Lord Vishnu

श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

(Shri Vishnu Ashtottara Shatanam Stotram)

From Brahmanda Purana

This sacred hymn, appearing in the Brahmanda Purana, consists of one hundred and eight names of Lord Vishnu, the preserver of the universe. Chanting these names is believed to be a powerful spiritual practice that cleanses the mind, removes obstacles, and bestows inner peace. The introductory verse emphasizes that merely listening to or reciting this stotra allows an individual to transcend mundane existence and attain the qualities of Narayana. It is highly revered for its ability to grant prosperity, spiritual liberation, and constant protection from divine grace, making it a staple in daily worship.

अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः ।
यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥ 1 ॥
विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । [वृषापतिः]
दामोदरो दीनबन्धुरादिदेवोऽदितेस्तुतः ॥ 2 ॥
पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारी विश्वात्मा कृष्णः कलिमलापहा ॥ 3 ॥
कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ 4 ॥
हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः ।
वामनो वेदवक्ता च वासुदेवः सनातनः ॥ 5 ॥
रामो विरामो विरजो रावणारी रमापतिः ।
वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥ 6 ॥
धर्मेशो धरणीनाथो ध्येयो धर्मभृतांवरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 7 ॥
सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः । [सर्वदः]
कौसल्यानन्दनः श्रीमान् राक्षसःकुलनाशकः ॥ 8 ॥
जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा ।
जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥ 9 ॥
क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा ।
शेषशायी पन्नगारिवाहनो विष्टरश्रवः ॥ 10 ॥
माधवो मथुरानाथो मुकुन्दो मोहनाशनः ।
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥ 11 ॥
सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः ।
नित्यो निरामयश्शुद्धो वरदेवो जगत्प्रभुः ॥ 12 ॥
[नरदेवो]
हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ।
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥ 13 ॥
सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ।
यशोदातनयो योगी योगशास्त्रपरायणः ॥ 14 ॥
रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूधनः । [रुद्रसूदनः]
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ 15 ॥
सर्वपापहरं पुण्यं दिव्योरतुलतेजसः ।
दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥ 16 ॥
सर्वसम्पत्करं सौम्यं महापातकनाशनम् ।
प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः ॥ 17 ॥
तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ 18 ॥
इति श्री विष्णोः अष्टोत्तरशतनाम स्तोत्रम् ॥

Explore More