Lord Krishna

कृष्णाष्टकम्

(Krishna Ashtakam)

Also known as krishna ashtakam telugu · sriyaslisto visnu sthiracaravapurvedavisayo dhiyam saksi suddho

An ashtakam to Krishna as Vishnu embraced by Shri — the witness of all minds, holder of mace, conch and discus, wearer of the forest garland, refuge of those who seek refuge.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।
गदी शंखी चक्री विमलवनमाली स्थिररुचिः शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ।। 1।।
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।
लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः । शरण्यो. ।।2।।
असूनायम्यादौ यमनियममुख्यैः सुकरणैर्निरुध्येदं चित्तं हृदि विमलमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ । शरण्यो. ।।3।।
पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ । शरण्यो. ।।4।।
महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।
कवित्वादेर्गर्वं परिहरति योऽसौ विजयिनः । शरण्यो. ।।5।।
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः । शरण्यो. ।।6।।
नरातंकोत्तंकः शरणशरणो भ्रान्तिहरणो घनश्यामः कामो व्रजशिशुवयस्योऽर्जुनसखः ।
स्वयम्भूर्भूतानां जनक उचिताचारसुखदः । शरण्यो. ।।7।।
यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी तदा लोकस्वामी प्रकटितवपुः सेतुधृगजः ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः । शरण्यो ।।8।।
इति हरिरखिलात्माराधितः शंकरेण श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः ।
यतिवरनिकटे श्रीयुक्त आविर्बभूव स्वगुणवृत उदारः शंखचक्राब्जहस्तः ।।9।।

Explore More