व्यास उवाच ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ 43 ॥
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ 44 ॥
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ 45 ॥
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ 46 ॥
न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ 47 ॥
स सोढोऽयं वरो दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥ 48 ॥
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ 49 ॥
