गोविन्दो दक्षिणे पार्श्वे वामे च मधुसूधनः ॥१॥
अवान्तरदिशो यास्स्युः तासु सर्वासु माधवः ॥२॥
नरसिंहकृता गुप्तिः वासुदेवमयो ह्यहम् ॥३॥
व्यक्तं तेऽहं दीर्घमायुर्गतिं च ।
वह्निं वक्त्रं चन्द्रसूर्यौ च नेत्रे
दिशश्श्रोत्रे प्राणमाहुश्च वायुम् ॥४॥
पृथ्वी पादौ तारका रोमकूपाः ।
सांगोपांगा ह्यधिदेवता च विद्या
ह्युपस्थं ते सर्व एते समुद्राः ॥५॥
यज्ञात्मकं सर्वलोक प्रतिष्ठम् ।
यज्ञं वरेण्यं वरदं वरिष्ठं
ब्रह्माणमीशं पुरुषं नमस्ते ॥६॥
ऋतेमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥७॥
केशवं गाञ्च गङ्गाञ्च कीर्तयन्नावसीदति ॥८॥
सुरापानात्पूतो भवति सुवर्णस्तेयात्पूतो भवति असत्यभाषणात्पूतो भवति अगम्यागमनात्पूतो भवति वृषलीगमनात्पूतो भवति अभक्ष्यभक्षणात्पूतो भवति ब्रह्मचारी सुब्रह्मचारी भवति अनेक क्रतुसहस्रेणेष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति चत्वारो वेदाश्चाधीता भवन्ति सर्ववेदेषु ज्ञातो भवति सर्वतीर्थेषु स्नातो भवति । यदि कस्यचिन्नब्रूयाच्छ्वित्री भवति । अष्टौ ब्राह्मणाग् ग्राहयित्वा विष्णुलोकमाप्नोति मानसेन गतिर्भवति न नश्यति मन्त्रः यत्र यत्रेच्छेत्तत्र तत्रोपजायते स्मरति चात्मानं भगवान्महाविष्णुरित्याह ।
