Lord Hanuman

हनुमदष्टोत्तरशतनामस्तोत्रम्

(Hanumadastottarasatanamastotram)

Also known as hanumad ashtottarashatanamastotram ghatikachalamahatmya · hanumadastottarasatanamastotra · brahmavaivarte ghatikacalamahatmyatah

A hundred and eight names from the Ghatikachala Mahatmya in the Brahmavaivarta Purana, and the meditation verse that opens it fixes the form to hold: a face of the palest red, a body carrying the golden mountain, and — unusually for Hanuman — the conch and the discus in his hands. That is the Sholinghur image, and the hill itself keeps returning in the names, as the dweller on the golden mountain. The list runs from parijata-priya, lover of the coral tree, through the leaping-king, the tawny-eyed, the swift-goer, the firm in vow; then to what he did — giver of Saumitri's life, shaker of Lanka, strider of the ocean, remover of the cause of Sita's grief, and breaker of the necklace at the throat of the demon's wife. The same hundred and eight appear as a namavali elsewhere in this collection, in the same order.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

(ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः)
अतिपाटलवक्रानं धृतहेमाद्रिविग्रहम् ।
आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १॥
ॐ पारिजातप्रियो योगी हनुमान् नृहरिप्रियः ।
प्लवगेन्द्रः पिङ्गलाक्षः शीघ्रगामी दृढव्रतः ॥ २॥
शङ्खचक्रवराभीतिपाणिरानन्ददायकः ।
स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥ ३॥
सौमित्रिजीवनकरो लङ्काविक्षोभकारकः ।
उदधिक्रमणः सीताशोकहेतुहरो हरिः ॥ ४॥
बली राक्षससंहर्ता दशकण्ठमदापहः ।
बुद्धिमान् नैर्ऋतवधूकण्ठसूत्रविदारकः ॥ ५॥
सुग्रीवसचिवो भीमो भीमसेनसहोदरः ।
सावित्रविद्यासंसेवी चरितार्थो महोदयः ॥ ६॥
वासवाभीष्टदो भव्यो हेमशैलनिवासवान् ।
किंशुकाभोऽग्रयतनू ऋजुरोमा महामतिः ॥ ७॥
महाक्रमो वनचरः स्थिरबुद्धिरभीशुमान् ।
सिंहिकागर्भनिर्भत्ता भेत्ता लङ्कानिवासिनाम् ॥ ८॥
अक्षशत्रुविनिघ्नश्च रक्षोऽमात्यभयावहः ।
वीरहा मृदुहस्तश्च पद्मपाणिर्जटाधरः ॥ ९॥
सर्वप्रियः सर्वकामप्रदः प्रांशुमुखश्शुचिः ।
विशुद्धात्मा विज्वरश्च सटावान् पाटलाधरः ॥ १०॥
भरतप्रेमजनकश्चीरवासा महोक्षधृक् ।
महास्त्रबन्धनसहो ब्रह्मचारी यतीश्वरः ॥ ११॥
महौषधोपहर्ता च वृषपर्वा वृषोदरः ।
सूर्योपलालितः स्वामी पारिजातावतंसकः ॥ १२॥
सर्वप्राणधरोऽनन्तः सर्वभूतादिगो मनुः ।
रौद्राकृतिर्भीमकर्मा भीमाक्षो भीमदर्शनः ॥ १३॥
सुदर्शनकरोऽव्यक्तो व्यक्तास्यो दुन्दुभिस्वनः ।
सुवेलचारी मैनाकहर्षदो हर्षणप्रियः ॥ १४॥
सुलभः सुव्रतो योगी योगिसेव्यो भयापहः ।
वालाग्निमथितानेकलङ्कावासिगृहोच्चयः ॥ १५॥
वर्धनो वर्धमानश्च रोचिष्णू रोमशो महान् ।
महादंष्ट्रो महाशूरः सद्गतिः सत्परायणः ॥ १६॥
सौम्यदर्शी सौम्यवेषो हेमयज्ञोपवीतिमान् ।
मौञ्जीकृष्णाजिनधरो मन्त्रज्ञो मन्त्रसारथिः ।
जितारातिः षडूर्मिश्च सर्वप्रियहिते रतः ॥ १७॥
एतैर्नामपदैर्दिव्यैर्यः स्तौति तव सन्निधौ ।
हनुमंस्तस्य किं नाम नो भवेद्भक्तिशालिनः ॥ १८॥
प्रणवं च पुरस्कृत्य चतुर्थ्यन्तैर्नमोऽन्तकैः ।
एतैर्नामभिरव्यग्रैरुच्यते हनुमान् भवान् ॥ १९॥
ऋणरोगादिदारिद्यपापक्षुदपमृत्यवः ।
विनश्यन्ति हनुमंस्ते नामसङ्कीर्तनक्षणे ॥ २०॥
भगवन् हनुमन् नित्यं राजवश्यं तथैव च ।
लक्ष्मीवश्यं च श्रीवश्यमारोग्यं दीर्घमायुषम् ॥ २१॥
प्राधान्यं सकलानां च ज्ञातिप्राधान्यमेव च ।
वीर्यं तेजश्च भक्तानां प्रयच्छसि महामते ॥ २२॥
॥ इति हनुमदष्टोत्तरशतनामस्तोत्रम् (ब्रह्मवैवर्ते घटिकाचलमाहात्म्यतः) सम्पूर्णम् ॥

Explore More