महामायां जगद्धात्रीं चण्डिकाङ् लोकधारिणीम् ।
प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥ २१॥
नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ।
प्रणमामि सदासिद्धां शुभसारसमालिनीम् ॥ २२॥
मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ।
आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥ २३॥
सा त्वं बन्धच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः ।
हिंसाया वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥ २४॥
नित्यानित्यैर्भावहीनैः परास्तैस्तत्तन्मात्रैर्योज्यते भूतवर्गः ।
तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था ॥ २५॥
योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् ।
यथा वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः ॥ २६॥
त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहुचन्द्रिका या तां त्वामहं स्तौमि नमामि चण्डीम् ॥ २७॥
योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां धाया च त्वं यथा हरेः ॥ २८॥
या चेष्टरूपाणि विधाय देवी सृष्टिस्थितानाशमयी च कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुस्सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २९॥
॥ इति शिवपुराणे रुद्रसंहितायां पार्वतीखण्डे पञ्चमाध्यायान्तर्गतं मेनया कृतं कालिकास्तोत्रं समापतम् ॥