ध्येयपथिकसाधक
कार्यपथे साधय
जीवनं न शाश्वतं, वैभवं न हि स्थिरं
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरं
सरलता स्वजीवने
चिन्तने सदोच्चता
समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ 1 ॥
तच्च मूर्तरूपताम्, एति नित्यजीवने
जनन्यनन्यचरणयोः
समर्पितस्वजीवनाः
ध्येयसाधनव्रता वयं भवेम सङ्गताः ॥ 2 ॥
सिंहकुलसमुद्भवाः सिंहविक्रमा वयं
सन्तु कष्टकोटयो
भवतु विघ्नवर्षणं
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ 3 ॥
रचन: श्री जनार्दन हेग्डे
