Lord Yama

यम अष्टकम्

(Yama Ashtakam)

From Skanda Purana

Yama Ashtakam is a powerful devotional hymn dedicated to Lord Yama, the god of justice and the controller of dharma. Found in the Skanda Purana, this stotra praises the impartial nature of Yama, who observes the deeds of all living beings without bias. Chanting this hymn is believed to instill a sense of righteousness and fearlessness in the devotee. By reciting these eight verses with devotion, one seeks the grace of the Lord of Death to remove obstacles, overcome the fear of mortality, and gain the strength to walk the path of virtue and eternal truth.

सावित्र्युवाच ।

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।
धर्मं सूर्यःसुतं प्राप धर्मराजं नमाम्यहम् ॥ 1 ॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ 2 ॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥ 3 ॥
बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ॥ 4 ॥
विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ 5 ॥
तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ।
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥ 6 ॥
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ 7 ॥
यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥ 8 ॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥ 9 ॥
इदं यमष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ 10 ॥
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ 11 ॥
इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे एकत्रिंशोऽध्यायः ।

Explore More