Lord Ayyappa

धर्मशाश्ता स्तोत्रम् (श्री भारती तीर्थ कृतम्)

(Dharmashasta Stotram)

Sri Bharati Tirtha Mahaswamigal

Composed by His Holiness Sri Bharati Tirtha Mahaswamigal, the former Shankaracharya of the Sringeri Sharada Peetham, this stotra offers profound salutations to Lord Dharmashasta, popularly known as Lord Ayyappa. The verses celebrate the deity as the protector of Dharma, emphasizing his role as the divine upholder of cosmic order as delineated in the Upanishads. Chanting this hymn invokes the grace of the Lord, fostering inner discipline, righteousness, and spiritual clarity. It serves as a powerful meditative tool for devotees seeking to align their lives with eternal Vedic principles and attain divine protection during their spiritual journey.

जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।
तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ 1 ॥
श्रीशङ्कराचार्यैः शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ 2 ॥
तेष्वेव कर्मन्दिवरेषु विद्या-
-तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ 3 ॥
धर्मस्य गोप्ता यतिपुङ्गवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ 4 ॥
कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नान्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ 5 ॥
ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ 6 ॥
यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ 7 ॥
शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ 8 ॥
इति शृङ्गेरि जगद्गुरु श्री श्री भारतीतीर्थ महास्वामिभिः विरचितं धर्मशास्ता स्तोत्रम् ।

Explore More