Goddess Devi

श्री सिद्धिदेवी अष्टोत्तरशतनामावली

(Sri Siddhidevi Astottarasatanamavali)

Also known as sri siddhi devi ashtottara shatanamavali · shri siddhidevi astottarasatanamavali · shree siddhidevi astottarasatanamavali

A hundred and eight names of Siddhi, and the first of them settles which Siddhi is meant: she who dwells in the mansion within the abode of one's own bliss, and who is dear to the lord of the hosts. Svanandabhavana is Ganesha's own seat in the Ganapatya tradition, and Siddhi is one of his two consorts. The names hold her both ways at once — the union that is the power of Brahman, the very form of that union, of surpassing loveliness — and then plainly, the great accomplishment, the mistress of the lord of hosts. The list is short enough to be recited at a Ganesha worship, which is where it belongs.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 109
ॐ स्वानन्दभवनान्तस्थहर्म्यस्थायै नमः ।
ॐ गणपप्रियायै नमः ।
ॐ सम्योगस्वानन्दब्रह्मशक्त्यै नमः ।
ॐ सम्योगरूपिण्यै नमः ।
ॐ अतिसौन्दर्यलावण्यायै नमः ।
ॐ महासिद्ध्यै नमः ।
ॐ गणेश्वर्यै नमः ।
ॐ वज्रमाणिक्यमकुटकटकादिविभूषितायै नमः ।
ॐ कस्तूरीतिलकोद्भासिनिटिलायै नमः । ९ ॥
ॐ पद्मलोचनायै नमः ।
ॐ शरच्चाम्पेयपुष्पाभनासिकायै नमः ।
ॐ मृदुभाषिण्यै नमः ।
ॐ लसत्काञ्चनताटङ्कयुगलायै नमः ।
ॐ योगिवन्दितायै नमः ।
ॐ मणिदर्पणसङ्काशकपोलायै नमः ।
ॐ काङ्क्षितार्थदायै नमः ।
ॐ ताम्बूलपूरितस्मेरवदनायै नमः ।
ॐ विघ्ननाशिन्यै नमः । १८ ॥
ॐ सुपक्वदाडिमीबीजरदनायै नमः ।
ॐ रत्नदायिन्यै नमः ।
ॐ कम्बुवृत्तसमच्छायकन्धरायै नमः ।
ॐ करुणायुतायै नमः ।
ॐ मुक्ताभायै नमः ।
ॐ दिव्यवसनायै नमः ।
ॐ रत्नकल्हारमालिकायै नमः ।
ॐ गणेशबद्धमाङ्गल्यायै नमः ।
ॐ मङ्गलायै नमः । २७ ॥
ॐ मङ्गलप्रदायै नमः ।
ॐ वरदाभयहस्ताब्जायै नमः ।
ॐ भवबन्धविमोचिन्यै नमः ।
ॐ सुवर्णकुम्भयुग्माभसुकुचायै नमः ।
ॐ सिद्धिसेवितायै नमः ।
ॐ बृहन्नितम्बायै नमः ।
ॐ विलसज्जघनायै नमः ।
ॐ जगदीश्वर्यै नमः ।
ॐ सौभाग्यजातशृङ्गारमध्यमायै नमः । ३६ ॥
ॐ मधुरस्वनायै नमः ।
ॐ दिव्यभूषणसन्दोहरञ्जितायै नमः ।
ॐ ऋणमोचिन्यै नमः ।
ॐ पारिजातगुणाधिक्यपदाब्जायै नमः ।
ॐ परमात्मिकायै नमः ।
ॐ सुपद्मरागसङ्काशचरणायै नमः ।
