Lord Ayyappa

अय्यप्प पञ्च रत्नम्

(Ayyappa Pancharatnam)

Traditional

The Ayyappa Pancharatnam is a powerful five-verse devotional hymn dedicated to Lord Ayyappa, the divine union of Lord Shiva and Lord Vishnu. The stotra exalts the Lord as the protector of the universe, the joy of Goddess Parvati's heart, and a deity who grants boons swiftly to his devotees. By chanting these rhythmic verses, seekers invoke the grace of the Lord to overcome worldly obstacles and achieve spiritual enlightenment. Regular recitation is believed to instill mental peace, remove ego, and foster a deep sense of devotion, ensuring the protective shield of the Master of Sabarimala remains upon the devotee.

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ 1 ॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ 2 ॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ 3 ॥
अस्मत्कुलेश्वरं देवम्-अस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ 4 ॥
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ 5 ॥
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
इति श्री शास्ता पञ्चरत्नम् । —— अथ शास्ता नमस्कार श्लोकाः । त्रयम्बकपुराधीशं गणाधिपसमन्वितम् । गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् ॥ 1 ॥ शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् । शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् ॥ 2 ॥ यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः । तं शास्तारमहं वन्दे महारोगनिवारणम् ॥ 3 ॥ भूतनाथ सदानन्द सर्वभूतदयापर । रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ 4 ॥

Explore More