पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ॐ ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒-यँत्किञ्च॒ जग॑त्वा॒-ञ्जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द्धनम्᳚ ॥ 1 ॥
ए॒व-न्त्वयि॒ नान्यथे॒तो᳚-ऽस्ति॒ न कर्म॑ लिप्यते॑ नरे᳚ ॥ 2 ॥
ताग्ंस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा᳚त्म॒हनो॒ जनाः᳚ ॥ 3 ॥
तद्धाव॑तो॒-ऽन्यानत्ये᳚ति॒ तिष्ठ॒त्तस्मिन्᳚न॒पो मा᳚त॒रिश्वा᳚ दधाति ॥ 4 ॥
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ 5 ॥
स॒र्व॒भू॒तेषु॑ चा॒त्मान॒-न्ततो॒ न विहु॑गुप्सते ॥ 6 ॥
तत्र॒ को मोहः॒ क-श्शोकः॑ एक॒त्वम॑नु॒पश्य॑तः ॥ 7 ॥
क॒विर्म॑नी॒षी प॑रि॒भू-स्स्व॑य॒म्भू-र्या᳚थातथ्य॒तो-ऽर्था॒न्
व्य॑दधाच्छाश्व॒तीभ्य॒-स्समा᳚भ्यः ॥ 8 ॥
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया᳚ग्ं र॒ताः ॥ 9 ॥
इति॑ शुश्रुम॒ धीरा᳚णां॒-येँ न॒स्तद्वि॑चचक्षि॒रे ॥ 10 ॥
अवि॑द्यया मृ॒त्यु-न्ती॒र्त्वा वि॒द्यया-ऽमृत॑मश्नुते ॥ 11 ॥
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू᳚त्याग्ं र॒ताः ॥ 12 ॥
इति॑ शुश्रुम॒ धीरा᳚णां॒-येँ न॒स्तद्वि॑चचक्षि॒रे ॥ 13 ॥
वि॒ना॒शेन॑ मृ॒त्यु-न्ती॒र्त्वा सम्भू᳚त्या॒-ऽमृत॑मश्नुते ॥ 14 ॥
तत्व-म्पू᳚ष॒न्नपावृ॑णु स॒त्यध᳚र्माय दृ॒ष्टये᳚ ॥ 15 ॥
समू᳚ह॒ तेजो॒ यत्ते᳚ रू॒प-ङ्कल्या᳚णतम॒-न्तत्ते᳚ पश्यामि ।
यो॒-ऽसाव॒सौ पुरु॑ष॒-स्सो॒-ऽहम॑स्मि ॥ 16 ॥
ॐ 3 क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ॥ 17 ॥
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्टा-न्ते॒ नम॑उक्तिं-विँधेम ॥ 18 ॥
ओ-म्पूर्ण॒मदः॒ पूर्ण॒मिद॒-म्पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
