नमस्ते वानराधीश नमस्ते वायुनन्दन ॥ १॥
रेवानदी विहाराय सहस्रभुजधारिणे ॥ २॥
दशाननवधार्थाय पञ्चाननधराय च ॥ ३॥
कर्कटीवधवेलायां षडाननधराय च ॥ ४॥
रामाङ्कमुद्राधराय ब्रह्मलोकनिवासिने ॥ ५॥
सर्वस्वतन्त्रदेवाय नानायुधधराय च ॥ ६॥
दुर्दण्डिबन्धमोक्षाय कालनेमिहराय च ॥ ७॥
सर्वलोकप्रपूर्णाय भक्तानां हृन्निवासिने ॥ ८॥
सर्वमन्त्रस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ९॥
गङ्गातीरे विप्रमुख कपिलानुग्रहेच्छया ॥ १०॥
कौपीनकटिसूत्राय दिव्ययज्ञोपवीतिने ॥ ११॥
यज्ञकर्ते यज्ञभोक्रे नानाविद्याविहारिणे ॥ १२॥
कदलीफलहस्ताय हेमरम्भाविहारिणे ॥ १३॥
वल्लरीधार्ययुक्ताय सहस्राश्वरथाय च ॥ १४॥
पञ्चाशद्वर्णरूपाय सूक्ष्मरूपाय विष्णवे ॥ १५॥
लङ्किणीवशवेलायामष्टादशभुजात्मने ॥ १६॥
उष्ट्रारोहविराराय पार्वतीनन्दनाय च ॥ १७॥
पम्पातीरविहाराय केसरीनन्दनाय च ।
तप्तकाञ्चनवर्णाय वीररूपाय ते नमः ॥ १८॥
शङ्ख चक्रं त्रिशूलं मुसलमपि गदां पट्टसं मुद्गरं च ।
गाण्डीवं चारुपद्म द्विनवभुजवरे खङ्गमप्याददानं
वन्देऽहं वायुसूनं सुररिपुमथनं भक्तरक्षाधुरीणम् ॥ १९॥
