अपरोक्षानुभूतिः।।
श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम्।
व्यापकं सर्वलोकानां कारणं तं नमाम्यहम्।।1।।
श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम्।
व्यापकं सर्वलोकानां कारणं तं नमाम्यहम्।।1।।
- अपरोक्षानुभूतिः (aparokṣānubhūtiḥ)direct experience (aparokṣa:direct | anubhūtiḥ:experience)
- श्रीहरिं (śrīhariṃ)to Sri Hari (śrī:Sri | hariṃ:Hari)
- परमानन्दम् (paramānandam)Supreme Bliss (parama:supreme | ānandam:bliss)
- उपदेष्टारम् (upadeṣṭāram)teacher
- ईश्वरम् (īśvaram)Ishwara
- व्यापकं (vyāpakaṃ)all-pervading
- सर्वलोकानां (sarvalokānāṃ)of all worlds (sarva:all | lokānāṃ:of worlds)
- कारणं (kāraṇaṃ)cause
- तं (taṃ)him
- नमामि (namāmi)I bow
- अहम् (aham)I
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये।
सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः।।2।।
सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः।।2।।
- अपरोक्षानुभूतिः (aparokṣānubhūtiḥ)direct realization (aparokṣa:direct | anubhūtiḥ:realization)
- वै (vai)indeed
- प्रोच्यते (procyate)is expounded
- मोक्षसिद्धये (mokṣasiddhaye)for liberation attainment (mokṣa:liberation | siddhaye:for attainment)
- सद्भिः (sadbhih)by the good
- एषा (eṣā)this
- प्रयत्नेन (prayatnena)with effort
- वीक्षणीया (vīkṣaṇīyā)should be meditated upon
- मुहुर्मुहुः (muhurmuhuḥ)again and again
स्ववर्णाश्रमधर्मेण तपसा हरितोषणात्।
साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम्।।3।।
साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम्।।3।।
- स्ववर्णाश्रमधर्मेण (svavarṇāśramadharmeṇa)by one's caste and stage duties (sva:one's own | varṇa:caste | āśrama:stage of life | dharmeṇa:by duties)
- तपसा (tapasā)by austerity
- हरितोषणात् (haritoṣaṇāt)by pleasing Hari (hari:Hari | toṣaṇāt:by pleasing)
- साधनं (sādhanaṃ)means
- प्रभवेत् (prabhavet)arises
- पुंसां (puṃsāṃ)for men
- वैराग्यादिचतुष्टयम् (vairāgyādicatuṣṭayam)the fourfold dispassion etc. (vairāgya:dispassion | ādi:etc. | catuṣṭayam:fourfold)
ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम्।।4।।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम्।।4।।
- ब्रह्मादिस्थावरान्तेषु (brahmādisthāvarānteṣu)from Brahma to immovable (brahma:Brahma | ādi:beginning with | sthāvara:immovable | anteṣu:among the ends)
- वैराग्यं (vairāgyaṃ)dispassion
- विषयेषु (viṣayeṣu)in objects
- अनु (anu)after
- यथैव (yathaiva)just as
- काकविष्ठायाम् (kākaviṣṭhāyām)in crow's excreta (kāka:crow | viṣṭhāyām:in excreta)
- वैराग्यं (vairāgyaṃ)dispassion
- तत् (tat)that
- हि (hi)indeed
- निर्मलम् (nirmalam)pure
नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम्।
एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै।।5।।
एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै।।5।।
- नित्यम् (nityam)permanent
- आत्मस्वरूपम् (ātmasvarūpam)nature of the self (ātma:self | svarūpam:nature)
- हि (hi)indeed
- दृश्यं (dṛśyam)the seen
- तद्विपरीतगम् (tadviparītagam)opposed to it (tat:that | viparīta:opposed | gam:going)
- एवं (evaṃ)thus
- यः (yaḥ)who
- निश्चयः (niścayaḥ)conviction
- सम्यक् (samyak)truly
- विवेकः (vivekaḥ)discrimination
- वस्तुनः (vastunaḥ)of the reality
- स (sa)he
- वै (vai)indeed
सदैव वासनात्यागः शमोऽयमिति शब्दितः।
निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते।।6।।
निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते।।6।।
- सदैव (sadaiva)always
- वासनात्यागः (vāsanātyāgaḥ)abandonment of desires (vāsanā:desires | tyāgaḥ:abandonment)
- शमः (śamaḥ)Shama
- अयम् (ayam)this
- इति (iti)thus
- शब्दितः (śabditaḥ)is called
- निग्रहो (nigrahaḥ)restraint
- बाह्यवृत्तीनाम् (bāhyavṛttīnām)of external functions (bāhya:external | vṛttīnām:of functions)
- दमः (damaḥ)Dama
- इति (iti)thus
- अभिधीयते (abhidhīyate)is said
विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा।
सहनं सर्वदुःखानां तितिक्षा सा शुभा मता।।7।।
सहनं सर्वदुःखानां तितिक्षा सा शुभा मता।।7।।
- विषयेभ्यः (viṣayebhyaḥ)from sense-objects
- परावृत्तिः (parāvṛttiḥ)turning away
- परम (parama)supreme
- उपरतिः (uparatiḥ)withdrawal
- हि (hi)indeed
- सा (sā)that
- सहनं (sahanaṃ)endurance
- सर्वदुःखानां (sarvaduḥkhānāṃ)of all sorrows (sarva:all | duḥkhānāṃ:of sorrows)
- तितिक्षा (titikṣā)forbearance
- सा (sā)that
- शुभा (śubhā)auspicious
- मता (matā)considered
निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता।
चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम्।।8।।
चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम्।।8।।
- निगम (nigama)Vedas
- आचार्य (ācārya)teachers
- वाक्येषु (vākyeṣu)in the words
- भक्तिः (bhaktiḥ)devotion
- श्रद्धा (śraddhā)faith
- इति (iti)thus
- विश्रुता (viśrutā)known
- चित्त (citta)mind
- एकाग्र्यं (ekāgryaṃ)concentration
- तु (tu)but
- सल्लक्ष्ये (sallakṣye)on the object Sat (sat:truth, reality | lakṣye:on the object)
- समाधानम् (samādhānam)concentration
- इति (iti)thus
- स्मृतम् (smṛtam)regarded
संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे।
इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता।।9।।
इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता।।9।।
- संसारबन्धनिर्मुक्तिः (saṃsārabandhanirmuktiḥ)liberation from worldly bonds (saṃsāra:worldly existence | bandha:bond | nirmuktiḥ:liberation)
- कथं (kathaṃ)how
- स्यात् (syāt)may be
- मे (me)my
- दयानिधे (dayānidhe)O ocean of compassion (dayā:compassion | nidhe:ocean)
- इति (iti)thus
- या (yā)which
- सुदृढा (sudṛḍhā)firm
- बुद्धिः (buddhiḥ)intellect
- वक्तव्या (vaktavyā)to be spoken
- सा (sā)that
- मुमुक्षुता (mumukṣutā)desire for liberation
उक्तसाधनयुक्तेन विचारः पुरुषेण हि।
कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता।।10।।
कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता।।10।।
- उक्तसाधनयुक्तेन (uktasādhanayuktena)endowed with stated means (ukta:stated | sādhana:means | yuktena:endowed with)
- विचारः (vicāraḥ)reflection
- पुरुषेण (puruṣeṇa)by the person
- हि (hi)indeed
- कर्तव्यः (kartavyaḥ)should be done
- ज्ञानसिद्ध्यर्थम् (jñānasiddhyartham)for attainment of knowledge (jñāna:knowledge | siddhi:attainment | artham:for the purpose of)
- आत्मनः (ātmanaḥ)of oneself
- शुभम् (śubham)good
- इच्छता (icchatā)desiring
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः।
यथा पदार्थभानं हि प्रकाशेन विना क्वचित्।।11।।
यथा पदार्थभानं हि प्रकाशेन विना क्वचित्।।11।।
- न (na)not
- उत्पद्यते (utpadyate)is produced
- विना (vinā)without
- ज्ञानं (jñānam)knowledge
- विचारेण (vicāreṇa)by inquiry
- अन्यसाधनैः (anyasādhanaiḥ)by other means (anya:other | sādhanaiḥ:by means)
- यथा (yathā)just as
- पदार्थभानं (padārthabhānam)perception of objects (padārtha:objects | bhānam:perception)
- हि (hi)indeed
- प्रकाशेन (prakāśena)by light
- विना (vinā)without
- क्वचित् (kvacit)anywhere
कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते।
उपादानं किमस्तीह विचारः सोऽयमीदृशः।।12।।
उपादानं किमस्तीह विचारः सोऽयमीदृशः।।12।।
- कः (kaḥ)who
- अहम् (aham)I
- कथम् (katham)how
- इदम् (idam)this
- जातम् (jātam)created
- कः (kaḥ)who
- वा (vā)or
- कर्त्ता (karttā)creator
- अस्य (asya)of this
- विद्यते (vidyate)exists
- उपादानम् (upādānam)material cause
- किम् (kim)what
- अस्ति (asti)is
- इह (iha)here
- विचारः (vicāraḥ)enquiry
- सः (saḥ)that
- अयम् (ayam)this
- ईदृशः (īdṛśaḥ)such
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा।
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः।।13।।
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः।।13।।
- न (na)not
- अहम् (aham)I
- भूतगणः (bhūtagaṇaḥ)aggregate of elements (bhūta:element | gaṇaḥ:aggregate)
- देहः (dehaḥ)body
- न (na)not
- अहम् (aham)I
- च (ca)and
- अक्षगणः (akṣagaṇaḥ)aggregate of senses (akṣa:sense | gaṇaḥ:aggregate)
- तथा (tathā)also
- एतत् (etat)this
- विलक्षणः (vilakṣaṇaḥ)different
- कश्चित् (kaścit)some
- विचारः (vicāraḥ)inquiry
- सः (saḥ)he
- अयम् (ayam)this
- ईदृशः (īdṛśaḥ)such
अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः।।14।।
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः।।14।।
- अज्ञानप्रभवं (ajñānaprabhavam)born of ignorance (ajñāna:ignorance | prabhavam:born of)
- सर्वं (sarvaṃ)everything
- ज्ञानेन (jñānena)by knowledge
- प्रविलीयते (pravilīyate)dissolves
- संकल्पः (saṃkalpaḥ)thought
- विविधः (vividhaḥ)various
- कर्ता (kartā)creator
- विचारः (vicāraḥ)inquiry
- सः (saḥ)he
- अयम् (ayam)this
- ईदृशः (īdṛśaḥ)such
एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम्।
यथैव मृद्धटादीनां विचारः सोऽयमीदृशः।।15।।
यथैव मृद्धटादीनां विचारः सोऽयमीदृशः।।15।।
- एतयोः (etayoḥ)of these two
- यत् (yat)which
- उपादानम् (upādānam)material cause
- एकम् (ekam)one
- सूक्ष्मम् (sūkṣmam)subtle
- सत् (sat)existence
- अव्ययम् (avyayam)unchanging
- यथा (yathā)just as
- एव (eva)indeed
- मृद् (mṛd)earth
- घट (ghaṭa)pot
- आदीनाम् (ādīnām)and the like
- विचारः (vicāraḥ)inquiry
- सः (saḥ)that
- अयम् (ayam)this
- ईदृशः (īdṛśaḥ)such
अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः।
तदहं नात्र संदेहो विचारः सोऽयमीदृशः।।16।।
तदहं नात्र संदेहो विचारः सोऽयमीदृशः।।16।।
- अहम् (aham)I
- एकः (ekaḥ)one
- अपि (api)also
- सूक्ष्मः (sūkṣmaḥ)subtle
- च (ca)and
- ज्ञाता (jñātā)knower
- साक्षी (sākṣī)witness
- सत् (sat)ever-existent
- अव्ययः (avyayaḥ)unchanging
- तत् (tad)that
- अहम् (aham)I
- न (na)not
- अत्र (atra)here
- सन्देहः (saṃdehaḥ)doubt
- विचारः (vicāraḥ)enquiry
- सः (saḥ)that
- अयम् (ayam)this
- ईदृशः (īdṛśaḥ)such
आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।17।।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।17।।
- आत्मा (ātmā)self
- विनिष्कलः (viniṣkalaḥ)without parts
- हि (hi)indeed
- एकः (ekaḥ)one
- देहः (dehaḥ)body
- बहुभिः (bahubhiḥ)by many
- आवृतः (āvṛtaḥ)covered
- तयोः (tayoḥ)of these two
- ऐक्यम् (aikyam)unity
- प्रपश्यन्ति (prapaśyanti)see
- किम् (kim)what
- अज्ञानम् (ajñānam)ignorance
- अतः (ataḥ)than this
- परम् (param)beyond
आत्मा नियामकश्चान्तर्देहो नियम्यबाह्यकः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।18।।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।18।।
- आत्मा (ātmā)self
- नियामकः (niyāmakaḥ)controller
- च (ca)and
- अन्तः (antaḥ)internal
- देहः (dehaḥ)body
- नियम्य (niyamya)controlled
- बाह्यकः (bāhyakaḥ)external
- तयोः (tayoḥ)of these two
- ऐक्यम् (aikyam)unity
- प्रपश्यन्ति (prapaśyanti)perceive
- किम् (kim)what
- अज्ञानम् (ajñānam)ignorance
- अतः (ataḥ)than this
- परम् (param)beyond
आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।19।।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।19।।
- आत्मा (ātmā)self
- ज्ञानमयः (jñānamayaḥ)full of knowledge (jñāna:knowledge | mayaḥ:full of)
- पुण्यः (puṇyaḥ)holy
- देहः (dehaḥ)body
- मांसमयः (māṃsamayaḥ)full of flesh (māṃsa:flesh | mayaḥ:full of)
- अशुचिः (aśuciḥ)impure
- तयोः (tayoḥ)of these two
- ऐक्यम् (aikyam)unity
