सुभगां त्रिगुणितां मुक्तासुभगां कामरेफेन्दिरां समस्तरूपिणीमेतानि त्रिगुणितानि
तदनु कूर्चबीजं व्योमषष्ठस्वरां बिन्दुमेलनरूपां तद्द्वयं मायाद्वयं
दक्षिणे कालिके चेत्यभिमुखगतां तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् ।
स तु शिवमयो भवेत् । सर्वसिद्धीश्वरो भवेत् ।
गतिस्तस्यास्तीति । नान्यस्य गतिरस्ताति ।
स तु वागीश्वरः । स तु नारीश्वरः । स तु देवेश्वरः । स तु सर्वेश्वरः ।
त्रिकोणं पञ्चकोणं नवकोणं पद्मम् ।
ॐ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी
विप्रचित्ता उग्रा उग्रप्रभा दीप्ता नीला घना बलाका
मात्रा मुद्राऽमिता चैव पञ्चदशकोणगाः ।
ब्राह्मी नारायणी माहेश्वरी कौमारी अपराजिता
वाराही नारसिंहिका चेत्यष्टपत्रगाः ।
षोडशस्वरभेदेन प्रथमेन मन्त्रविभागः ।
तन्मूलेनावाहनं तेनैव पूजनम् ।
स पाप्मानं हन्ति । स ब्रह्मत्वं भजति । सः अमृतत्वं भजति ।
स आयुरारोग्यमैश्वर्यं भजति ।
सदा पञ्चमकारेण पूजयेत् । सदा गुरुभक्तो भवेत् । सदा देवभक्तो भवेत् ।
धर्मिष्ठतां पुष्टिमहतवाचं विप्रा लभन्ते ।
मन्त्रजापिनो ह्यात्मा विद्याप्रपूरितो भवति ।
स जीवन्मुक्तो भवति । स सर्वशास्त्रं जानाति ।
स सर्वपुण्यकारी भवति । स सर्वयज्ञयाजी भवति ।
राजानो दासतां यान्ति ।
जीवन्मुक्तः स विज्ञेयो यस्मै लब्धा हि दक्षिणा ॥
अथ हैके यज्ञान् कामानद्वैतज्ञानादीननिरुद्धसरस्वतीति ।
अथ हैषः कालिकामनुजापी यः सदा शुद्धात्मा ज्ञानवैराग्ययुक्तः
शाम्भवीदीक्षासु रक्तः शाक्तासु ।
यदि वा ब्रह्मचारी रात्रौ नग्नः सर्वदा मधुनाऽशक्तो मनसा जपपूजादिनियमवान् ।
सर्वदा कालिकारूपमात्मानं विभावयेत् ।
स सर्वदा योषिदासक्तो भवेत् ।
स सर्वहत्यां तरति तेन मधुदानेन ।
नान्यः परमः पन्था विद्यते मोक्षाय ज्ञानाय धर्माधर्माय ।
तत्सर्वं भूतं भव्यं यत्किञ्चिद्दृश्यमानं स्थावरजङ्गमं
तत्सर्वं कालिकातन्त्रे ओतं प्रोतं वेद ।
स भ्रूणहत्यां तरति । सोऽगम्यागमनं तरति ।
स सर्वसुखमाप्नोति । स सर्वं जानाति ।
स सर्वसंन्यासी भवति । स विरक्तो भवति ।
स सर्ववेदाध्यायी भवति । स सर्वमन्त्रजापी भवति ।
स सर्वशास्रवेत्ता भवति । स सर्वज्ञानकारी भवति ।
स आवयोर्मित्रभूतो भवति ।
इत्याह भगवान् शिवः । निर्विकल्पेन मनसा स वन्द्यो भवति ॥
मूलाधारे स्मरेद्दिव्यं त्रिकोणं तेजसां निधिम् ।
शिखा आनीय तस्याग्नेरथ तूर्ध्वं व्यवस्थिता ॥
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
इति कुण्डलिनीं ध्यात्वा सर्वपापैः प्रमुच्यते ॥
॥ विनियोग ॥
महाकालभैरवोऽस्य ऋषिः । उष्णिक् छन्दः कालिका देवता ।
ह्रीं बीजं ह्रूं शक्तिः क्रीं कीलकं अनिरुद्धसरस्वती देवता ।
कवित्वे पाण्डित्यार्थे जपे विनियोगः ।
अथर्वविद्यां प्रथममेकं द्वयं त्रयं वा नामद्वयसम्पुटितं कृत्वा योजयेत् ।
गतिस्तस्यास्तीति । नान्यस्य गतिरस्तीति ।
मन्त्रराजं गुरुस्तमपि शिष्याय सत्कुलीनाय विद्याभक्ताय
सुवेषां स्त्रियं स्पृष्ट्वा स्वयं निशायां निरुपद्रवः परिपूज्य
एकाकी शिवगेहे लक्षं तदर्धं वा जपित्वा दद्यात् ।
ॐ ॐ ॐ सत्यं सत्यं सत्यम् ।
नान्यप्रकारेण सिद्धिर्भवति ।
स्वरूपसिद्धिरेवमिति शिवम् ॥
