कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ १ ॥
सदाऽविकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥ २ ॥
भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥ ३ ॥
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥ ४ ॥
गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥ ५ ॥
विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥ ६ ॥
गम्भीरवादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥ ७ ॥
रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥ ८ ॥
पठन्ति शृण्वन्ति गृणन्ति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥ ९ ॥
