किं किमित्यतिविस्मिते मयि पश्यतीह समागताम् ।
कालकुन्तलभारनिर्जितनीलमेघकुलां पुरः
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ १॥
एनसां परिपन्थिनीमहमेकभक्तिमदर्चिताम् ।
एकहीनशतेषु जन्मसु सञ्चितात्सुकृतादिमां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ २॥
ईशपङ्कजनाभसृष्टिकृदादिवन्द्यपदाम्बुजाम् ।
ईक्षणान्तनिरीक्षणेन मदिष्टदां पुरतोऽधुना
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ३॥
लीलयैवदयारसस्त्रवदुज्वलत्कलशान्विताम् ।
लाक्षयाङ्कितपादपातिमिलिन्दसन्ततिमग्रतः
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ४॥
योगिमार्गनिरूढयैक्यसुभावनां गतया धिया ।
वत्स हर्षमवाप्तवत्यहमित्युदारगिरं पुरः
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ५॥
क्काणमोहितमादरादनुधावितं मृदु शृण्वतीम् ।
हंसमन्त्रमहार्थतत्वमयीं पुरो मम भाग्यत
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ६॥
धारया वहदञ्जसा भ्रममाप्य सैकतनिर्गतम् ।
एवमादिमहेन्द्रजालसुकोविदां पुरतोऽधुना
चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ७॥
कण्ठदेशलसत्सुमङ्गलहेमसूत्रविराजिताम् ।
कादिमन्त्रमुपासतां सकलेष्टदां मम सन्निधौ
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ ८॥
हस्तिकृत्तिपरीतकार्मुकवल्लरीसमचिल्लिकाम् ।
हर्यजस्तुतवैभवां भवकामिनीं मम भाग्यतः
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ ९॥
लास्यलोलसुवर्णकुण्डलमण्डितां जगदम्बिकाम् ।
लीलयाखिलसृष्टिपालनकर्षणादिवितन्वतीं
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १०॥
हादिमन्त्रमहाम्बुजातविराजमानसुहंसिकाम् ।
हेमकुम्भघनस्तनाञ्चललोलमौक्तिकभूषणां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ ११॥
शरवदेवनमनःप्रियां नवयौवनोन्मदगर्विताम् ।
सर्वमङ्गलविग्रहां मम पूर्वजन्मतपोबला
च्चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १२॥
कुन्दकुङ्मलदन्तपङ्क्तिविराजितामपराजिताम् ।
कन्दमागमवीरुधां सुरसुन्दरीभिरिहागतां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १३॥
लोलनीलसुकुन्तलावलिनिर्जितालिकदम्बकाम् ।
लोभमोहविदारिणीं करुणामयीमरुणां शिवां
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १४॥
हृत्सरोजनिवासिनीं हरवल्लभां बहुरूपिणीम् ।
हारकुण्डलनूपुरादिभिरन्वितां पुरतोऽधुना
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १५॥
श्रीसुधार्णवमध्यशोभिसरोजकाननचन्द्रिकाम् ।
श्रीगुहस्तुतवैभवां परदेवतां मम सन्निधौ
चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १६॥