- प्रपश्यन्ति (prapaśyanti)perceive
- किम् (kim)what
- अज्ञानम् (ajñānam)ignorance
- अतः (ataḥ)than this
- परम् (param)beyond
आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।20।।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।20।।
- आत्मा (ātmā)self
- प्रकाशकः (prakāśakaḥ)illuminator
- स्वच्छः (svacchaḥ)pure
- देहः (dehaḥ)body
- तामसः (tāmasaḥ)of darkness
- उच्यते (ucyate)is said
- तयोः (tayoḥ)of these two
- ऐक्यम् (aikyam)unity
- प्रपश्यन्ति (prapaśyanti)perceive
- किम् (kim)what
- अज्ञानम् (ajñānam)ignorance
- अतः (ataḥ)than this
- परम् (param)beyond
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।21।।
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम्।।21।।
- आत्मा (ātmā)self
- नित्यः (nityaḥ)eternal
- हि (hi)indeed
- सद्रूपः (sadrūpaḥ)of true form (sat:true | rūpaḥ:form)
- देहः (dehaḥ)body
- अनित्यः (anityaḥ)impermanent
- हि (hi)indeed
- असन्मयः (asanmayaḥ)composed of non-existence (asat:non-existence | mayaḥ:composed of)
- तयोः (tayoḥ)of these two
- ऐक्यम् (aikyam)unity
- प्रपश्यन्ति (prapaśyanti)they perceive
- किम् (kim)what
- अज्ञानम् (ajñānam)ignorance
- अतः (ataḥ)than this
- परम् (param)beyond
आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम्।
नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं यतो निशि।।22।।
नाग्न्यादिदीप्तिवद्दीप्तिर्भवत्यान्ध्यं यतो निशि।।22।।
- आत्मनः (ātmanaḥ)of the self
- तत् (tat)that
- प्रकाशत्वं (prakāśatvaṃ)luminosity
- यत् (yat)which
- पदार्थावभासनम् (padārthāvabhāsanam)manifestation of objects (padārtha:objects | āvabhāsanam:manifestation)
- न (na)not
- अग्न्यादिदीप्तिवत् (agnyādidīptivat)like the light of fire etc. (agni:fire | ādi:etc. | dīpti:light | vat:like)
- दीप्तिः (dīptiḥ)luminosity
- भवति (bhavati)is
- अन्ध्यं (andhyaṃ)darkness
- यतः (yataḥ)because
- निशि (niśi)at night
देहोऽहमित्ययं मूढो मत्वा तिष्ठत्यहो जनः।
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा।।23।।
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा।।23।।
- देहः (dehaḥ)body
- अहम् (aham)I
- इति (iti)thus
- अयम् (ayam)this
- मूढः (mūḍhaḥ)ignorant
- मत्वा (matvā)having thought
- तिष्ठति (tiṣṭhati)remains
- अहो (aho)how strange
- जनः (janaḥ)person
- मम (mama)my
- अयम् (ayam)this
- इति (iti)thus
- अपि (api)also
- ज्ञात्वा (jñātvā)having known
- घटद्रष्टा (ghaṭadraṣṭā)pot-seer (ghaṭa:pot | draṣṭā:seer)
- इव (iva)like
- सर्वदा (sarvadā)always
ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।24।।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।24।।
- ब्रह्म (brahma)Brahman
- एव (eva)indeed
- अहम् (aham)I am
- समः (samaḥ)equanimous
- शान्तः (śāntaḥ)quiescent
- सच्चिदानन्दलक्षणः (saccidānandalakṣaṇaḥ)of the nature of Existence, Knowledge, and Bliss (sat:existence | cit:knowledge | ānanda:bliss | lakṣaṇaḥ:of the nature)
- न (na)not
- अहम् (aham)I am
- देहः (dehaḥ)the body
- हि (hi)indeed
- असद्रूपः (asadrūpaḥ)of non-existence nature (asat:non-existence | rūpaḥ:nature)
- ज्ञानम् (jñānam)knowledge
- इति (iti)thus
- उच्यते (ucyate)is called
- बुधैः (budhaiḥ)by the wise
निर्विकारो निराकारो निरवद्योऽहमव्ययः।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।25।।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।25।।
- निर्विकारः (nirvikāraḥ)without change
- निराकारः (nirākāraḥ)without form
- निरवद्यः (niravadyaḥ)free from blemish
- अहम् (aham)I am
- अव्ययः (avyayaḥ)imperishable
- न (na)not
- अहम् (aham)I am
- देहः (dehaḥ)body
- हि (hi)indeed
- असद्रूपः (asadrūpaḥ)of unreal form
- ज्ञानम् (jñānam)knowledge
- इति (iti)thus
- उच्यते (ucyate)is said
- बुधैः (budhaiḥ)by the wise
निरामयो निराभासो निर्विकल्पोऽहमाततः।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।26।।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।26।।
- निरामयः (nirāmayaḥ)free from disease
- निराभासः (nirābhāsaḥ)beyond all comprehension
- निर्विकल्पः (nirvikalpaḥ)free from alternatives
- अहम् (aham)I am
- आततः (ātataḥ)all-pervading
- न (na)not
- अहम् (aham)I am
- देहः (dehaḥ)body
- हि (hi)indeed
- असद्रूपः (asadrūpaḥ)of unreal form
- ज्ञानम् (jñānam)knowledge
- इति (iti)thus
- उच्यते (ucyate)is said
- बुधैः (budhaiḥ)by the wise
निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।27।।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।27।।
- निर्गुणः (nirguṇaḥ)without attributes
- निष्क्रियः (niṣkriyaḥ)without activity
- नित्यः (nityaḥ)eternal
- नित्यमुक्तः (nityamuktaḥ)ever free (nitya:eternal | muktaḥ:free)
- अहम् (aham)I am
- अच्युतः (acyutaḥ)imperishable
- न (na)not
- अहम् (aham)I am
- देहः (dehaḥ)body
- हि (hi)indeed
- असद्रूपः (asadrūpaḥ)of unreal form (asat:unreal | rūpaḥ:form)
- ज्ञानम् (jñānam)knowledge
- इति (iti)thus
- उच्यते (ucyate)is said
- बुधैः (budhaiḥ)by the wise
निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।28।।
नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः।।28।।
- निर्मलः (nirmalaḥ)free from impurity
- निश्चलः (niścalaḥ)immovable
- अनन्तः (anantaḥ)unlimited
- शुद्धः (śuddhaḥ)holy
- अहम् (aham)I am
- अजरः (ajaraḥ)undecaying
- अमरः (amaraḥ)immortal
- न (na)not
- अहम् (aham)I am
- देहः (dehaḥ)body
- हि (hi)indeed
- असद्रूपः (asad-rūpaḥ)of unreal form (asad:unreal | rūpaḥ:form)
- ज्ञानम् (jñānam)knowledge
- इति (iti)thus
- उच्यते (ucyate)is said
- बुधैः (budhaiḥ)by the wise
स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च संमतम्।
किं मूर्ख शून्यमात्मानं देहातीतं करोषि भो।।29।।
किं मूर्ख शून्यमात्मानं देहातीतं करोषि भो।।29।।
- स्वदेहं (svadehaṃ)own body (sva:own | dehaṃ:body)
- शोभनं (śobhanaṃ)blissful
- त्यक्त्वा (tyaktvā)having abandoned
- पुरुषाख्यं (puruṣākhyam)known as Purusha (puruṣa:Purusha | ākhyam:known as)
- च (ca)and
- संमतम् (saṃmatam)established
- किं (kiṃ)why
- मूर्ख (mūrkha)ignorant one
- शून्यम् (śūnyam)non-existent
- आत्मानं (ātmānaṃ)Atman
- देहातीतं (dehātītaṃ)different from body (deha:body | atītaṃ:different from)
- करोषि (karoṣi)do you assert
- भो (bho)O
स्वात्मानं श्रृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम्।
देहातीतं सदाकारं सुदुर्दर्शं भवादृशाम्।।30।।
देहातीतं सदाकारं सुदुर्दर्शं भवादृशाम्।।30।।
- स्वात्मानं (svātmānam)own self (sva:own | ātmānam:self)
- श्रृणु (śṛṇu)hear
- मूर्ख (mūrkha)ignorant one
- त्वं (tvaṃ)you
- श्रुत्या (śrutyā)by Shruti
- युक्त्या (yuktyā)by reasoning
- च (ca)and
- पूरुषम् (pūruṣam)Purusha
- देहातीतं (dehātītaṃ)beyond the body (deha:body | atītaṃ:beyond)
- सदाकारं (sadākāraṃ)form of existence (sadā:always | ākāraṃ:form)
- सुदुर्दर्शं (sudurdarśaṃ)very difficult to realize (su:very | durdarśaṃ:difficult to realize)
- भवादृशाम् (bhavādṛśām)for persons like you (bhava:you | ādṛśām:like)
अहंशब्देन विख्यात एक एव स्थितः परः।
स्थूलत्वान्नैकतां प्राप्तः कथं स्याद्देहकः पुमान्।।31।।
स्थूलत्वान्नैकतां प्राप्तः कथं स्याद्देहकः पुमान्।।31।।
- अहंशब्देन (ahaṃśabdena)by the word 'I' (ahaṃ:'I' | śabdena:by the word)
- विख्यात (vikhyāta)known
- एक (eka)one
- एव (eva)indeed
- स्थितः (sthitaḥ)situated
- परः (paraḥ)supreme
- स्थूलत्वात् (sthūlatvāt)due to grossness (sthūla:gross | tvāt:due to)
- न (na)not
- एकतां (ekatāṃ)oneness
- प्राप्तः (prāptaḥ)attained
- कथं (kathaṃ)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)Purusha
अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः।
ममायमिति निर्देशात्कथं स्याद्देहकः पुमान्।।32।।
ममायमिति निर्देशात्कथं स्याद्देहकः पुमान्।।32।।
- अहम् (aham)I
- द्रष्टृतया (draṣṭṛtayā)as the seer (draṣṭṛ:seer | tayā:as)
- सिद्धः (siddhaḥ)established
- देहः (dehaḥ)body
- दृश्यतया (dṛśyatayā)as the seen (dṛśya:seen | tayā:as)
- स्थितः (sthitaḥ)situated
- मम (mama)my
- अयम् (ayam)this
- इति (iti)thus
- निर्देशात् (nirdeśāt)from the indication
- कथम् (katham)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)Purusha
अहं विकारहीनस्तु देहो नित्यं विकारवान्।
इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान्।।33।।
इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान्।।33।।
- अहम् (aham)I
- विकारहीनः (vikārahīnaḥ)without change (vikāra:change | hīnaḥ:without)
- तु (tu)but
- देहः (dehaḥ)body
- नित्यम् (nityam)always
- विकारवान् (vikāravān)undergoing changes (vikāra:change | vān:having)
- इति (iti)thus
- प्रतीयते (pratīyate)is perceived
- साक्षात् (sākṣāt)directly
- कथम् (katham)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)Purusha
यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम्।
विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान्।।34।।
विनिर्णीतं विशुद्धेन कथं स्याद्देहकः पुमान्।।34।।
- यस्मात् (yasmāt)from which
- परम् (param)higher
- इति (iti)thus
- श्रुत्या (śrutyā)by the scripture
- तया (tayā)by that
- पुरुषलक्षणम् (puruṣalakṣaṇam)nature of Purusha (puruṣa:Purusha | lakṣaṇam:nature)
- विनिर्णीतं (vinirṇītam)ascertained
- विशुद्धेन (viśuddhena)by the pure
- कथं (kathaṃ)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)Purusha
सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते।
अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान्।।35।।
अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान्।।35।।
- सर्वम् (sarvam)all
- पुरुष (puruṣa)Purusha
- एव (eva)indeed
- इति (iti)thus
- सूक्ते (sūkte)in the hymn
- पुरुषसंज्ञिते (puruṣasaṃjñite)named as Purusha (puruṣa:Purusha | saṃjñite:named as)
- अपि (api)also
- उच्यते (ucyate)is said
- यतः (yataḥ)because
- श्रुत्या (śrutyā)by the Shruti
- कथम् (katham)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)man
असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च।
अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान्।।36।।
अनन्तमलसंसृष्टः कथं स्याद्देहकः पुमान्।।36।।
- असङ्गः (asaṅgaḥ)unattached
- पुरुषः (puruṣaḥ)Purusha
- प्रोक्तः (proktaḥ)is said
- बृहदारण्यके (bṛhadāraṇyake)in Brihadaranyaka (bṛhat:great | āraṇyaka:forest text)
- अपि (api)also
- च (ca)and
- अनन्तमलसंसृष्टः (anantamalasaṃsṛṣṭaḥ)endowed with endless impurities (ananta:endless | mala:impurities | saṃsṛṣṭaḥ:endowed with)
- कथं (kathaṃ)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)Purusha
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः।
जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान्।।37।।
जडः परप्रकाश्योऽयं कथं स्याद्देहकः पुमान्।।37।।
- तत्रैव (tatraiva)there itself (tatra:there | eva:itself)
- च (ca)and
- समाख्यातः (samākhyātaḥ)clearly stated
- स्वयंज्योतिः (svayaṃjyotiḥ)self-illumined (svayam:self | jyotiḥ:light)
- हि (hi)indeed
- पूरुषः (pūruṣaḥ)Purusha
- जडः (jaḍaḥ)inert
- परप्रकाश्यः (paraprakāśyaḥ)illumined by another (para:another | prakāśyaḥ:illumined)
- अयम् (ayam)this
- कथम् (katham)how
- स्यात् (syāt)can be
- देहकः (dehakaḥ)body
- पुमान् (pumān)Purusha
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः।
नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम्।।38।।
नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम्।।38।।
- प्रोक्तः (proktaḥ)declared
- अपि (api)also
- कर्मकाण्डेन (karmakāṇḍena)by the Karma-kanda (karma:action | kāṇḍena:by the section)
- हि (hi)indeed
- आत्मा (ātmā)the self
- देहात् (dehāt)from the body
- विलक्षणः (vilakṣaṇaḥ)different
- नित्यः (nityaḥ)eternal
- च (ca)and
- तत् (tat)that
- फलम् (phalam)fruit
- भुङ्क्ते (bhuṅkte)enjoys
- देहपातात् (dehapātāt)after the fall of the body (deha:body | pātāt:after the fall)
- अनन्तरम् (anantaram)thereafter
लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च।
अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम्।।39।।
अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम्।।39।।
- लिङ्गं (liṅgaṃ)subtle body
- च (ca)and
- अनेकसंयुक्तं (anekasaṃyuktaṃ)consisting of many parts (aneka:many | saṃyuktaṃ:joined)
- चलं (calaṃ)unstable
- दृश्यं (dṛśyaṃ)object of perception
- विकारि (vikāri)changeable
- च (ca)and
- अव्यापकं (avyāpakaṃ)limited
- असद्रूपं (asadrūpaṃ)non-existent by nature (asat:non-existent | rūpaṃ:form)
- तत् (tat)that
- कथं (kathaṃ)how
- स्यात् (syāt)can be
- पुमान् (pumān)Purusha
- अयम् (ayam)this
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः।
सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः।।40।।
सर्वात्मा सर्वरूपश्च सर्वातीतोऽहमव्ययः।।40।।
- एवम् (evam)thus
- देहद्वयात् (dehadvayāt)from the two bodies (deha:body | dvayāt:from the two)
- अन्य (anya)different
- आत्मा (ātmā)self
- पुरुष (puruṣa)Purusha
- ईश्वरः (īśvaraḥ)Lord
- सर्वात्मा (sarvātmā)self of all (sarva:all | ātmā:self)
- सर्वरूपः (sarvarūpaḥ)in every form (sarva:all | rūpaḥ:form)
- च (ca)and
- सर्वातीतः (sarvātītaḥ)transcends all (sarva:all | atītaḥ:transcends)
- अहम् (aham)I
- अव्ययः (avyayaḥ)immutable
इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता।
यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता।।41।।
यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता।।41।।
- इति (iti)thus
- आत्मदेहभानेन (ātmadehabhānena)by the distinction of self and body (ātma:self | deha:body | bhānena:by the distinction)
- प्रपञ्चस्य (prapañcasya)of the phenomenal world
- एव (eva)indeed
- सत्यता (satyatā)reality
- यथोक्ता (yathoktā)as stated
- तर्कशास्त्रेण (tarkaśāstreṇa)by the science of logic (tarka:logic | śāstreṇa:by the science)
- ततः (tataḥ)thereafter
- किं (kiṃ)what
- पुरुषार्थता (puruṣārthatā)end of human life (puruṣa:human | arthatā:end)
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम्।
इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते।।42।।
इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते।।42।।
- इति (iti)thus
- आत्मदेहभेदेन (ātmadehabhedena)by the distinction of self and body (ātma:self | deha:body | bhedena:by the distinction)
- देहात्मत्वं (dehātmatvaṃ)identity of body and self (deha:body | ātmatvaṃ:identity with self)
- निवारितम् (nivāritam)has been denounced
- इदानीं (idānīṃ)now
- देहभेदस्य (dehabhedasya)of the difference of the body (deha:body | bhedasya:of the difference)
- हि (hi)indeed
- असत्त्वं (asattvaṃ)unreality
- स्फुटम् (sphuṭam)clearly
- उच्यते (ucyate)is stated
चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित्।
जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पग्रहो यथा।।43।।
जीवत्वं च मृषा ज्ञेयं रज्ज्वां सर्पग्रहो यथा।।43।।
- चैतन्यस्य (caitanyasya)of consciousness
- एकरूपत्वात् (ekarūpatvāt)due to oneness (eka:one | rūpatvāt:due to form)
- भेदः (bhedaḥ)division
- युक्तः (yuktaḥ)admissible
- न (na)not
- कर्हिचित् (karhicit)at any time
- जीवत्वं (jīvatvam)individuality of the Jiva
- च (ca)and
- मृषा (mṛṣā)false
- ज्ञेयम् (jñeyam)must be known
- रज्ज्वाम् (rajjvām)in the rope
- सर्पग्रहः (sarpagrahaḥ)delusion of a snake (sarpa:snake | grahaḥ:delusion)
- यथा (yathā)like
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी।
भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला।।44।।
भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला।।44।।
- रज्ज्वज्ञानात् (rajjvajñānāt)from ignorance of the rope (rajju:rope | ajñānāt:from ignorance)
- क्षणेनैव (kṣaṇenaiva)in an instant (kṣaṇena:in an instant | eva:indeed)
- यद्वत् (yadvat)just as
- रज्जुः (rajjuḥ)rope
- हि (hi)indeed
- सर्पिणी (sarpiṇī)as a snake
- भाति (bhāti)appears
- तद्वत् (tadvat)so also
- चितिः (citiḥ)Consciousness
- साक्षात् (sākṣāt)directly
- विश्वाकारेण (viśvākāreṇa)in the form of the universe (viśva:universe | ākāreṇa:in the form of)
- केवला (kevalā)pure
उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते।
तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत्।।45।।
तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत्।।45।।
- उपादानं (upādānam)material cause
- प्रपञ्चस्य (prapañcasya)of the universe
- ब्रह्मणः (brahmaṇaḥ)of Brahman
- अन्यत् (anyat)other
- न (na)not
- विद्यते (vidyate)exists
- तस्मात् (tasmāt)hence
- सर्वप्रपञ्चः (sarvaprapañcaḥ)whole universe (sarva:all | prapañcaḥ:universe)
- अयम् (ayam)this
- ब्रह्म (brahma)Brahman
- एव (eva)indeed
- अस्ति (asti)is
- न (na)not
- च (ca)and
- इतरत् (itarat)anything else
व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात्।
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः।।46।।
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः।।46।।
- व्याप्यव्यापकता (vyāpyavyāpakatā)pervaded-pervading nature (vyāpya:pervaded | vyāpakatā:pervading nature)
- मिथ्या (mithyā)illusory
- सर्वम् (sarvam)all
- आत्मा (ātmā)self
- इति (iti)thus
- शासनात् (śāsanāt)from the declaration
- ज्ञाते (jñāte)being realized
- परे (pare)supreme
- तत्त्वे (tattve)truth
- भेदस्य (bhedasya)of distinction
- अवसरः (avasaraḥ)room
- कुतः (kutaḥ)where
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि।
कथं भासो भवेदन्यः स्थिते चाद्वयकारणे।।47।।
कथं भासो भवेदन्यः स्थिते चाद्वयकारणे।।47।।
- श्रुत्या (śrutyā)by the scripture
- निवारितं (nivāritaṃ)denied
- नूनं (nūnaṃ)certainly
- नानात्वं (nānātvaṃ)manifoldness
- स्वमुखेन (svamukhena)by its own words (sva:own | mukhena:by words)
- हि (hi)indeed
- कथं (kathaṃ)how
- भासः (bhāsaḥ)appearance
- भवेत् (bhavet)could be
- अन्यः (anyaḥ)different
- स्थिते (sthite)being established
- च (ca)and
- अद्वयकारणे (advayakāraṇe)in the non-dual cause (advaya:non-dual | kāraṇe:in the cause)
दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति।
इह पश्यति नानात्वं मायया वञ्चितो नरः।।48।।
इह पश्यति नानात्वं मायया वञ्चितो नरः।।48।।
- दोषः (doṣaḥ)fault
- अपि (api)also
- विहितः (vihitaḥ)ordained
- श्रुत्या (śrutyā)by the Shruti
- मृत्योः (mṛtyoḥ)from death
- मृत्युम् (mṛtyum)to death
- सः (saḥ)he
- गच्छति (gacchati)goes
- इह (iha)here
- पश्यति (paśyati)sees
- नानात्वम् (nānātvam)variety
- मायया (māyayā)by Maya
- वञ्चितः (vañcitaḥ)deceived
- नरः (naraḥ)person
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः।
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत्।।49।।
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत्।।49।।
- ब्रह्मणः (brahmaṇaḥ)of Brahman
- सर्वभूतानि (sarvabhūtāni)all beings (sarva:all | bhūtāni:beings)
- जायन्ते (jāyante)are born
- परमात्मनः (paramātmanaḥ)of the supreme Atman (parama:supreme | ātmanaḥ:of Atman)
- तस्मात् (tasmāt)therefore
- एतानि (etāni)these
- ब्रह्म (brahma)Brahman
- एव (eva)indeed
- भवन्ति (bhavanti)become
- इति (iti)thus
- अवधारयेत् (avadhārayet)should understand
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ।।50।।
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ।।50।।
- ब्रह्म (brahma)Brahman
- एव (eva)alone
- सर्वनामानि (sarvanāmāni)all names (sarva:all | nāmāni:names)
- रूपाणि (rūpāṇi)forms
- विविधानि (vividhāni)various
- च (ca)and
- कर्माणि (karmāṇi)actions
- अपि (api)also
- समग्राणि (samagrāṇi)all
- बिभर्ति (bibharti)supports
- इति (iti)thus
- श्रुतिः (śrutiḥ)the Shruti
- जगौ (jagau)declared
सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम्।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत्।।51।।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत्।।51।।
- सुवर्णात् (suvarṇāt)from gold
- जायमानस्य (jāyamānasya)of the one being born
- सुवर्णत्वं (suvarṇatvaṃ)nature of gold (suvarṇa:gold | tvaṃ:nature)
- च (ca)and
- शाश्वतम् (śāśvatam)eternal
- ब्रह्मणः (brahmaṇaḥ)of Brahman
- जायमानस्य (jāyamānasya)of the one being born
- ब्रह्मत्वं (brahmatvaṃ)nature of Brahman (brahma:Brahman | tvaṃ:nature)
- च (ca)and
- तथा (tathā)so also
- भवेत् (bhavet)would be
स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः।
योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम्।।52।।
योऽवतिष्ठति मूढात्मा भयं तस्याभिभाषितम्।।52।।
- स्वल्पम् (svalpam)slight
- अपि (api)even
- अन्तरं (antaraṃ)distinction
- कृत्वा (kṛtvā)having made
- जीवात्मपरमात्मनोः (jīvātmaparamātmanoḥ)between Jivatman and Paramatman (jīvātma:individual soul | paramātmanoḥ:of the Supreme Soul)
- यः (yaḥ)who
- अवतिष्ठति (avatiṣṭhati)rests
- मूढात्मा (mūḍhātmā)ignorant one (mūḍha:ignorant | ātmā:self)
- भयम् (bhayam)fear
- तस्य (tasya)his
- अभिभाषितम् (abhibhāṣitam)is attributed
यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति।
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि।।53।।
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि।।53।।
- यत्र (yatra)where
- अज्ञानात् (ajñānāt)from ignorance
- भवेत् (bhavet)arises
- द्वैतम् (dvaitam)duality
- इतरः (itaraḥ)another
- तत्र (tatra)there
- पश्यति (paśyati)sees
- आत्मत्वेन (ātmatvena)as the Self (ātma:Self | tvena:as)
- यदा (yadā)when
- सर्वम् (sarvam)all
- न (na)not
- इतरः (itaraḥ)another
- तत्र (tatra)there
- च (ca)and
- अणु (aṇu)even a little
- अपि (api)even
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः।
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः।।54।।
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः।।54।।
- यस्मिन (yasmin)in which
- सर्वाणि (sarvāṇi)all
- भूतानि (bhūtāni)beings
- हि (hi)indeed
- आत्मत्वेन (ātmatvena)as identified with the Atman (ātma:Atman | tvena:as identified with)
- विजानतः (vijānataḥ)of one who realizes
- न (na)not
- वै (vai)indeed
- तस्य (tasya)of him
- भवेत् (bhavet)arises
- मोहः (mohaḥ)delusion
- न (na)not
- च (ca)and
- शोकः (śokaḥ)sorrow
- अद्वितीयतः (advitīyataḥ)due to absence of duality (a:absence | dvitīya:duality | taḥ:due to)
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः।
इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया।।55।।
इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया।।55।।
- अयम् (ayam)this
- आत्मा (ātmā)self
- हि (hi)indeed
- ब्रह्म (brahma)Brahman
- एव (eva)only
- सर्वात्मकतया (sarvātmakatayā)as the self of all (sarva:all | ātmakatayā:as the self)
- स्थितः (sthitaḥ)established
- इति (iti)thus
- निर्धारितं (nirdhāritam)declared
