Goddess Devi

देवी चतुःषष्ट्युपचारपूजा स्तोत्रम्

(Devi Chatushasti Upachara Puja Stotram)

Adi Shankaracharya

Also known as devi chatushasti upachara puja stotra · usasi magadhamangalagayanai

The sixty-four services of the worship set out at length and given in the colophon to Shankara, seventy-three verses in all — where the Lalita text of the same sixty-four in this corpus compresses them into twenty-odd. It begins before the worship does, with the waking: at dawn, to the auspicious songs of the Magadha bards, wake, wake, wake, and make this world happy with glances wet with pity. The offerings are then given one at a time and in full detail. The betel alone takes a verse, with camphor and clove, takkola powder, sweet areca, white catechu and smooth nutmeg wrapped in betel leaves pale as a ketaka petal. A prayer for pardon closes it.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 73
॥ अथ देवी चतुःषष्ट्युपचारपूजा स्तोत्रम् ॥
उषसि मागधमङ्गलगायनै-
र्झटिति जागृहि जागृहि जागृहि ।
अतिकृपार्द्रकटाक्षनिरीक्षणै-
र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥
कनकमयवितर्दिशोभमानं
दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मात-
र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥
कनककलशशोभमानशीर्षं
जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव संनिवासहेतो-
र्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥
तपनीयमयी सुतूलिका
कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया
शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥
कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेऽस्मि-
न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥
मणिमौक्तिकनिर्मितं महान्तं
कनकस्तम्भचतुष्टयेन युक्तम् ।
कमनीयतमं भवानि तुभ्यं
नवमुल्लोचमहं समर्पयामि ॥ ६ ॥
दूर्वया सरसिजान्वितविष्णु-
क्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे
पाद्यमेतदुररीकुरु मातः ॥ ७ ॥
गन्धपुष्पयवसर्षपदूर्वा-
सम्युतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नै-
रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥
जलजद्युतिना करेण जाती-
फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
र्भगवत्याचमनं विधीयताम् ॥ ९ ॥
निहितं कनकस्य सम्पुटे
पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं
मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥
एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२ ॥
दधिदुग्धघृतैः समाक्षिकैः
सितया शर्करया समन्वितैः ।
स्नपयामि तवाहमादरा-
ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥
एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा-
त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ १४ ॥
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥
नवरत्नमये मयार्पिते
कमनीये तपनीयपादुके ।
सविलासमिदं पदद्वयं
कृपया देवि तयोर्निधीयताम् ॥ १६ ॥
बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशाङ्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥
मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ २१ ॥
रत्नाक्षतैस्त्वां परिपूजयामि
मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा
काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥
जननि चम्पकतैलमिदं पुरो
मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं
सपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥
मन्दारकुन्दकरवीरलवङ्गपुष्पै-
स्त्वां देवि सन्ततमहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥
मालतीवकुलहेमपुष्पिका-
काञ्चनारकरवीरकैतकैः ।
कर्णिकारगिरिकर्णिकादिभिः
पूजयामि जगदम्ब ते वपुः ॥ २६ ॥
पारिजातशतपत्रपाटलै-
र्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं
पूजयामि जगदम्ब ते वपुः ॥ २७ ॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥
रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-
र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकाः
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ ३० ॥
सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥
क्षीरमेतदिदमुत्तमोत्तमं
प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
सम्भ्रमेण परिपीयतां मुहुः ॥ ३२ ॥
उष्णोदकैः पाणियुगं मुखं च
प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कुमेन
हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥
अतिशीतमुशीरवासितं
तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥
जम्ब्वाम्ररम्भाफलसम्युतानि
द्राक्षाफलक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
फलानि ते देवि समर्पयामि ॥ ३५ ॥
कूश्माण्डकोशातकिसम्युतानि
जम्बीरनारङ्गसमन्वितानि ।
सबीजपूराणि सबादराणि
फलानि ते देवि समर्पयामि ॥ ३६ ॥
कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥
एलालवङ्गादिसमन्वितानि
तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसम्युतानि
पूगानि ते देवि समर्पयामि ॥ ३८ ॥
ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।
सौवर्णपात्रनिहितं खदिरेन सार्धं
ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥
महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥
सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३ ॥
शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥ ४४ ॥
मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरङ्गः ॥ ४७ ॥
मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्कणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥
द्रुततरतुरगैर्विराजमानं
मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं
भगवति ते हि रथं समर्पयामि ॥ ४९ ॥
हयगजरथपत्तिशोभमानं
दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत-
द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
परिघीकृतसप्तसागरं
बहुसम्पत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥
शतपत्रयुतैः स्वभावशीतै-
रतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तै-
र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥
भ्रमरलुलितलोलकुन्तलाली-
विगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती
तव हृदये मुदमातनोतु मातः ॥ ५३ ॥
मुखनयनविलासलोलवेणी-
विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला
भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥
डमरुडिण्डिमजर्झरझल्लरी-
मृदुरवद्रगडद्द्रगडादयः ।
झटिति झाङ्कृतझाङ्कृतझाङ्कृतै-
र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य-
स्तव द्वारि गायन्ति गन्धर्वकन्याः ।
क्षणं सावधानेन चित्तेन मातः
समाकर्णय त्वं मया प्रार्थितासि ॥ ५७ ॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥
तव देवि गुणानुवर्णने
चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु
स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥
पदे पदे यत्परिपूजकेभ्यः
सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षय हेतुभूतं
प्रदक्षिणं ते परितः करोमि ॥ ६० ॥
रक्तोत्पलारक्तलताप्रभाभ्यां
ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां
नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥
अथ मणिमयमञ्चकाभिरामे
कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि-
न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥
एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ॥
तव देवि सरोजचिह्नयोः
पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः
पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥
अथ मातरुशीरवासितं
निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्‍टके
मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥
क्षणमथ जगदम्ब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६८ ॥

॥ क्षमा प्रार्थना और समर्पण (Forgiveness & Surrender) ॥

एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥

॥ फलश्रुतिः (Benefits) ॥

पूजामिमां यः पठति प्रभाते
मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान्पुरुषोऽभ्युपैति
देहावसाने शिवभावमेति ॥ ७० ॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥
प्रत्यहं भक्तिसम्युक्तो यः पूजनमिदं पठेत् ।
वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ देवी चतुःषष्ट्युपचारपूजा स्तोत्रम् सम्पूर्णम् ॥

Explore More