॥ अथ मुक्तामयपञ्चदशप्राकारस्थितदण्डिनीवाराहीध्यानम् ॥
अथ मुक्ताख्यसालस्यान्तरे मारुतयोजने ।
सालोन्मरकताभिख्यश्चतुर्योजनमुच्छ्रतः ॥ १ ॥
पूर्ववद्गोपुरादीनां संस्थानैश्च सुशोभितः ।
सर्वाः स्थालीर्मरकतश्रेणिभिः खचिताः शुभाः ॥ २ ॥
हेमतालवनाढ्या च सर्ववस्तुसमाकुला ।
तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः ॥ ३ ॥
चत्त्वारो निलयाः प्रोक्ताः मन्त्रिणीगृहविस्तृताः ।
किरिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः ॥ ४ ॥
भण्डासुरमहायुद्धे ता देव्यस्तत्र जाग्रति ।
जम्भिन्याद्याः चक्रदेव्यो हेतुकांश्चैव भैरवाः ॥ ५ ॥
सप्त निग्रहदेव्याश्च नृत्यन्ति मदविह्वलाः ।
चतुर्विदिक्षु दण्डिन्या यत्र यत्र महद्गृहम् ॥ ६ ॥
तत्रपूर्वादिदिग्भागे देवीसदृशवर्चसः ।
उन्मत्तभैरवी चैव स्वप्नेशी च तिरस्कृतिः ॥ ७ ॥
तथा किरीटिनी देवी सेवन्ते दण्डनायिकाम् ।
एषकक्ष्या मरकतप्रकृतिः सर्वतो दिशः ॥ ८ ॥
निवासो दण्डनाथायाः केवलं त्वाभिमानिकः ।
दण्डनाथा तत्र देवि शतस्तम्भाढ्यमण्डपे ॥ ९ ॥
कार्तस्वरमयाम्भोजकर्णिकामध्यसंस्थितम् ।
बिन्दुत्रिकोणवृत्ताढ्यं षड्दलवृत्तयुग्मकम् ॥ १० ॥
चक्रं विराजिते तत्र तप्तकाञ्चनसन्निभा ।
सन्ध्यारुणलसच्चेला सर्वाभरणमण्डिता ॥ ११ ॥
शङ्खचक्राभयवरान् हलं च मुसलं तथा ।
पाशाङ्कुशौ च दधती चन्द्ररेखावतंसिनी ।
वाराहवक्त्रसंयुक्ता दण्डिनी तत्र वर्तते ॥ १२ ॥
अस्य मुक्तामयदुर्गस्य पुरःस्थामरकतमयदुर्गस्य च अन्तरालभूतपञ्चदश्याः कक्ष्यायाः सुवर्णमयतालवणे किरिचक्रासने रथस्थदेवताभिः किरिचक्रासने दण्डिनीर्भूता वाराहीदेवी परिवारेण च समं निजायुधानि धृत्वा रक्षिका भूत्वास्ते ॥ १३ ॥
॥ इति मुक्तामयपञ्चदशप्राकारस्थितदण्डिनीवाराहीध्यानं सम्पूर्णम् ॥