- श्रुत्या (śrutyā)by the Shruti
- बृहदारण्यसंस्थया (bṛhadāraṇyasaṃsthayā)by the Brihadaranyaka (bṛhat:great | āraṇya:forest | saṃsthayā:by the text)
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन्।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः।।56।।
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः।।56।।
- अनुभूतः (anubhūtaḥ)experienced
- अपि (api)even
- अयम् (ayam)this
- लोकः (lokaḥ)world
- व्यवहारक्षमः (vyavahārakṣamaḥ)fit for practical purposes (vyavahāra:practical purposes | kṣamaḥ:fit)
- अपि (api)even
- सन् (san)being
- असद्रूपः (asadrūpaḥ)of non-existence nature (asat:non-existence | rūpaḥ:nature)
- यथा (yathā)like
- स्वप्नः (svapnaḥ)dream
- उत्तरक्षणबाधतः (uttarakṣaṇabādhataḥ)contradicted the next moment (uttara:next | kṣaṇa:moment | bādhataḥ:contradicted)
स्वप्नो जागरणेऽलीकः स्वप्नेऽपि न हि जागरः।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च।।57।।
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च।।57।।
- स्वप्नः (svapnaḥ)dream
- जागरणे (jāgaraṇe)in waking
- अलीकः (alīkaḥ)unreal
- स्वप्ने (svapne)in dream
- अपि (api)also
- न (na)not
- हि (hi)indeed
- जागरः (jāgaraḥ)waking
- द्वयम् (dvayam)both
- एव (eva)only
- लये (laye)in deep sleep
- नास्ति (nāsti)is not
- लयः (layaḥ)deep sleep
- अपि (api)also
- हि (hi)indeed
- उभयोः (ubhayoḥ)in both
- न (na)not
- च (ca)and
त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम्।
अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः।।58।।
अस्य द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः।।58।।
- त्रयम् (trayam)three
- एवम् (evam)thus
- भवेत् (bhavet)becomes
- मिथ्या (mithyā)unreal
- गुणत्रयविनिर्मितम् (guṇatrayavinirmitam)created by three Gunas (guṇa:quality | traya:three | vinirmitam:created by)
- अस्य (asya)of this
- द्रष्टा (draṣṭā)witness
- गुणातीतः (guṇātītaḥ)beyond all Gunas (guṇa:quality | atītaḥ:beyond)
- नित्यः (nityaḥ)eternal
- हि (hi)indeed
- एकः (ekaḥ)one
- चित् (cit)consciousness
- आत्मकः (ātmakaḥ)nature
यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम्।
तद्वद्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः।।59।।
तद्वद्ब्रह्मणि जीवत्वं भ्रान्त्या पश्यति न स्वतः।।59।।
- यद्वत् (yadvat)just as
- मृदि (mṛdi)in earth
- घटभ्रान्तिं (ghaṭabhrāntiṃ)illusion of a jar (ghaṭa:jar | bhrāntiṃ:illusion)
- शुक्तौ (śuktau)in nacre
- वा (vā)or
- रजतस्थितिम् (rajatasthitim)existence of silver (rajata:silver | sthitim:existence)
- तद्वत् (tadvat)so
- ब्रह्मणि (brahmaṇi)in Brahman
- जीवत्वं (jīvatvaṃ)individual existence
- भ्रान्त्या (bhrāntyā)by illusion
- पश्यति (paśyati)sees
- न (na)not
- स्वतः (svataḥ)by oneself
यथा मृदि घटो नाम कनके कुण्डलाभिधा।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे।।60।।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे।।60।।
- यथा (yathā)just as
- मृदि (mṛdi)in clay
- घटः (ghaṭaḥ)pot
- नाम (nāma)named
- कनके (kanake)in gold
- कुण्डल (kuṇḍala)ear-ring
- आभिधा (ābhidhā)called
- शुक्तौ (śuktau)in nacre
- हि (hi)indeed
- रजतख्यातिः (rajatakhyātiḥ)appearance of silver (rajata:silver | khyātiḥ:appearance)
- जीवशब्दः (jīvaśabdaḥ)word Jiva (jīva:Jiva | śabdaḥ:word)
- तथा (tathā)so
- परे (pare)in the supreme
यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि।।61।।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि।।61।।
- यथा (yathā)just as
- एव (eva)indeed
- व्योम्नि (vyomni)in the sky
- नीलत्वं (nīlatvaṃ)blueness
- यथा (yathā)just as
- नीरं (nīraṃ)water
- मरुस्थले (marusthale)in the desert
- पुरुषत्वं (puruṣatvaṃ)human figure
- यथा (yathā)just as
- स्थाणौ (sthāṇau)in a post
- तद्वत् (tadvat)so is
- विश्वं (viśvaṃ)the universe
- चिदात्मनि (cidātmani)in the Atman (cit:consciousness | ātmani:in the self)
यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा।
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः।।62।।
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः।।62।।
- यथा (yathā)just as
- एव (eva)indeed
- शून्ये (śūnye)in the empty place
- वेतालः (vetālaḥ)ghost
- गन्धर्वाणाम् (gandharvāṇām)of the Gandharvas
- पुरं (puraṃ)city
- यथा (yathā)just as
- यथा (yathā)just as
- आकाशे (ākāśe)in the sky
- द्विचन्द्रत्वं (dvicandratvaṃ)appearance of a second moon (dvi:two | candra:moon | tvaṃ:state of being)
- तद्वत् (tadvat)so is
- सत्ये (satye)in the truth
- जगत् (jagat)universe
- स्थितिः (sthitiḥ)existence
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम्।
पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता।।63।।
पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता।।63।।
- यथा (yathā)just as
- तरङ्गकल्लोलैः (taraṅgakallolaiḥ)by ripples and waves (taraṅga:ripples | kallolaiḥ:by waves)
- जलम् (jalam)water
- एव (eva)indeed
- स्फुरति (sphurati)appears
- अलम् (alam)abundantly
- पात्ररूपेण (pātrarūpeṇa)in the form of vessel (pātra:vessel | rūpeṇa:in the form of)
- ताम्रं (tāmram)copper
- हि (hi)indeed
- ब्रह्माण्डौघैः (brahmāṇḍaughaiḥ)by the multitude of universes (brahmāṇḍa:universe | aughaiḥ:by the multitude of)
- तथा (tathā)so
- आत्मता (ātmatā)the nature of Atman
घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः।।64।।
जगन्नाम्ना चिदाभाति ज्ञेयं तत्तदभावतः।।64।।
- घटनाम्ना (ghaṭanāmnā)under the name of jar (ghaṭa:jar | nāmnā:under the name)
- यथा (yathā)just as
- पृथ्वी (pṛthvī)earth
- पटनाम्ना (paṭanāmnā)under the name of cloth (paṭa:cloth | nāmnā:under the name)
- हि (hi)indeed
- तन्तवः (tantavaḥ)threads
- जगन्नाम्ना (jagannāmnā)under the name of universe (jagat:universe | nāmnā:under the name)
- चित् (cit)consciousness
- आभाति (ābhāti)appears
- ज्ञेयम् (jñeyam)to be known
- तत्तदभावतः (tattadabhāvataḥ)by negating the names (tat:that | tad:those | abhāvataḥ:by negating)
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम्।।65।।
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम्।।65।।
- सर्वः (sarvaḥ)all
- अपि (api)also
- व्यवहारः (vyavahāraḥ)actions
- तु (tu)but
- ब्रह्मणा (brahmaṇā)by Brahman
- क्रियते (kriyate)is performed
- जनैः (janaiḥ)by people
- अज्ञानात् (ajñānāt)due to ignorance
- न (na)not
- विजानन्ति (vijānanti)they know
- मृदा (mṛdā)by clay
- इव (iva)like
- हि (hi)indeed
- घटादिकम् (ghaṭādikam)jars and other things (ghaṭa:jar | ādikam:and other things)
कार्यकारणता नित्यमास्ते घटमृदोर्यथा।
तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह।।66।।
तथैव श्रुतियुक्तिभ्यां प्रपञ्चब्रह्मणोरिह।।66।।
- कार्यकारणता (kāryakāraṇatā)relation of cause and effect (kārya:effect | kāraṇa:cause | tā:ness)
- नित्यम् (nityam)eternally
- आस्ते (āste)exists
- घटमृदोः (ghaṭamṛdoḥ)between jar and clay (ghaṭa:jar | mṛd:clay | oḥ:between)
- यथा (yathā)just as
- तथैव (tathaiva)so also (tathā:so | eva:also)
- श्रुतियुक्तिभ्यां (śrutiyuktibhyām)by scriptures and reasoning (śruti:scriptures | yukti:reasoning | bhyām:by)
- प्रपञ्चब्रह्मणोः (prapañcabrahmaṇoḥ)between world and Brahman (prapañca:world | brahmaṇa:Brahman | oḥ:between)
- इह (iha)here
गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात्।
वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम्।।67।।
वीक्ष्यमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम्।।67।।
- गृह्यमाणे (gṛhyamāṇe)being perceived
- घटे (ghaṭe)in the jar
- यद्वत् (yadvat)just as
- मृत्तिका (mṛttikā)clay
- भाति (bhāti)appears
- वै (vai)indeed
- बलात् (balāt)forcefully
- वीक्ष्यमाणे (vīkṣyamāṇe)being observed
- प्रपञ्चेऽपि (prapañce'pi)in the world also (prapañce:in the world | api:also)
- ब्रह्म (brahma)Brahman
- एव (eva)only
- आभाति (ābhāti)shines
- भासुरम् (bhāsuram)brilliantly
सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा।
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम्।।68।।
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम्।।68।।
- सदैव (sadaiva)always
- आत्मा (ātmā)self
- विशुद्धः (viśuddhaḥ)pure
- अपि (api)even though
- हि (hi)indeed
- अशुद्धः (aśuddhaḥ)impure
- भाति (bhāti)appears
- वै (vai)certainly
- सदा (sadā)always
- यथा (yathā)just as
- एव (eva)indeed
- द्विविधा (dvividhā)twofold
- रज्जुः (rajjuḥ)rope
- ज्ञानिनः (jñāninaḥ)to the wise
- अज्ञानिनः (ajñāninaḥ)to the ignorant
- अनिशम् (aniśam)always
यथैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः।
आत्मानात्मविभागोऽयं मुधैव क्रियते बुधैः।।69।।
आत्मानात्मविभागोऽयं मुधैव क्रियते बुधैः।।69।।
- यथा (yathā)just as
- एव (eva)indeed
- मृन्मयः (mṛnmayaḥ)made of clay (mṛt:clay | mayaḥ:made of)
- कुम्भः (kumbhaḥ)jar
- तद्वत् (tadvat)so also
- देहः (dehaḥ)body
- अपि (api)also
- चिन्मयः (cinmayaḥ)made of consciousness (cit:consciousness | mayaḥ:made of)
- आत्मा (ātmā)Self
- अनात्म (anātma)non-Self
- विभागः (vibhāgaḥ)division
- अयम् (ayam)this
- मुधा (mudhā)to no purpose
- एव (eva)indeed
- क्रियते (kriyate)is made
- बुधैः (budhaiḥ)by the ignorant
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।70।।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।70।।
- सर्पत्वेन (sarpatvena)as a snake (sarpa:snake | tvena:as)
- यथा (yathā)just as
- रज्जू (rajjū)rope
- रजतत्वेन (rajatatvena)as silver (rajata:silver | tvena:as)
- शुक्तिका (śuktikā)nacre
- विनिर्णीता (vinirṇītā)determined
- विमूढेन (vimūḍhena)by an ignorant person
- देहत्वेन (dehatvena)as the body (deha:body | tvena:as)
- तथा (tathā)so
- आत्मता (ātmatā)self
घटत्वेन यथा पृथ्वी पटत्वेनैव तन्तवः।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।71।।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।71।।
- घटत्वेन (ghaṭatvena)as a jar (ghaṭa:jar | tvena:as)
- यथा (yathā)just as
- पृथ्वी (pṛthvī)earth
- पटत्वेनैव (paṭatvenaiva)as a cloth indeed (paṭa:cloth | tvena:as | eva:indeed)
- तन्तवः (tantavaḥ)threads
- विनिर्णीता (vinirṇītā)are thought of
- विमूढेन (vimūḍhena)by the deluded
- देहत्वेन (dehatvena)as the body (deha:body | tvena:as)
- तथा (tathā)so
- आत्मता (ātmatā)selfhood
कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम्।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।72।।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।72।।
- कनकं (kanakaṃ)gold
- कुण्डलत्वेन (kuṇḍalatvena)as an ear-ring (kuṇḍala:ear-ring | tvena:as)
- तरङ्गत्वेन (taraṅgatvena)as waves (taraṅga:waves | tvena:as)
- वै (vai)indeed
- जलम् (jalam)water
- विनिर्णीता (vinirṇītā)determined
- विमूढेन (vimūḍhena)by the deluded
- देहत्वेन (dehatvena)as the body (deha:body | tvena:as)
- तथा (tathā)so
- आत्मता (ātmatā)selfhood
पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।73।।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।73।।
- पुरुषत्वेन (puruṣatvena)as a human (puruṣa:human | tvena:as)
- वै (vai)indeed
- स्थाणुः (sthāṇuḥ)tree stump
- जलत्वेन (jalatvena)as water (jala:water | tvena:as)
- मरीचिका (marīcikā)mirage
- विनिर्णीता (vinirṇītā)determined
