तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ 1 ॥
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ 2 ॥
-तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ 3 ॥
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ 4 ॥
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नान्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ 5 ॥
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ 6 ॥
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ 7 ॥
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ 8 ॥
