Lord Ayyappa

धर्मशास्ता स्तोत्रम्

(Dharmashasta Stotram)

Traditional

The Dharmashasta Stotram is a profound devotional hymn dedicated to Lord Ayyappa, the divine union of Lord Shiva and Lord Vishnu. Also known as Hariharaputra, he is the master of dharma who protects devotees from spiritual ignorance and worldly suffering. This stotra glorifies his radiant form as the supreme light that resides within the hearts of seekers. Chanting this hymn with devotion is believed to bestow inner peace, mental clarity, and the strength to overcome life's obstacles, while granting the grace of the Lord for spiritual liberation and prosperity.

श्रितानन्द चिन्तामणि श्रीनिवासं
सदा सच्चिदानन्द पूर्णप्रकाशम् ।
उदारं सुदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 1
विभुं वेदवेदान्तवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेष्टं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 2
परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 3
परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्ज्वलच्चारुदीपम् ।
सुरेशादिसंसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 4
हरीशानसंयुक्तशक्त्येकवीरं
किरातावतारं कृपापाङ्गपूरम् ।
किरीटावतंसोज्ज्वलत् पिञ्छभारं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 5
गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महाकोटिसूर्यप्रकाशम् ।
कराम्भोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 6
महायोगपीठे ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 7
महारण्यमन्मानसान्तर्निवासान्
अहङ्कारदुर्वारहिं‍स्रा मृगादीन् ।
हरन्तं किरातावतारं चरन्तं [निहन्तं]
परं ज्योतिरूपं भजे भूतनाथम् ॥ 8
पृथिव्यादिभूत प्रपञ्चान्तरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणप्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 9
जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 10
इहामुत्र सत्सौख्यसम्पन्निधानं
महद्योनिमव्याहतात्माभिधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 11
त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधाम त्रिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिच्छिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 12
इडां पिङ्गलां सत्सुषुम्नां विशन्तं
स्फुटं ब्रह्मरन्ध्र स्वतन्त्रं सुशान्तम् ।
दृढं नित्य निर्वाणमुद्भासयन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 13
अणुब्रह्मपर्यन्त जीवैक्यबिम्बं
गुणाकारमत्यन्तभक्तानुकम्पम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परं ज्योतिरूपं भजे भूतनाथम् ॥ 14
इति धर्मशास्ता भुजङ्ग स्तोत्रम् ।

Explore More