- विमूढेन (vimūḍhena)by the deluded
- देहत्वेन (dehatvena)as the body (deha:body | tvena:as)
- तथा (tathā)so
- आत्मता (ātmatā)selfhood
गृहत्वेनैव काष्ठानि खङ्गत्वेनैव लोहता।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।74।।
विनिर्णीता विमूढेन देहत्वेन तथात्मता।।74।।
- गृहत्वेनैव (gṛhatvenaiva)as a house (gṛha:house | tvena:as | eva:indeed)
- काष्ठानि (kāṣṭhāni)pieces of wood
- खङ्गत्वेनैव (khaṅgatvenaiva)as a sword (khaṅga:sword | tvena:as | eva:indeed)
- लोहता (lohatā)iron
- विनिर्णीता (vinirṇītā)determined
- विमूढेन (vimūḍhena)by the deluded
- देहत्वेन (dehatvena)as the body (deha:body | tvena:as)
- तथा (tathā)so
- आत्मता (ātmatā)selfhood
यथा वृक्षविपर्यासो जलाद्भवति कस्यचित्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।75।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।75।।
- यथा (yathā)just as
- वृक्षविपर्यासः (vṛkṣaviparyāsaḥ)illusion of a tree (vṛkṣa:tree | viparyāsaḥ:illusion)
- जलात् (jalāt)from water
- भवति (bhavati)becomes
- कस्यचित् (kasyacit)of someone
- तद्वत् (tadvat)so does
- आत्मनि (ātmani)in Atman
- देहत्वं (dehatvaṃ)as the body
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।76।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।76।।
- पोतेन (potena)by a boat
- गच्छतः (gacchataḥ)going
- पुंसः (puṃsaḥ)of a person
- सर्वं (sarvaṃ)everything
- भाति (bhāti)appears
- इव (iva)as if
- चञ्चलम् (cañcalam)moving
- तद्वत् (tadvat)similarly
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।77।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।77।।
- पीतत्वं (pītatvaṃ)yellowness
- हि (hi)indeed
- यथा (yathā)just as
- शुभ्रे (śubhre)in white
- दोषात् (doṣāt)due to defect
- भवति (bhavati)becomes
- कस्यचित् (kasyacit)to someone
- तद्वत् (tadvat)so does
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।78।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।78।।
- चक्षुर्भ्यां (cakṣurbhyām)by the eyes
- भ्रमशीलाभ्यां (bhramaśīlābhyām)by the deluded ones (bhrama:delusion | śīlābhyām:by the ones with nature)
- सर्वं (sarvaṃ)everything
- भाति (bhāti)appears
- भ्रमात्मकम् (bhramātmakam)of delusory nature (bhrama:delusion | ātmakam:nature)
- तद्वत् (tadvat)similarly
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।79।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।79।।
- अलातम् (alātam)firebrand
- भ्रमणेन (bhramaṇena)through rotation
- एव (eva)indeed
- वर्तुलम् (vartulam)circular
- भाति (bhāti)appears
- सूर्यवत् (sūryavat)like the sun (sūrya:sun | vat:like)
- तद्वत् (tadvat)so does (tad:that | vat:like)
- आत्मनि (ātmani)in the self
- देहत्वम् (dehatvam)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
महत्त्वे सर्ववस्तूनामणुत्वं ह्यतिदूरतः।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।80।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।80।।
- महत्त्वे (mahattve)in greatness
- सर्ववस्तूनाम् (sarvavastūnām)of all things (sarva:all | vastūnām:of things)
- अणुत्वं (aṇutvaṃ)smallness
- हि (hi)indeed
- अतिदूरतः (atidūrataḥ)from great distance (ati:great | dūrataḥ:from distance)
- तद्वत् (tadvat)similarly
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रतः।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।81।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।81।।
- सूक्ष्मत्वे (sūkṣmatve)in subtlety
- सर्ववस्तूनां (sarvavastūnāṃ)of all objects (sarva:all | vastūnāṃ:of objects)
- स्थूलत्वं (sthūlatvaṃ)largeness
- च (ca)and
- उपनेत्रतः (upanetrataḥ)through lenses
- तद्वत् (tadvat)similarly
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
काचभूमौ जलत्वं वा जलभूमौ हि काचता।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।82।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।82।।
- काचभूमौ (kācabhūmau)on glass surface (kāca:glass | bhūmau:on the surface)
- जलत्वं (jalatvaṃ)wateriness (jala:water | tvaṃ:ness)
- वा (vā)or
- जलभूमौ (jalabhūmau)on water surface (jala:water | bhūmau:on the surface)
- हि (hi)indeed
- काचता (kācatā)glassiness (kāca:glass | tā:ness)
- तद्वत् (tadvat)similarly
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment (deha:body | tvaṃ:ness)
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।83।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।83।।
- यद्वत् (yadvat)just as
- अग्नौ (agnau)in fire
- मणित्वं (maṇitvaṃ)jewel-like quality
- हि (hi)indeed
- मणौ (maṇau)in a jewel
- वा (vā)or
- वह्निता (vahnitā)fire-like quality
- पुमान् (pumān)a person
- तद्वत् (tadvat)so
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)body-like quality
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
अभ्रेषु सत्सु धावत्सु धावन्निव यथा शशी।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।84।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।84।।
- अभ्रेषु (abhreṣu)in the clouds
- सत्सु (satsu)existing
- धावत्सु (dhāvatsu)moving
- धावन्निव (dhāvanniva)as if moving
- यथा (yathā)just as
- शशी (śaśī)moon
- तद्वत् (tadvat)similarly
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।85।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।85।।
- यथा (yathā)just as
- एव (eva)indeed
- दिग्विपर्यासः (digviparyāsaḥ)confusion of directions (dik:direction | viparyāsaḥ:confusion)
- मोहात् (mohāt)from confusion
- भवति (bhavati)occurs
- कस्यचित् (kasyacit)to someone
- तद्वत् (tadvat)so does
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
यथा शशी जले भाति चञ्चलत्वेन कस्यचित्।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।86।।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः।।86।।
- यथा (yathā)just as
- शशी (śaśī)moon
- जले (jale)in water
- भाति (bhāti)appears
- चञ्चलत्वेन (cañcalatvena)as unsteady (cañcala:unsteady | tvena:as)
- कस्यचित् (kasyacit)to someone
- तद्वत् (tadvat)so does
- आत्मनि (ātmani)in the self
- देहत्वं (dehatvaṃ)embodiment (deha:body | tvaṃ:ness)
- पश्यति (paśyati)sees
- अज्ञानयोगतः (ajñānayogataḥ)due to ignorance (ajñāna:ignorance | yogataḥ:due to)
एवमात्मनि नज्ञाते देहाध्यासो हि जायते।
स एवात्मा परिज्ञातो लीयते च परात्मनि।।87।।
स एवात्मा परिज्ञातो लीयते च परात्मनि।।87।।
- एवम् (evam)thus
- आत्मनि (ātmani)in the self
- नज्ञाते (najñāte)not known
- देहाध्यासः (dehādhyāsaḥ)delusion of the body (deha:body | adhyāsaḥ:delusion)
- हि (hi)indeed
- जायते (jāyate)arises
- सः (saḥ)he
- एव (eva)indeed
- आत्मा (ātmā)self
- परिज्ञातः (parijñātaḥ)realized
- लीयते (līyate)disappears
- च (ca)and
- परात्मनि (parātmani)in the supreme self (para:supreme | ātmani:in the self)
सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम्।
अभावात्सर्वभावानां देहानां चात्मता कुतः।।88।।
अभावात्सर्वभावानां देहानां चात्मता कुतः।।88।।
- सर्वम् (sarvam)all
- आत्मतया (ātmatayā)as the Self (ātma:Self | tayā:as)
- ज्ञातम् (jñātam)known
- जगत् (jagat)universe
- स्थावरजङ्गमम् (sthāvarajaṅgamam)movable and immovable (sthāvara:immovable | jaṅgamam:movable)
- अभावात् (abhāvāt)due to non-existence
- सर्वभावानाम् (sarvabhāvānām)of all entities (sarva:all | bhāvānām:of entities)
- देहानाम् (dehānām)of bodies
- च (ca)and
- आत्मता (ātmatā)identity with Self
- कुतः (kutaḥ)where
आत्मानं सततं जानन्कालं नय महामते।
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि।।89।।
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि।।89।।
- आत्मानं (ātmānam)the self
- सततं (satataṃ)always
- जानन् (jānan)knowing
- कालं (kālaṃ)time
- नय (naya)lead
- महामते (mahāmate)O great-minded one (mahā:great | mate:minded one)
- प्रारब्धम् (prārabdham)Prarabdha (destiny)
- अखिलं (akhilaṃ)all
- भुञ्जन् (bhuñjan)experiencing
- उद्वेगं (udvegaṃ)distress
- कर्तुम् (kartum)to do
- अर्हसि (arhasi)you should
उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति।
इति यच्छ्रूयते शास्त्रात्तन्निराक्रियतेऽधुना।।90।।
इति यच्छ्रूयते शास्त्रात्तन्निराक्रियतेऽधुना।।90।।
- उत्पन्ने (utpanne)arisen
- अपि (api)even
- आत्मविज्ञाने (ātmavijñāne)in the knowledge of Self (ātma:Self | vijñāne:in the knowledge)
- प्रारब्धं (prārabdhaṃ)destiny
- नैव (naiva)not at all
- मुञ्चति (muñcati)releases
- इति (iti)thus
- यत् (yat)which
- श्रूयते (śrūyate)is heard
- शास्त्रात् (śāstrāt)from scripture
- तत् (tat)that
- निराक्रियते (nirākriyate)is refuted
- अधुना (adhunā)now
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते।
देहादीनामसत्यत्वाद्यथा स्वप्नः प्रबोधतः।।91।।
देहादीनामसत्यत्वाद्यथा स्वप्नः प्रबोधतः।।91।।
- तत्त्वज्ञानोदयात् (tattvajñānodayāt)from the rise of true knowledge (tattva:truth | jñāna:knowledge | udayāt:from the rise)
- ऊर्ध्वं (ūrdhvaṃ)after
- प्रारब्धं (prārabdhaṃ)prarabdha karma
- नैव (naiva)indeed not
- विद्यते (vidyate)exists
- देहादीनाम् (dehādīnām)of the body and others (deha:body | ādīnām:and others)
- असत्यत्वात् (asatyatvāt)due to non-existence (asatya:non-existence | tvāt:due to)
- यथा (yathā)just as
- स्वप्नः (svapnaḥ)dream
- प्रबोधतः (prabodhataḥ)upon waking
कर्म जन्मान्तरकृतं प्रारब्धमिति कीर्तितम्।
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित्।।92।।
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित्।।92।।
- कर्म (karma)action
- जन्मान्तरकृतम् (janmāntarakṛtam)done in another life (janma:birth | antara:another | kṛtam:done)
- प्रारब्धम् (prārabdham)Prarabdha karma
- इति (iti)thus
- कीर्तितम् (kīrtitam)is known
- तत् (tat)that
- तु (tu)but
- जन्मान्तराभावात् (janmāntarābhāvāt)due to absence of rebirth (janma:birth | antara:another | abhāvāt:due to absence)
- पुंसः (puṃsaḥ)for a man
- न (na)not
- एव (eva)indeed
- अस्ति (asti)is
- कर्हिचित् (karhicit)ever
स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः।।
अध्यस्तस्य कुतो जन्म जन्माभावे स्थितिः कुतः।।93।।
अध्यस्तस्य कुतो जन्म जन्माभावे स्थितिः कुतः।।93।।
- स्वप्नदेहः (svapnadehaḥ)dream body (svapna:dream | dehaḥ:body)
- यथा (yathā)just as
- अध्यस्तः (adhyastaḥ)superimposed
- तथा (tathā)so
- एव (eva)indeed
- अयं (ayaṃ)this
- हि (hi)certainly
- देहकः (dehakaḥ)body
- अध्यस्तस्य (adhyastasya)of the superimposed
- कुतः (kutaḥ)where
- जन्म (janma)birth
- जन्माभावे (janmābhāve)in the absence of birth (janma:birth | abhāve:in the absence)
- स्थितिः (sthitiḥ)existence
- कुतः (kutaḥ)where
उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते।
अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता।।94।।
अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता।।94।।
- उपादानं (upādānaṃ)material cause
- प्रपञ्चस्य (prapañcasya)of the phenomenal world
- मृद्भाण्डस्य (mṛdbhāṇḍasya)of the earthen pot (mṛd:earth | bhāṇḍasya:of the pot)
- इव (iva)like
- कथ्यते (kathyate)is declared
- अज्ञानं (ajñānaṃ)ignorance
- च (ca)and
- एव (eva)indeed
- वेदान्तैः (vedāntaiḥ)by the Vedanta texts
- तस्मिन् (tasmin)in that
- नष्टे (naṣṭe)being destroyed
- क्व (kva)where
- विश्वता (viśvatā)universe
