॥
ध्यानाराधनमृद्विलेपनमुखानेकोपचारान् सदा ।
कारं कारमभिप्रयान्ति चतुरो लोकाः पुमर्थान् सदा
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 6 ॥
ज्ञात्वाऽद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये ।
सङ्ख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन्मुदा
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 7 ॥
शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूहगोत्रस्वरुः ।
चेतोऽतीतशिरुस्तथा जितवरुस्सत्सौख्यसम्पत्करुः
श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम् ॥ 8 ॥
सद्यः पापहरं स्वसेवि विदुषां भक्त्यैतदाभाषितम् ।
भक्त्या वक्ति सुसम्पदं शुभपदं दीर्घायुरारोग्यकं
कीर्तिं पुत्रकलत्रबान्धवसुहृन्मूर्तिः प्रयाति ध्रुवम् ॥
