नास॑दासी॒न्नो सदा॑सीत्त॒दानी॒-न्नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा॑सी॒द्गह॑न-ङ्गभी॒रम् ॥ 1 ॥
आनी॑दवा॒तं स्व॒धया॒ तदेक॒-न्तस्मा॑द्धा॒न्यन्न प॒रः कि-ञ्च॒नास॑ ॥ 2 ॥
तु॒च्छ्येना॒भ्वपि॑हितं॒-यँदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैक॑म् ॥ 3 ॥
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ 4 ॥
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥ 5 ॥
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥ 6 ॥
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ 7 ॥