यथा रज्जुं परित्यज्य सर्प गृह्णाति वै भ्रमात्।
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः।।95।।
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः।।95।।
- यथा (yathā)just as
- रज्जुं (rajjuṃ)rope
- परित्यज्य (parityajya)leaving aside
- सर्प (sarpa)snake
- गृह्णाति (gṛhṇāti)perceives
- वै (vai)indeed
- भ्रमात् (bhramāt)out of confusion
- तद्वत् (tadvat)so does
- सत्यम् (satyam)reality
- अविज्ञाय (avijñāya)without knowing
- जगत् (jagat)world
- पश्यति (paśyati)sees
- मूढधीः (mūḍhadhīḥ)ignorant person (mūḍha:ignorant | dhīḥ:mind)
रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति।
अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत्।।96।।
अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां व्रजेत्।।96।।
- रज्जु (rajju)rope
- रूपे (rūpe)nature
- परिज्ञाते (parijñāte)being known
- सर्पभ्रान्तिः (sarpabhrāntiḥ)illusion of snake (sarpa:snake | bhrāntiḥ:illusion)
- न (na)not
- तिष्ठति (tiṣṭhati)persists
- अधिष्ठाने (adhiṣṭhāne)substratum
- तथा (tathā)so
- ज्ञाते (jñāte)being known
- प्रपञ्चः (prapañcaḥ)phenomenal world
- शून्यतां (śūnyatāṃ)emptiness
- व्रजेत् (vrajet)disappears
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः।
अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः।।97।।
अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः।।97।।
- देहस्य (dehasya)of the body
- अपि (api)also
- प्रपञ्चत्वात् (prapañcatvāt)due to being phenomenal (prapañca:phenomenal world | tvāt:due to being)
- प्रारब्ध (prārabdha)karma in effect
- अवस्थितिः (avasthitiḥ)existence
- कुतः (kutaḥ)how
- अज्ञानिजनबोधार्थम् (ajñānijanabodhārtham)for understanding the ignorant (ajñāni:ignorant people | jana:people | bodha:understanding | artham:for the purpose of)
- प्रारब्धम् (prārabdham)karma in effect
- वक्ति (vakti)speaks
- वै (vai)indeed
- श्रुतिः (śrutiḥ)the scripture
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।
बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च वै स्फुटम्।।98।।
बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च वै स्फुटम्।।98।।
- क्षीयन्ते (kṣīyante)perish
- च (ca)and
- अस्य (asya)his
- कर्माणि (karmāṇi)actions
- तस्मिन् (tasmin)in that
- दृष्टे (dṛṣṭe)realized
- परावरे (parāvare)higher and lower (para:higher | avare:lower)
- बहुत्वं (bahutvaṃ)plurality
- तन्निषेधार्थं (tanniṣedhārthaṃ)to negate that (tat:that | niṣedha:negate | arthaṃ:for the purpose)
- श्रुत्या (śrutyā)by the Shruti
- गीतं (gītaṃ)sung
- च (ca)and
- वै (vai)indeed
- स्फुटम् (sphuṭam)clearly
उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः।
वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः।।99।।
वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः।।99।।
- उच्यते (ucyate)is said
- अज्ञैः (ajñaiḥ)by the ignorant
- बलात् (balāt)by force
- च (ca)and
- एतत् (etat)this
- तदा (tadā)then
- अनर्थद्वयागमः (anarthadvayāgamaḥ)arrival of two absurdities (anartha:absurdity | dvaya:two | āgamaḥ:arrival)
- वेदान्तमतहानं (vedāntamatahānaṃ)forgoing the Vedantic conclusion (vedānta:Vedantic | mata:conclusion | hānaṃ:forgoing)
- च (ca)and
- यतः (yataḥ)from which
- ज्ञानम् (jñānam)knowledge
- इति (iti)thus
- श्रुतिः (śrutiḥ)scripture
त्रिपञ्चाङ्गान्यथो वक्ष्ये पूर्वोक्तस्यैव सिद्धये।
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु।।100।।
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु।।100।।
- त्रिपञ्चाङ्गानि (tripañcāṅgāni)fifteen steps (tri:three | pañca:five | aṅgāni:parts or steps)
- अथ (atha)now
- वक्ष्ये (vakṣye)I shall expound
- पूर्वोक्तस्य (pūrvoktasya)of the aforesaid (pūrva:previous | uktasya:of the said)
- एव (eva)indeed
- सिद्धये (siddhaye)for attainment
- तैः (taiḥ)by them
- च (ca)and
- सर्वैः (sarvaiḥ)all
- सदा (sadā)always
- कार्यं (kāryam)should be practiced
- निदिध्यासनम् (nididhyāsanam)profound meditation
- एव (eva)indeed
- तु (tu)but
नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः।
तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम्।।101।।
तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम्।।101।।
- नित्याभ्यासात् (nityābhyāsāt)from constant practice (nitya:constant | abhyāsāt:from practice)
- ऋते (ṛte)without
- प्राप्तिः (prāptiḥ)attainment
- न (na)not
- भवेत् (bhavet)would be
- सच्चिदात्मनः (saccidātmanaḥ)of the existence-consciousness self (sat:existence | cit:consciousness | ātmanaḥ:of the self)
- तस्मात् (tasmāt)therefore
- ब्रह्म (brahma)Brahman
- निदिध्यासेत् (nididhyāset)should meditate
- जिज्ञासुः (jijñāsuḥ)seeker of knowledge
- श्रेयसे (śreyase)for the good
- चिरम् (ciram)for a long time
यमो हि नियमस्त्यागो मौनं देशश्च कालतः।
आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः।।102।।
आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः।।102।।
- यमः (yamaḥ)control of the senses
- हि (hi)indeed
- नियमः (niyamaḥ)control of the mind
- त्यागः (tyāgaḥ)renunciation
- मौनम् (maunam)silence
- देशः (deśaḥ)space
- च (ca)and
- कालतः (kālataḥ)from time
- आसनम् (āsanam)posture
- मूलबन्धः (mūlabandhaḥ)restraining root (mūla:root | bandhaḥ:restraining)
- च (ca)and
- देहसाम्यम् (dehasāmyaṃ)equipoise of the body (deha:body | sāmyaṃ:equipoise)
- च (ca)and
- दृक्स्थितिः (dṛksthitiḥ)firmness of vision (dṛk:vision | sthitiḥ:firmness)
प्राणसंयमनं चैव प्रत्याहारश्च धारणा।
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात्।।103।।
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात्।।103।।
- प्राणसंयमनं (prāṇasaṃyamanaṃ)control of the vital forces (prāṇa:vital forces | saṃyamanaṃ:control)
- च (ca)and
- एव (eva)indeed
- प्रत्याहारः (pratyāhāraḥ)withdrawal of the mind
- च (ca)and
- धारणा (dhāraṇā)concentration
- आत्मध्यानं (ātmadhyānaṃ)self-contemplation (ātma:self | dhyānaṃ:contemplation)
- समाधिः (samādhiḥ)complete absorption
- च (ca)and
- प्रोक्तानि (proktāni)are described
- अङ्गानि (aṅgāni)steps
- वै (vai)indeed
- क्रमात् (kramāt)in order
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः।
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः।।104।।
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः।।104।।
- सर्वं (sarvaṃ)all
- ब्रह्म (brahma)Brahman
- इति (iti)thus
- विज्ञानात् (vijñānāt)from knowledge
- इन्द्रियग्रामसंयमः (indriyagrāmasaṃyamaḥ)restraint of all senses (indriya:senses | grāma:group | saṃyamaḥ:restraint)
- यमः (yamaḥ)Yama
- अयम् (ayam)this
- इति (iti)thus
- संप्रोक्तः (saṃproktaḥ)is called
- अभ्यसनीयः (abhyasanīyaḥ)to be practiced
- मुहुः (muhuḥ)again
- मुहुः (muhuḥ)again
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः।
नियमो हि परानन्दो नियमात्क्रियते बुधैः।।105।।
नियमो हि परानन्दो नियमात्क्रियते बुधैः।।105।।
- सजातीयप्रवाहः (sajātīyapravāhaḥ)flow of similar thoughts (sajātīya:similar kind | pravāhaḥ:flow)
- च (ca)and
- विजातीयतिरस्कृतिः (vijātīyatiraskṛtiḥ)exclusion of dissimilar thoughts (vijātīya:dissimilar kind | tiraskṛtiḥ:exclusion)
- नियमः (niyamaḥ)discipline
- हि (hi)indeed
- परानन्दः (parānandaḥ)supreme bliss (para:supreme | ānandaḥ:bliss)
- नियमात् (niyamāt)from discipline
- क्रियते (kriyate)is practiced
- बुधैः (budhaiḥ)by the wise
त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात्।
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः।।106।।
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः।।106।।
- त्यागः (tyāgaḥ)renunciation
- प्रपञ्चरूपस्य (prapañcarūpasya)of the illusory universe (prapañca:illusory universe | rūpasya:of the form)
- चिदात्मत्वावलोकनात् (cidātmatvāvalokanāt)by realizing as the Atman (cit:consciousness | ātmatva:as the Atman | avalokanāt:by realizing)
- त्यागः (tyāgaḥ)renunciation
- हि (hi)indeed
- महताम् (mahatām)of the great
- पूज्यः (pūjyaḥ)honored
- सद्यः (sadyaḥ)immediate
- मोक्षमयः (mokṣamayaḥ)of the nature of liberation (mokṣa:liberation | mayaḥ:of the nature)
- यतः (yataḥ)since
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह।
यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः।।107।।
यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः।।107।।
- यतः (yataḥ)from which
- वाचः (vācaḥ)words
- निवर्तन्ते (nivartante)turn back
- अप्राप्य (aprāpya)without reaching
- मनसा (manasā)with the mind
- सह (saha)together with
- यत् (yat)which
- मौनं (maunaṃ)silence
- योगिभिः (yogibhiḥ)by the Yogins
- गम्यम् (gamyam)attainable
- तत् (tat)that
- भजेत् (bhajet)should worship
- सर्वदा (sarvadā)always
- बुधः (budhaḥ)the wise
वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते।
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः।।108।।
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः।।108।।
- वाचः (vācaḥ)words
- यस्मात् (yasmāt)from which
- निवर्तन्ते (nivartante)turn away
- तत् (tat)that
- वक्तुं (vaktuṃ)to describe
- केन (kena)by whom
- शक्यते (śakyate)is possible
- प्रपञ्चः (prapañcaḥ)phenomenal world
- यदि (yadi)if
- वक्तव्यः (vaktavyaḥ)to be described
- सः (saḥ)he
- अपि (api)also
- शब्दविवर्जितः (śabdavivarjitaḥ)beyond words (śabda:words | vivarjitaḥ:devoid of)
इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम्।
गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः।।109।।
गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः।।109।।
- इति (iti)thus
- वा (vā)or
- तत् (tat)that
- भवेत् (bhavet)may be
- मौनं (maunaṃ)silence
- सतां (satāṃ)of the sages
- सहजसंज्ञितम् (sahajasaṃjñitam)known as congenital (sahaja:congenital | saṃjñitam:known as)
- गिरा (girā)by speech
- मौनं (maunaṃ)silence
- तु (tu)but
- बालानां (bālānām)of the ignorant
- प्रयुक्तं (prayuktaṃ)ordained
- ब्रह्मवादिभिः (brahmavādibhiḥ)by the teachers of Brahman (brahma:Brahman | vādibhiḥ:by the teachers)
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः।।110।।
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः।।110।।
- आदौ (ādau)in the beginning
- अन्ते (ante)in the end
- च (ca)and
- मध्ये (madhye)in the middle
- च (ca)and
- जनः (janaḥ)people
- यस्मिन् (yasmin)wherein
- न (na)not
- विद्यते (vidyate)exists
- येन (yena)by which
- इदं (idaṃ)this
- सततम् (satatam)always
- व्याप्तम् (vyāptam)pervaded
- स (sa)that
- देशः (deśaḥ)place
- विजनः (vijanaḥ)solitude
- स्मृतः (smṛtaḥ)is known
कलनात्सर्वभूतानां ब्रह्मादीनां निमेषतः।
कालशब्देन निर्दिष्टो ह्यखण्डानन्द अद्वयः।।111।।
कालशब्देन निर्दिष्टो ह्यखण्डानन्द अद्वयः।।111।।
- कलनात् (kalanāt)by the time
- सर्वभूतानां (sarvabhūtānāṃ)of all beings (sarva:all | bhūtānāṃ:of beings)
- ब्रह्मादीनां (brahmādīnāṃ)from Brahman downwards (brahma:Brahman | ādīnāṃ:from downwards)
- निमेषतः (nimeṣataḥ)in the twinkling of an eye
- कालशब्देन (kālaśabdena)by the word 'time' (kāla:time | śabdena:by the word)
- निर्दिष्टः (nirdiṣṭaḥ)denoted
- हि (hi)indeed
- अखण्डानन्द (akhaṇḍānanda)indivisible bliss (akhaṇḍa:indivisible | ānanda:bliss)
