Lord Vishnu

श्री विष्णु स्तवराजः

(Sri Vishnu Stavaraja 1 (Kalki Purane))

From Kalki Purana

Also known as shri vishnu stavaraja 1 (kalki purane) · shree vishnu stavaraja 1 (kalki purane) · vishnu stavaraja 1 (kalki purane)

Twenty verses from the Kalki Purana, spoken there by Padma, and the description runs upward rather than down. It begins at the feet — the lotus feet that are Lakshmi's dwelling, where devotees settle like bees among the tulasi leaves, the high red nails, the taste of the Ganga in them — and takes the next verse for the anklets and the flashing girdle and the fluttering hem of the yellow robe. Only at the eleventh does it reach the face, lovely with the opening of a smile, red-lipped, rich with the nectar of gentle speech, its restless eyes drawn like leaf-designs. Beginning at the feet and ending at the crown is the older order of these hymns, and this is one of the few here that keeps it.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री विष्णु स्तवराजः – १ (कल्किपुराणे) ॥
पद्मोवाच ।
योगेन सिद्धविबुधैः परिभाव्यमानं
लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम् ।
प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं
गङ्गारसं हरिपदाम्बुजमाश्रयेऽहम् ॥ १ ॥
गुम्फन्मणिप्रचयघट्‍टितराजहंस-
-सिञ्जत्सुनूपुरयुतं पदपद्मवृन्दम् ।
पीताम्बराञ्चलविलोलचलत्पताकं
स्वर्णत्रिवक्रवलयं च हरेः स्मरामि ॥ २ ॥
जङ्घे सुपर्णगलनीलमणिप्रवृद्धे
शोभास्पदारुणमणिद्युतिचुञ्चुमध्ये ।
आरक्तपादतललम्बनशोभमाने
लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥ ३ ॥
ते जानुनी मखपतेर्भुजमूलसङ्ग-
-रङ्गोत्सवावृततटिद्वसने विचित्रे ।
चञ्चत्पतत्रिमुखनिर्गतसामगीत-
-विस्तारितात्मयशसी च हरेः स्मरामि ॥ ४ ॥
विष्णोः कटिं विधिकृतान्तमनोजभूमिं
जीवाण्डकोशगणसङ्गदुकूलमध्याम् ।
नानागुणप्रकृतिपीतविचित्रवस्त्रां
ध्याये निबद्धवसनां खगपृष्ठसंस्थाम् ॥ ५ ॥
शातोदरं भगवतस्त्रिवलिप्रकाश-
-मावर्तनाभिविकसद्विधिजन्मपद्मम् ।
नाडीनदीगणरसोत्थसितान्त्रसिन्धुं
ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६ ॥
वक्षः पयोधितनयाकुचकुङ्कुमेन
हारेण कौस्तुभमणिप्रभया विभातम् ।
श्रीवत्सलक्ष्म हरिचन्दनजप्रसून-
-मालोचितं भगवतः सुभगं स्मरामि ॥ ७ ॥
बाहू सुवेषसदनौ वलयाङ्गदादि-
-शोभास्पदौ दुरितदैत्यविनाशदक्षौ ।
तौ दक्षिणौ भगवतश्च गदासुनाभ-
-तेजोर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥
वामौ भुजौ मुररिपोर्धृतपद्मशङ्खौ
श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ ।
रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ
पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९ ॥
कण्ठं मृणालममलं मुखपङ्कजस्य
लेखात्रयेण वनमालिकया निवीतम् ।
किं वा विमुक्तिवशमन्त्रकसत्फलस्य
वृन्तं चिरं भगवतः सुभगं स्मरामि ॥ १० ॥
वक्त्राम्बुजं दशनहासविकासरम्यं
रक्ताधरोष्ठवरकोमलवाक्सुधाढ्यम् ।
सन्मानसोद्भवचलेक्षणपत्रचित्रं
लोकाभिरामममलं च हरेः स्मरामि ॥ ११ ॥
सूरात्मजावसथगन्धमिदं सुनासं
भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।
कामोत्सवं च कमलाहृदयप्रकाशं
सञ्चिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२ ॥
कर्णौ लसन्मकरकुण्डलगण्डलोलौ
नानादिशां च नभसश्च विकासगेहम् ।
लोलालकप्रचयचुम्बनकुञ्चिताग्रौ
लग्नौ हरेर्मणिकिरीटतटे स्मरामि ॥ १३ ॥
भालं विचित्रतिलकं प्रियचारुगन्धं
गोरोचनारचनया ललनाक्षिसख्यम् ।
ब्रह्मैकधाममणिकान्तकिरीटजुष्टं
ध्याये मनोनयनहारकमीश्वरस्य ॥ १४ ॥
श्रीवासुदेवचिकुरं कुटिलं निबद्धं
नानासुगन्धिकुसुमैः स्वजनादरेण ।
दीर्घं रमाहृदयगाशमनं धुनन्तं
ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥ १५ ॥
मेघाकारं सोमसूर्यप्रकाशं
सुभ्रून्नासं शक्रचापैकमानम् ।
लोकातीतं पुण्डरीकायताक्षं
विद्युच्चैलं चाश्रयेऽहं त्वपूर्वम् ॥ १६ ॥
दीनं हीनं सेवया दैवगत्या
पापैस्तापैः पूरितं मे शरीरम् ।
लोभाक्रान्तं शोकमोहादिविद्धं
कृपादृष्ट्या पाहि मां वासुदेव ॥ १७ ॥
॥ फलश्रुति ॥
ये भक्त्याऽद्यां ध्यायमानां मनोज्ञां
व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः ।
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः
शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥ १८ ॥
पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥ १९ ॥
पठन्ति ये महाभागास्ते मुच्यन्तेऽहसोऽखिलात् ।
धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥ २० ॥
॥ इति श्रीकल्किपुराणे पद्मकृत श्री विष्णु स्तवराजः सम्पूर्णम् ॥

Explore More