ॐ चिन्तितार्थदायै नमः ।
ॐ ब्रह्मभावमहासिद्धिपीठस्थायै नमः ।
ॐ पङ्कजासनायै नमः । ४५ ॥
ॐ हेरम्बनेत्रकुमुदचन्द्रिकायै नमः ।
ॐ चन्द्रभूषणायै नमः ।
ॐ सचामरशिवावाणीसव्यदक्षिणवीजितायै नमः ।
ॐ भक्तरक्षणदाक्षिण्यकटाक्षायै नमः ।
ॐ कमलासनायै नमः ।
ॐ गणेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमः ।
ॐ परात्परायै नमः ।
ॐ लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्वितायै नमः ।
ॐ वाणीकोटिसमायुक्तकोटिब्रह्मनिषेवितायै नमः । ५४ ॥
ॐ लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजितायै नमः ।
ॐ गौरीकोटिसमायुक्तशम्भुकोटिसुसेवितायै नमः ।
ॐ प्रभाकोटिसमायुक्तकोटिभास्करवन्दितायै नमः ।
ॐ भानुकोटिप्रतीकाशायै नमः ।
ॐ चन्द्रकोटिसुशीतलायै नमः ।
ॐ चतुष्षष्टिकोटिसिद्धिनिषेवितपदाम्बुजायै नमः ।
ॐ मूलाधारसमुत्पन्नायै नमः ।
ॐ मूलबन्धविमोचन्यै नमः ।
ॐ मूलाधारैकनिलयायै नमः । ६३ ॥
ॐ योगकुण्डलिभेदिन्यै नमः ।
ॐ मूलाधारायै नमः ।
ॐ मूलभूतायै नमः ।
ॐ मूलप्रकृतिरूपिण्यै नमः ।
ॐ मूलाधारगणेशानवामभागनिवासिन्यै नमः ।
ॐ मूलविद्यायै नमः ।
ॐ मूलरूपायै नमः ।
ॐ मूलग्रन्थिविभेदिन्यै नमः ।
ॐ स्वाधिष्ठानैकनिलयायै नमः । ७२ ॥
ॐ ब्रह्मग्रन्धिविभेदिन्यै नमः ।
ॐ मणिपूरान्तरुदितायै नमः ।
ॐ विष्णुग्रन्धिविभेदिन्यै नमः ।
ॐ अनाहतैकनिलयायै नमः ।
ॐ रुद्रग्रन्धिविभेदिन्यै नमः ।
ॐ विशुद्धिस्थाननिलयायै नमः ।
ॐ जीवभावप्रणाशिन्यै नमः ।
ॐ आज्ञाचक्रान्तरालस्थायै नमः ।
ॐ ज्ञानसिद्धिप्रदायिन्यै नमः । ८१ ॥
ॐ ब्रह्मरन्ध्रैकनिलयायै नमः ।
ॐ ब्रह्मभावप्रदायिन्यै नमः ।
ॐ षट्कोणाष्टदलयुत-श्रीसिद्धियन्त्रमध्यगायै नमः ।
ॐ अन्तर्मुखजनानन्तफलदायै नमः ।
ॐ शोकनाशिन्यै नमः ।
ॐ अव्याजकरुणापूरपूरितायै नमः ।
ॐ वसुधारिण्यै नमः ।
ॐ दारिद्र्यनाशिन्यै नमः ।
ॐ लक्ष्म्यै नमः । ९० ॥
ॐ सर्वपापप्रणाशिन्यै नमः ।
ॐ भुक्तिसिद्ध्यै नमः ।
ॐ मुक्तिसिद्ध्यै नमः ।
ॐ सुधामण्डलमध्यगायै नमः ।
ॐ चिन्तामणये नमः ।
ॐ सर्वसिद्ध्यै नमः ।
ॐ कमलायै नमः ।
ॐ वल्लभायै नमः ।
ॐ शिवायै नमः । ९९ ॥
ॐ सिद्धलक्ष्म्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः ।
ॐ जयलक्ष्म्यै नमः ।
ॐ वरप्रदायै नमः ।
ॐ रमायै नमः ।
ॐ नन्दायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ विभूत्यै नमः ।
ॐ भक्तिवर्धिन्यै नमः । १०८ ॥
॥ इति श्री सिद्धिदेवी अष्टोत्तरशतनामावली सम्पूर्णा ॥

Explore More