- अद्वयः (advayaḥ)non-dual
सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम्।
आसनं तद्विजानीयान्नेतरत्सुखनाशनम्।।112।।
आसनं तद्विजानीयान्नेतरत्सुखनाशनम्।।112।।
- सुखेनैव (sukhenaiva)only with ease (sukhena:with ease | eva:only)
- भवेत् (bhavet)should be
- यस्मिन् (yasmin)in which
- अजस्रं (ajasraṃ)unceasingly
- ब्रह्मचिन्तनम् (brahmacintanam)meditation on Brahman (brahma:Brahman | cintanam:meditation)
- आसनं (āsanaṃ)posture
- तत् (tad)that
- विजानीयात् (vijānīyāt)should be known
- न (na)not
- इतरत् (itarat)any other
- सुखनाशनम् (sukhanāśanam)destroyer of happiness (sukha:happiness | nāśanam:destroyer)
सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम्।
यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः।।113।।
यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः।।113।।
- सिद्धं (siddhaṃ)perfected
- यत् (yat)which
- सर्वभूतादि (sarvabhūtādi)origin of all beings (sarva:all | bhūta:beings | ādi:origin)
- विश्वाधिष्ठानम् (viśvādhiṣṭhānam)support of the universe (viśva:universe | adhiṣṭhānam:support)
- अव्ययम् (avyayam)immutable
- यस्मिन् (yasmin)in which
- सिद्धाः (siddhāḥ)enlightened
- समाविष्टाः (samāviṣṭāḥ)completely merged
- तत् (tad)that
- वै (vai)indeed
- सिद्धासनं (siddhāsanaṃ)Siddhasana
- विदुः (viduḥ)know
यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम्।
मूलबन्धः सदा सेव्यो योगोऽसौ राजयोगिनाम्।।114।।
मूलबन्धः सदा सेव्यो योगोऽसौ राजयोगिनाम्।।114।।
- यन्मूलं (yanmūlaṃ)that root (yat:that | mūlaṃ:root)
- सर्वभूतानां (sarvabhūtānāṃ)of all beings (sarva:all | bhūtānāṃ:of beings)
- यन्मूलं (yanmūlaṃ)that root (yat:that | mūlaṃ:root)
- चित्तबन्धनम् (cittabandhanam)restraint of the mind (citta:mind | bandhanam:restraint)
- मूलबन्धः (mūlabandhaḥ)restraining root (mūla:root | bandhaḥ:restraining)
- सदा (sadā)always
- सेव्यः (sevyaḥ)should be adopted
- योगः (yogaḥ)yoga
- असौ (asau)this
- राजयोगिनाम् (rājayoginām)for Raja-yogins (rāja:royal | yoginām:of yogins)
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते।
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत्।।115।।
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत्।।115।।
- अङ्गानां (aṅgānāṃ)of the limbs
- समतां (samatāṃ)equipoise
- विद्यात् (vidyāt)should be known
- समे (same)in the uniform
- ब्रह्मणि (brahmaṇi)in Brahman
- लीयते (līyate)absorbs
- न (na)not
- चेत् (cet)if
- नैव (naiva)not at all
- समानत्वम् (samānatvam)equipoise
- ऋजुत्वं (ṛjutvaṃ)straightening
- शुष्कवृक्षवत् (śuṣkavṛkṣavat)like a dried-up tree (śuṣka:dried-up | vṛkṣavat:like a tree)
दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत्।
सा दृष्टिः परमोदारा न नासाग्रावलोकनी।।116।।
सा दृष्टिः परमोदारा न नासाग्रावलोकनी।।116।।
- दृष्टिं (dṛṣṭim)vision
- ज्ञानमयीं (jñānamayīm)consisting of knowledge (jñāna:knowledge | mayīm:consisting of)
- कृत्वा (kṛtvā)having made
- पश्येत् (paśyet)should view
- ब्रह्ममयम् (brahmamayam)pervaded by Brahman (brahma:Brahman | mayam:pervaded by)
- जगत् (jagat)world
- सा (sā)that
- दृष्टिः (dṛṣṭiḥ)vision
- परमोदारा (paramodārā)most noble (parama:most | udārā:noble)
- न (na)not
- नासाग्रावलोकनी (nāsāgrāvalokanī)directed to the tip of the nose (nāsā:nose | agra:tip | avalokanī:directed to)
द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत्।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकनी।।117।।
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकनी।।117।।
- द्रष्टृदर्शनदृश्यानां (draṣṭṛdarśanadṛśyānāṃ)of seer, sight, and seen (draṣṭṛ:seer | darśana:sight | dṛśya:seen)
- विरामः (virāmaḥ)cessation
- यत्र (yatra)where
- वा (vā)or
- भवेत् (bhavet)may be
- दृष्टिः (dṛṣṭiḥ)vision
- तत्र (tatra)there
- एव (eva)indeed
- कर्तव्या (kartavyā)should be directed
- न (na)not
- नासाग्रावलोकनी (nāsāgrāvalokanī)to the tip of the nose (nāsā:nose | agra:tip | avalokanī:to be looked at)
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात्।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते।।118।।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते।।118।।
- चित्त (citta)mind
- आदि (ādi)beginning with
- सर्व (sarva)all
- भावेषु (bhāveṣu)in states
- ब्रह्मत्वेन (brahmatvena)as Brahman (brahma:Brahman | tvena:as)
- एव (eva)indeed
- भावनात् (bhāvanāt)by contemplation
- निरोधः (nirodhaḥ)restraint
- सर्व (sarva)all
- वृत्तीनां (vṛttīnāṃ)of modifications
- प्राणायामः (prāṇāyāmaḥ)Pranayama
- स (sa)he
- उच्यते (ucyate)is called
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः।।119।।
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः।।119।।
- निषेधनं (niṣedhanam)negation
- प्रपञ्चस्य (prapañcasya)of the phenomenal world
- रेचकाख्यः (recakākhyaḥ)called Rechaka (recaka:Rechaka | ākhyaḥ:called)
- समीरणः (samīraṇaḥ)breathing out
- ब्रह्मैवास्मीति (brahmaivāsmīti)I am verily Brahman (brahma:Brahman | eva:verily | asmi:I am | iti:thus)
- या (yā)which
- वृत्तिः (vṛttiḥ)thought
- पूरकः (pūrakaḥ)called Puraka (pūraka:Puraka | ākhyaḥ:called)
- वायुः (vāyuḥ)breathing in
- ईरितः (īritaḥ)is called
ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः।
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम्।।120।।
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम्।।120।।
- ततः (tataḥ)then
- तद्वृत्तिनैश्चल्यं (tadvṛttinaiścalyaṃ)steadiness of that thought (tat:that | vṛtti:thought | naiścalyaṃ:steadiness)
- कुम्भकः (kumbhakaḥ)breath retention
- प्राणसंयमः (prāṇasaṃyamaḥ)control of breath (prāṇa:breath | saṃyamaḥ:control)
- अयम् (ayam)this
- च (ca)and
- अपि (api)also
- प्रबुद्धानाम् (prabuddhānām)of the enlightened
- अज्ञानाम् (ajñānām)of the ignorant
- घ्राणपीडनम् (ghrāṇapīḍanam)torture of the nose (ghrāṇa:nose | pīḍanam:torture)
विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम्।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः।।121।।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः।।121।।
- विषयेषु (viṣayeṣu)in the objects
- आत्मताम् (ātmatām)selfhood
- दृष्ट्वा (dṛṣṭvā)having seen
- मनसः (manasaḥ)of the mind
- चिति (citi)consciousness
- मज्जनम् (majjanam)immersion
- प्रत्याहारः (pratyāhāraḥ)withdrawal
- स (sa)that
- विज्ञेयः (vijñeyaḥ)should be known
- अभ्यसनीयः (abhyasanīyaḥ)should be practiced
- मुमुक्षुभिः (mumukṣubhiḥ)by seekers of liberation (mumukṣu:seeker of liberation | bhiḥ:by)
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात्।
मनसो धारणायैव धारणा सा परा मता।।122।।
मनसो धारणायैव धारणा सा परा मता।।122।।
- यत्र (yatra)wherever
- यत्र (yatra)wherever
- मनो (mano)mind
- याति (yāti)goes
- ब्रह्मणः (brahmaṇaḥ)of Brahman
- तत्र (tatra)there
- दर्शनात् (darśanāt)by realization
- मनसः (manasaḥ)of the mind
- धारणाय (dhāraṇāya)for concentration
- एव (eva)indeed
- धारणा (dhāraṇā)concentration
- सा (sā)that
- परा (parā)supreme
- मता (matā)is considered
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः।
ध्यानशब्देन विख्याता परमानन्ददायिनी।।123।।
ध्यानशब्देन विख्याता परमानन्ददायिनी।।123।।
- ब्रह्मैव (brahmaiva)Brahman indeed (brahma:Brahman | eva:indeed)
- अस्मि (asmi)I am
- इति (iti)thus
- सद्वृत्त्या (sadvṛttyā)by the right thought (sat:right | vṛttyā:by the thought)
- निरालम्बतया (nirālambatayā)by independence (nir:without | ālambatayā:support)
- स्थितिः (sthitiḥ)state
- ध्यानशब्देन (dhyānaśabdena)by the word meditation (dhyāna:meditation | śabdena:by the word)
- विख्याता (vikhyātā)well known
- परमानन्ददायिनी (paramānandadāyinī)giver of supreme bliss (parama:supreme | ānanda:bliss | dāyinī:giver)
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः।
वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः।।124।।
वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः।।124।।
- निर्विकारतया (nirvikāratayā)by changelessness (nir:without | vikāra:change | tayā:by)
- वृत्त्या (vṛttyā)by thought
- ब्रह्माकारतया (brahmākāratayā)by identifying with Brahman (brahma:Brahman | ākāra:form | tayā:by)
- पुनः (punaḥ)again
- वृत्तिविस्मरणं (vṛttivismaraṇam)forgetfulness of thought (vṛtti:thought | vismaraṇam:forgetfulness)
- सम्यक् (samyak)completely
- समाधिः (samādhiḥ)Samadhi
- ज्ञानसंज्ञकः (jñānasaṃjñakaḥ)known as knowledge (jñāna:knowledge | saṃjñakaḥ:known as)
एवं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत्।
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः स भेवत्स्वयम्।।125।।
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः स भेवत्स्वयम्।।125।।
- एवम् (evam)thus
- च (ca)and
- अकृत्रिमानन्दं (akṛtrimānandam)natural bliss (akṛtrima:natural | ānandam:bliss)
- तावत् (tāvat)until
- साधु (sādhu)carefully
- समभ्यसेत् (samabhyaset)should practice
- वश्यः (vaśyaḥ)under control
- यावत् (yāvat)until
- क्षणात् (kṣaṇāt)in an instant
- पुंसः (puṃsaḥ)of the person
- प्रयुक्तः (prayuktaḥ)called into action
- स (sa)he
- भवेत् (bhavet)arises
- स्वयम् (svayam)spontaneously
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट्।
तत्स्वरूपं न चैकस्य विषयो मनसो गिराम्।।126।।
तत्स्वरूपं न चैकस्य विषयो मनसो गिराम्।।126।।
- ततः (tataḥ)then
- साधननिर्मुक्तः (sādhananirmuktaḥ)freed from practices (sādhana:practices | nirmuktaḥ:freed from)
- सिद्धः (siddhaḥ)perfected
- भवति (bhavati)becomes
- योगिराट् (yogirāṭ)king of yogis (yogi:yogi | rāṭ:king)
- तत्स्वरूपं (tatsvarūpaṃ)its real nature (tat:its | svarūpaṃ:real nature)
- न (na)not
- च (ca)and
- एकस्य (ekasya)of one
- विषयः (viṣayaḥ)object
- मनसः (manasaḥ)of the mind
- गिराम् (girām)of speech
समाधौ क्रियमाणे तु विघ्ना आयान्ति वै बलात्।
अनुसंधानराहित्यमालस्यं भोगलालसम्।।127।।
अनुसंधानराहित्यमालस्यं भोगलालसम्।।127।।
- समाधौ (samādhau)in meditation
- क्रियमाणे (kriyamāṇe)being practiced
- तु (tu)but
- विघ्नाः (vighnāḥ)obstacles
- आयान्ति (āyānti)come
- वै (vai)indeed
- बलात् (balāt)forcefully
- अनुसंधानराहित्यम् (anusaṃdhānarāhityam)lack of inquiry (anusaṃdhāna:inquiry | rāhityam:lack of)
- आलस्यं (ālasyaṃ)idleness
- भोगलालसम् (bhogalālasam)desire for sense-pleasure (bhoga:sense-pleasure | lālasam:desire for)
लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता।
एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः।।128।।
एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः।।128।।
- लयः (layaḥ)dullness
- तमः (tamaḥ)darkness
- च (ca)and
- विक्षेपः (vikṣepaḥ)distraction
- रसास्वादः (rasāsvādaḥ)tasting of joy
- च (ca)and
- शून्यता (śūnyatā)sense of blankness
- एवं (evaṃ)thus
- यत् (yat)which
- विघ्नबाहुल्यम् (vighnabāhulyam)abundance of obstacles (vighna:obstacle | bāhulyam:abundance)
- त्याज्यम् (tyājyam)should be abandoned
- ब्रह्मविदा (brahmavidā)by the knower of Brahman (brahma:Brahman | vidā:knower)
- शनैः (śanaiḥ)slowly
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता।
ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत्।।129।।
ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत्।।129।।
- भाववृत्त्या (bhāvavṛttyā)by the thought of object (bhāva:object | vṛttyā:by the thought)
- हि (hi)indeed
- भावत्वं (bhāvatvaṃ)object-ness (bhāva:object | tvaṃ:ness)
- शून्यवृत्त्या (śūnyavṛttyā)by the thought of void (śūnya:void | vṛttyā:by the thought)
- हि (hi)indeed
- शून्यता (śūnyatā)void-ness (śūnya:void | tā:ness)
- ब्रह्मवृत्त्या (brahmavṛttyā)by the thought of Brahman (brahma:Brahman | vṛttyā:by the thought)
- हि (hi)indeed
- पूर्णत्वं (pūrṇatvaṃ)perfection (pūrṇa:full | tvaṃ:ness)
- तथा (tathā)thus
- पूर्णत्वम् (pūrṇatvam)perfection (pūrṇa:full | tvam:ness)
- अभ्यसेत् (abhyaset)should practice
ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम्।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः।।130।।
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः।।130।।
- ये (ye)those who
- हि (hi)indeed
- वृत्तिं (vṛttiṃ)thought
- जहति (jahati)give up
- एनाम् (enām)this
- ब्रह्माख्यां (brahmākhyām)called Brahman (brahma:Brahman | ākhyām:called)
- पावनीं (pāvanīm)purifying
- पराम् (parām)supreme
- वृथैव (vṛthaiva)in vain
- ते (te)they
- तु (tu)but
- जीवन्ति (jīvanti)live
- पशुभिः (paśubhiḥ)with beasts
- च (ca)and
- समा (samā)equal
- नराः (narāḥ)men
ये हि वृत्तिं विजानन्ति ये ज्ञात्वा वर्धयन्त्यपि।
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये।।131।।
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये।।131।।
- ये (ye)those who
- हि (hi)indeed
- वृत्तिं (vṛttiṃ)state
- विजानन्ति (vijānanti)know
- ये (ye)those who
- ज्ञात्वा (jñātvā)having known
- वर्धयन्ति (vardhayanti)increase
- अपि (api)also
- ते (te)they
- वै (vai)indeed
- सत्पुरुषाः (satpuruṣāḥ)virtuous persons (sat:good | puruṣāḥ:persons)
- धन्याः (dhanyāḥ)blessed
- वन्द्याः (vandyāḥ)respected
- ते (te)they
- भुवनत्रये (bhuvanatraye)in the three worlds (bhuvana:world | traye:in the three)
येषां वृत्तिः समावृद्धा परिपक्वा च सा पुनः।
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः।।132।।
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः।।132।।
- येषां (yeṣām)whose
- वृत्तिः (vṛttiḥ)consciousness
- समावृद्धा (samāvṛddhā)fully matured
- परिपक्वा (paripakvā)ripened
- च (ca)and
- सा (sā)that
- पुनः (punaḥ)again
- ते (te)they
- वै (vai)indeed
- सद्ब्रह्मताम् (sadbrahmatām)state of true Brahman (sat:true | brahmatām:state of Brahman)
- प्राप्ताः (prāptāḥ)attained
- न (na)not
- इतरे (itare)others
- शब्दवादिनः (śabdavādinaḥ)those who deal with words (śabda:words | vādinaḥ:those who deal with)
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः।
तेऽप्यज्ञानितमा नूनं पुनरायान्ति यान्ति च।।133।।
तेऽप्यज्ञानितमा नूनं पुनरायान्ति यान्ति च।।133।।
- कुशला (kuśalā)clever
- ब्रह्मवार्तायाम् (brahmavārtāyām)in discussing about Brahman (brahma:Brahman | vārtāyām:in discussing)
- वृत्तिहीनाः (vṛttihīnāḥ)without realization (vṛtti:realization | hīnāḥ:without)
- सुरागिणः (surāgiṇaḥ)attached to pleasures (su:good | rāgiṇaḥ:attached)
- ते (te)they
- अपि (api)also
- अज्ञानितमाः (ajñānitamāḥ)most ignorant (a:not | jñānitamāḥ:most knowledgeable)
- नूनम् (nūnam)indeed
- पुनः (punaḥ)again
- आयान्ति (āyānti)are born
- यान्ति (yānti)die
- च (ca)and
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः।।134।।
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः।।134।।
- निमेषार्धं (nimeṣārdhaṃ)half a moment (nimeṣa:moment | ardhaṃ:half)
- न (na)not
- तिष्ठन्ति (tiṣṭhanti)remain
- वृत्तिं (vṛttiṃ)state
- ब्रह्ममयीं (brahmamayīṃ)consisting of Brahman (brahma:Brahman | mayīṃ:consisting of)
- विना (vinā)without
- यथा (yathā)just like
- तिष्ठन्ति (tiṣṭhanti)remain
- ब्रह्माद्याः (brahmādyāḥ)Brahma and others (brahma:Brahma | ādyāḥ:and others)
- सनकाद्याः (sanakādyāḥ)Sanaka and others (sanaka:Sanaka | ādyāḥ:and others)
- शुकादयः (śukādayaḥ)Suka and others (śuka:Suka | ādayaḥ:and others)
कार्ये कारणतायाता कारणे न हि कार्यता।
कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः।।135।।
कारणत्वं स्वतो गच्छेत्कार्याभावे विचारतः।।135।।
- कार्ये (kārye)in the effect
- कारणतायाता (kāraṇatāyātā)nature of the cause inheres (kāraṇatā:nature of the cause | yātā:inheres)
- कारणे (kāraṇe)in the cause
- न (na)not
- हि (hi)indeed
- कार्यता (kāryatā)nature of the effect
- कारणत्वं (kāraṇatvaṃ)causal nature
- स्वतः (svataḥ)by itself
- गच्छेत् (gacchet)disappears
- कार्याभावे (kāryābhāve)in the absence of effect (kārya:effect | abhāve:in the absence)
- विचारतः (vicārataḥ)through reasoning
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरः।
द्रष्टव्यं मृद्धटेनैव दृष्टान्तेन पुनः पुनः।।136।।
द्रष्टव्यं मृद्धटेनैव दृष्टान्तेन पुनः पुनः।।136।।
- अथ (atha)then
- शुद्धं (śuddham)pure
- भवेत् (bhavet)becomes
- वस्तु (vastu)reality
- यत् (yat)which
- वै (vai)indeed
- वाचाम् (vācām)of speech
- अगोचरः (agocaraḥ)beyond reach
- द्रष्टव्यम् (draṣṭavyam)should be understood
- मृद् (mṛd)earth
- घटेन (ghaṭena)with the pot
- एव (eva)indeed
- दृष्टान्तेन (dṛṣṭāntena)by illustration
- पुनः (punaḥ)again
- पुनः (punaḥ)again
अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत्।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम्।।137।।
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम्।।137।।
- अनेनैव (anenaiva)by this alone (anena:by this | eva:alone)
- प्रकारेण (prakāreṇa)in the manner
- वृत्तिः (vṛttiḥ)state
- ब्रह्मात्मिका (brahmātmikā)of Brahman nature (brahma:Brahman | ātmikā:nature)
- भवेत् (bhavet)arises
- उदेति (udeti)arises
- शुद्धचित्तानां (śuddhacittānāṃ)of pure-minded (śuddha:pure | cittānāṃ:of minds)
- वृत्तिज्ञानं (vṛttijñānaṃ)state of awareness (vṛtti:state | jñānaṃ:awareness)
- ततः (tataḥ)thereafter
- परम् (param)beyond
कारणं व्यतिरेकेण पुमानादौ विलोकयेत्।
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति।।138।।
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति।।138।।
- कारणं (kāraṇam)cause
- व्यतिरेकेण (vyatirekeṇa)by the negative method
- पुमान् (pumān)man
- आदौ (ādau)at first
- विलोकयेत् (vilokayet)should look
- अन्वयेन (anvayena)by the positive method
- पुनः (punaḥ)again
- तत् (tat)that
- हि (hi)indeed
- कार्ये (kārye)in the effect
- नित्यं (nityaṃ)always
- प्रपश्यति (prapaśyati)sees
कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत्।
कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः।।139।।
कारणत्वं स्वतो नश्येदवशिष्टं भवेन्मुनिः।।139।।
- कार्ये (kārye)in the effect
- हि (hi)indeed
- कारणं (kāraṇam)cause
- पश्येत् (paśyet)should see
- पश्चात् (paścāt)then
- कार्यं (kāryam)effect
- विसर्जयेत् (visarjayet)should dismiss
- कारणत्वं (kāraṇatvam)causal nature
- स्वतः (svataḥ)by itself
- नश्येत् (naśyet)should perish
- अवशिष्टं (avaśiṣṭam)remaining
- भवेत् (bhavet)becomes
- मुनिः (muniḥ)sage
भावितं तीव्रवेगेण वस्तु यन्निश्चयात्मना।
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत्।।140।।
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत्।।140।।
- भावितं (bhāvitaṃ)meditated upon
- तीव्रवेगेण (tīvravegeṇa)with great assiduity (tīvra:intense | vegeṇa:with speed)
- वस्तु (vastu)thing
- यत् (yat)which
- निश्चयात्मना (niścayātmanā)with firm conviction (niścaya:conviction | ātmanā:with self)
- पुमान् (pumān)person
- तत् (tad)that
- हि (hi)indeed
- भवेत् (bhavet)becomes
- शीघ्रं (śīghraṃ)quickly
- ज्ञेयम् (jñeyam)may be understood
- भ्रमरकीटवत् (bhramarakīṭavat)like the wasp and the worm (bhramara:wasp | kīṭavat:like the worm)
अदृश्यं भावरूपं च सर्वमेतच्चिदात्मकम्।
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः।।141।।
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः।।141।।
- अदृश्यं (adṛśyam)invisible
- भावरूपं (bhāvarūpam)having the form of existence (bhāva:existence | rūpam:form)
- च (ca)and
- सर्वम् (sarvam)everything
- एतत् (etat)this
- चित् (cit)consciousness
- आत्मकम् (ātmakam)of the nature of
- सावधानतया (sāvadhānatayā)with great care
- नित्यम् (nityam)always
- स्वात्मानम् (svātmānam)own Self (sva:own | ātmānam:Self)
- भावयेत् (bhāvayet)should think
- बुधः (budhaḥ)the wise
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत्।
विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया।।142।।
विद्वान्नित्यसुखे तिष्ठेद्धिया चिद्रसपूर्णया।।142।।
- दृश्यम् (dṛśyam)visible
- हि (hi)indeed
- अदृश्यताम् (adṛśyatām)to the invisible
- नीत्वा (nītvā)having reduced
- ब्रह्माकारेण (brahmākāreṇa)as one with Brahman (brahma:Brahman | ākāreṇa:as one with)
- चिन्तयेत् (cintayet)should think
- विद्वान् (vidvān)the wise
- नित्यसुखे (nityasukhe)in eternal felicity (nitya:eternal | sukhe:in felicity)
- तिष्ठेत् (tiṣṭhet)should abide
- धिया (dhiyā)with mind
- चिद्रसपूर्णया (cidrasapūrṇayā)full of consciousness and bliss (cit:consciousness | rasa:bliss | pūrṇayā:full of)
एभिरङ्गैः समायुक्तो राजयोग उदाहृतः।
किंचित्पक्वकषायाणां हठयोगेन संयुतः।।143।।
किंचित्पक्वकषायाणां हठयोगेन संयुतः।।143।।
- एभिः (ebhiḥ)by these
- अङ्गैः (aṅgaiḥ)limbs
- समायुक्तः (samāyuktaḥ)combined
- राजयोगः (rājayogaḥ)Raja-Yoga (rāja:royal | yoga:union)
- उदाहृतः (udāhṛtaḥ)described
- किंचित् (kiṃcit)somewhat
- पक्वकषायाणाम् (pakvakaṣāyāṇām)of partially attenuated desires (pakva:cooked, ripened | kaṣāyāṇām:of desires)
- हठयोगेन (haṭhayogena)with Hatha-Yoga (haṭha:forceful | yogena:with union)
- संयुतः (saṃyutaḥ)combined
परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः।
गुरुदैवतभक्तानां सर्वेषां सुलभो जवात्।।144।।
गुरुदैवतभक्तानां सर्वेषां सुलभो जवात्।।144।।
- परिपक्वं (paripakvaṃ)completely purified
- मनो (mano)mind
- येषां (yeṣāṃ)whose
- केवलः (kevalaḥ)alone
- अयम् (ayam)this
- च (ca)and
- सिद्धिदः (siddhidaḥ)productive of perfection (siddhi:perfection | daḥ:giver)
- गुरुदैवतभक्तानां (gurudaivatabhaktānāṃ)of those devoted to teacher and deity (guru:teacher | daivata:deity | bhaktānāṃ:of the devoted)
- सर्वेषां (sarveṣāṃ)of all
- सुलभः (sulabhaḥ)easily accessible
- जवात् (javāt)speedily
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
अपरोक्षानुभूतिः समाप्ता।।
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
अपरोक्षानुभूतिः समाप्ता।।
- इति (iti)thus
- श्रीमत् (śrīmat)revered
- परमहंस (paramahaṃsa)supreme ascetic
- परिव्राजक (parivrājaka)wandering monk
- आचार्यस्य (ācāryasya)of the teacher
- श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य (śrīgovindabhagavatpūjyapādaśiṣyasya)disciple of Govindapada (śrī:revered | govinda:Govinda | bhagavat:venerable | pūjya:worshipped | pāda:feet | śiṣya:disciple | asya:of)
- श्रीमच्छंकरभगवतः (śrīmacchaṃkarabhagavataḥ)of the revered Shankaracharya (śrīmat:revered | śaṃkara:Shankara | bhagavataḥ:of the venerable)
- कृतौ (kṛtau)composed by
- अपरोक्षानुभूतिः (aparokṣānubhūtiḥ)Aparokshanubhuti
- समाप्ता (samāptā)ends
- [Not verified]
