तस्मिंस्तु दिवसे वीरो युधाजित्समुपेयिवान् ॥ १ ॥
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ २ ॥
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् ॥ ३ ॥
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ ४ ॥
मिथिलामुपयातांस्तु त्वया सह महीपते ॥ ५ ॥
अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ॥ ६ ॥
प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ।
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ ७ ॥
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ॥ ८ ॥
पितुः समीपमाश्रित्य तस्थौ भ्रातृभिरावृतः ।
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥ ९ ॥
पुत्रैर्नरवर श्रेष्ठ दातारमभिकाङ्क्षते ॥ १० ॥
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ ११ ॥
प्रत्युवाचमहातेजा वाक्यं परमधर्मवित् ॥ १२ ॥
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १३ ॥
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ॥ १४ ॥
अविघ्नं कुरुतां राजा किमर्थमवलम्बते ॥ १५ ॥
प्रवेशयामास सुतान् सर्वानृषिगणानपि ॥ १६ ॥
कारयस्व ऋषे सर्वामृषिभिः सह धार्मिक ।
रामस्य लोकरामस्य क्रियां वैवाहिकीं प्रभो ॥ १७ ॥
विश्वामित्रं पुरस्कृत्य शतानन्दं च धार्मिकम् ॥ १८ ॥
अलञ्चकार तां वेदिं गन्धपुष्पैः समन्ततः ॥ १९ ॥
अङ्कुराढ्यैः शरावैश्च धूपपात्रैः सधूपकैः ॥ २० ॥
लाजपूर्णैश्च पात्रीभिरक्षतैरभिसंस्कृतैः ॥ २१ ॥
अग्निमाधाय वेद्यां तु विधिमन्त्रपुरस्कृतम् ॥ २२ ॥
जुहावाग्नौ महातेजा वसिष्ठो भगवानृषिः ।
समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा ।
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ॥ २३ ॥
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥ २४ ॥
इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥ २५ ॥
देवदुन्दुभिनिर्घोषः पुष्पवर्षो महानभूत् ॥ २६ ॥
अब्रवीज्जनको राजा हर्षेणाभिपरिप्लुतः ॥ २७ ॥
प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः ॥ २८ ॥
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ २९ ॥
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ ३० ॥
पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः ॥ ३१ ॥
चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ ३२ ॥
ऋषींश्चैव महात्मानः सभार्या रघुसत्तमाः ।
यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् ॥ ३३ ॥
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥ ३४ ॥
विवाहे रघुमुख्यानां तदद्भुतमदृश्यत ॥ ३५ ॥
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ ३६ ॥
राजाऽपि अनुययौ पश्यन्सर्षिसङ्घः सबान्धवः ॥ ३७ ॥
