अपाङ्गक्रुद्धदर्शनोपहार चूर्णकुन्तलः ।
प्रचण्डवेगकारणेन पिञ्जलः प्रतिग्रहः
स क्रुद्धताण्डवस्वरूपधृग्विराजते हरिः ॥ 1 ॥
तथाञ्जनेयृक्षभूपसौरबालिनन्दनाः ।
प्रचण्डदानवानलं समुद्रतुल्यनाशकाः
नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे ॥ 2 ॥
उपासनोपसङ्गमार्थधृग्विशाखमण्डलम् ।
हृदि स्मरन् दशाकृतेः कुचक्रचौर्यपातकं
विदार्यते प्रचण्डताण्डवाकृतिः स राघवः ॥ 3 ॥
कुकूटकूटकूटकौणपात्मजाभिमर्दनम् ।
तथागुणङ्गुणङ्गुणङ्गुणङ्गुणेन दर्शयन्
कृपीटकेशलङ्घ्यमीशमेकराघवं भजे ॥ 4 ॥
विरोधिमेदसाग्रमांसगुल्मकालखण्डनैः ।
महासिपाशशक्तिदण्डधारकैः निशाचरैः
परिप्लुतं कृतं शवैश्च येन भूमिमण्डलम् ॥ 5 ॥
तथाहिरावणाद्यकम्पनातिकायजित्वरैः ।
सुरक्षितां मनोरमां सुवर्णलङ्कनागरीं
निजास्त्रसङ्कुलैरभेद्यकोटमर्दनं कृतः ॥ 6 ॥
विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः ।
पुलस्त्यनन्दनात्मजस्य मुण्डरुण्डछेदनं
सुरारियूथभेदनं विलोकयामि साम्प्रतम् ॥ 7 ॥
कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम् ।
विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकं
भजामि जित्वरं तथोर्मिलापतेः प्रियाग्रजम् ॥ 8 ॥
अनुप्लवप्रवाहप्रासिकाश्च वैजयन्तिकाः ।
मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानतां
अभिक्रमेण राघवस्य ताण्डवाकृतेः गताः ॥ 9 ॥
महोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम् ।
निरङ्कुशं निजात्मभक्तजन्ममृत्युनाशकं
अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥ 10 ॥
कुठारसर्वलासिधेनुकेलिशल्यमुद्गरैः ।
सुपुष्करेण पुष्कराञ्च पुष्करास्त्रमारणैः
सदाप्लुतं निशाचरैः सुपुष्करञ्च पुष्करम् ॥ 11 ॥
कपीशवृन्दसेवितं समस्तदूषणापहम् ।
सुरासुराभिवन्दितं निशाचरान्तकं विभुं
जगत्प्रशस्तिकारणं भजेह राममीश्वरम् ॥ 12 ॥
