- दीपः
- गन्धः
- कुङ्कुमं
- अक्षताः
- पुष्पाणि
- धूपः
- नैवेद्यं
- ताम्बूलं
- आचमनीयं
- पूजा पात्रं
- कलशः
- शङ्खः [optional]
- हनुमान् प्रतिमा वा चित्रपटः वा
पूर्वाङ्ग पूजा
शुचिः
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
आचमनं
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥
ओ-म्भूः । ओ-म्भुवः॑ । ओग्ं सुवः॑ । ओ-म्महः॑ । ओ-ञ्जनः॑ । ओ-न्तपः॑ । ओग्ं सत्यम् ।
ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
तदङ्ग कलशाराधनं करिष्ये ॥
कलशाराधनम्
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ॥
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
शङ्खे तिष्ठन्तु विप्रेन्द्राः तस्मात् शङ्खं प्रपूजयेत् ॥
ॐ धवलाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गन्धं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । ताम्बूलं समर्पयामि ।
नीराजनं समर्पयामि । मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
दनुजवन कृशानुं ज्ञानिनामग्रगण्यम् ॥
रघुपतिप्रियभक्तं वातजातं नमामि ॥
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ॥
श्रीरामदूतं शिरसा नमामि ॥
रामायण महामाला रत्नं वन्देऽनिलात्मजम् ॥
ध्यायामि । ध्यानं समर्पयामि ॥
रामचन्द्र पदाम्भोज युगल स्थिरमासनम् ।
आवाहयामि वरदं हनूमन्तमभीष्टदम् ॥
ॐ श्रीहनुमते नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥
नवरत्ननिबद्धाढ्यं चतुरश्रं सुशोभनम् ।
सौवर्णमासनं तुभ्यं दास्यामि कपिनायक ॥
ॐ श्रीहनुमते नमः ।
आसनं समर्पयामि ॥
पादयोः पाद्यमनघं प्रतिगृह्य प्रसीद मे ॥
ॐ श्रीहनुमते नमः ।
पादयोः पाद्यं समर्पयामि ॥
लक्ष्मण प्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ॥
ॐ श्रीहनुमते नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥
वालाग्रसेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥
ॐ श्रीहनुमते नमः ।
मुखे आचमनीयं समर्पयामि ॥
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ॐ श्रीहनुमते नमः ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानन्तरं आचमनीयं समर्पयामि ॥
पीताम्बरमिदं तुभ्यं तप्तहाटक सन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥
उत्तरीयं तु दास्यामि संसारोत्तार कारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥
ॐ श्रीहनुमते नमः ।
वस्त्रं समर्पयामि ॥
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं चोत्तरीयं गृहाण रामकिङ्कर ॥
ॐ श्रीहनुमते नमः ।
यज्ञोपवीतं समर्पयामि ॥
कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥
ॐ श्रीहनुमते नमः ।
गन्धं समर्पयामि ॥
अक्षतान् धवलान् दिव्यान् पुष्पाणि च सुगन्धीनि ।
भक्त्या दत्तानि गृह्यन्तां सर्वदेवाः प्रसीदत ॥
ॐ मारुतये नमः - पादौ पूजयामि ।
ॐ सुग्रीवसखाय नमः - गुल्फौ पूजयामि ।
ॐ अङ्गदमित्राय नमः - जङ्घे पूजयामि ।
ॐ रामदासाय नमः - ऊरू पूजयामि ।
ॐ अक्षघ्नाय नमः - कटिं पूजयामि ।
ॐ लङ्कादहनाय नमः - वालं पूजयामि ।
ॐ सञ्जीवननगाहर्ते नमः - स्कन्धौ पूजयामि ।
ॐ सौमित्रिप्राणदात्रे नमः - वक्षःस्थलं पूजयामि ।
ॐ कुण्ठितदशकण्ठाय नमः - कण्ठं पूजयामि ।
ॐ रामाभिषेककारिणे नमः - हस्तौ पूजयामि ।
ॐ मन्त्ररचितरामायणाय नमः - वक्त्रं पूजयामि ।
ॐ प्रसन्नवदनाय नमः - वदनं पूजयामि ।
ॐ पिङ्गलनेत्राय नमः - नेत्रे पूजयामि ।
ॐ श्रुतिपरायणाय नमः - श्रोत्रे पूजयामि ।
ॐ ऊर्ध्वपुण्ड्रधारिणे नमः - ललाटं पूजयामि ।
ॐ मणिकण्ठमालिकाय नमः - शिरः पूजयामि ।
ॐ सर्वाभीष्टप्रदाय नमः - सर्वाण्यङ्गानि पूजयामि ॥
ॐ श्रीहनुमते नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥
दिव्यं सगुग्गुलं रम्यं दशाङ्गेन समन्वितम् ।
गृहाण मारुते धूपं सुप्रियं घ्राणतत्परम् ॥
ॐ श्रीहनुमते नमः ।
धूपमाघ्रापयामि ॥
साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापहम् ॥
सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥
ॐ श्रीहनुमते नमः ।
दीपं दर्शयामि ॥
मणिपात्र सहस्राढ्यं दिव्यान्नं घृतपायसम् ।
आपूपलड्डूकोपेतं मधुराम्रफलैर्युतम् ॥
हिङ्गू जीरक संयुक्तं षड्रसोपेतमुत्तमम् ।
नैवेद्यमर्पयाम्यद्य गृहाणेदं कपीश्वर ॥
ओ-म्भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥
ॐ श्रीहनुमते नमः ।
नैवेद्यं समर्पयामि ॥
नागवल्लीदलोपेतं क्रमुकैर्मधुरैर्युतम् ।
ताम्बूलमर्पयाम्यद्य कर्पूरादि सुवासितम् ॥
ॐ श्रीहनुमते नमः ।
ताम्बूलं समर्पयामि ॥
आरार्तिकं तमोहारि शतसूर्य समप्रभम् ।
अर्पयामि तव प्रीत्यै अन्धकार निषूदनम् ॥
ॐ श्रीहनुमते नमः ।
नीराजनं समर्पयामि ॥
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।
तन्नो हनुमत् प्रचोदयात् ॥
ॐ श्रीहनुमते नमः ।
मन्त्रपुष्पं समर्पयामि ॥
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष कपीश्वर ॥
ॐ श्रीहनुमते नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥
ॐ श्रीहनुमते नमः ।
नमस्कारान् समर्पयामि ॥
ॐ श्रीहनुमते नमः ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥
हनुमान् चालीसा>
हनुमत्-पञ्चरत्नम्>
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व कपिनायक ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व वानरोत्तम ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं कपीश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीहनुमान् सुप्रीतः सुप्रसन्नः वरदो भवतु ॥
ॐ श्रीहनुमते नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥
श्रीहनुमान् प्रसादं शिरसा गृह्णामि ॥
