कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १ ॥
कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २ ॥
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३ ॥
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥
लीलाविजितकृतान्तं भान्तं स्वांतेषु देवानां वन्दे ॥ ५ ॥
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६ ॥
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७ ॥
प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८ ॥
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९ ॥
