कथमिव तस्मिञ्ज्ञाते सर्वं विज्ञातमुच्यते वेदे ॥
तद्योगादेव शिवो जगदुत्पादयति पाति संहारति ॥
अर्थमयी शब्दमयी चक्रमयी देहमय्यपि च सृष्टिः ॥
मांसमनुत्तररूढं वाग्भवकूटं प्रकिर्तितं प्रथमम् ॥
द्वैतीयीकं कूटं कथितं तत् कामराजाख्यम् ॥
हृल्लेखानां त्रितयं कूटत्रितये ऽपि योज्यमन्ते स्यात् ॥
बिन्द्वर्धचन्द्ररोधिन्यो नादनादान्तशक्तयः ॥
बिन्द्वादीनां नवानां तु समष्टिर्नाद उच्यते ॥
