Lord Ayyappa

महाशाश्ता अनुग्रह कवचम्

(Mahashasta Anugraha Kavacham)

From Brahmanda Purana

The Mahashasta Anugraha Kavacham is a powerful protective hymn dedicated to Lord Ayyappa, known as Mahashasta. Originating from the Brahmanda Purana, this stotra is framed as a dialogue between Lord Shiva and his consort, offering a spiritual shield against the intense afflictions of the Kali Yuga. Chanting this kavacham is believed to safeguard devotees from grave illnesses, negative energies, malevolent spirits, and the distress caused by nightmares. It acts as an armor of grace, bestowing divine protection, mental tranquility, and the removal of obstacles for those who seek the Lord's benevolent guidance.

श्रीदेव्युवाच-

भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक ।
प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1
महाव्याधि महाव्याल घोरराजैः समावृते ।
दुःस्वप्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ 2
स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥ 3
ईश्वर उवाच-
शृणु देवि महाभागे सर्वकल्याणकारणे ।
महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ 4
अग्निस्तम्भ जलस्तम्भ सेनास्तम्भ विधायकम् ।
महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ 5
महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् ।
सर्वरक्षोत्तमं पुंसां आयुरारोग्यवर्धनम् ॥ 6
किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादनात् ॥ 7
कवचस्य ऋषिर्ब्रह्मा गायत्रीः छन्द उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ 8
षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ 9
अस्य श्री महाशास्तुः कवचमन्त्रस्य । ब्रह्मा ऋषिः । गायत्रीः छन्दः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ह्रां इत्यादि षडङ्गन्यासः ॥
ध्यानम्-
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुक लसन्माणिक्यपात्राऽभयम् ।
बिभ्राणं करपङ्कजैः मदगज स्कन्धाधिरूढं विभुं
शास्तारं शरणं भजामि सततं त्रैलोक्य सम्मोहनम् ॥
महाशास्ता शिरः पातु फालं हरिहरात्मजः ।
कामरूपी दृशं पातु सर्वज्ञो मे श्रुतिं सदा ॥ 1
घ्राणं पातु कृपाध्यक्षः मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ 2
कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ 3
भूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाभिं पातु महावीरः कमलाक्षोऽवतु कटिम् ॥ 4
सनीपं पातु विश्वेशः गुह्यं गुह्यार्थवित्सदा ।
ऊरू पातु गजारूढः वज्रधारी च जानुनी ॥ 5
जङ्घे पात्वङ्कुशधरः पादौ पातु महामतिः ।
सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ 6
इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् ।
महाव्याधिप्रशमनं महापातकनाशनम् ॥ 7
ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम् ॥ 8
यं यं कामयते कामं तं तमाप्नोत्यसंशयः ।
त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥
इति श्री महाशास्ता अनुग्रह कवचम् ।

Explore More