Lord Rama

धाती पञ्चकम्

(Dhati Panchakam)

Vedanta Desika

Dhati Panchakam is a powerful Sanskrit composition by the great Acharya Vedanta Desika, dedicated to the glorification of Sri Ramanujacharya. The term Dhati refers to the grand procession or triumphant march of a spiritual leader. This stotra describes Ramanujacharya as a formidable force against philosophical adversaries, comparing his tridanda to a thunderbolt that shatters erroneous doctrines. Chanting this hymn is considered highly meritorious for followers of the Sri Vaishnava tradition, as it fosters deep devotion to the Acharya, strengthens one's understanding of Vishishtadvaita philosophy, and invokes the grace of Ramanujacharya for spiritual protection and intellectual clarity.

पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः
बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः ।
मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ 1 ॥
पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालयमन्थदण्डाः ।
वेदान्तसारसुखदर्शनदीपदण्डाः
रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ 2 ॥
चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम्
धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ 3 ॥
त्रय्या माङ्गल्यसूत्रं त्रिथायुगपयुग रोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयविदां सम्बदांहारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ 4 ॥
पाषण्डसागरमहाबडबामुखाग्निः
श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणि मण्डपमार्गदायी
रामानुजो विजयते यतिराजराजः ॥ 5 ॥

Explore More