Lord Vishnu

पुरुष सूक्तम्

(Purush Suktam)

Also known as om taccham yoravrnimahe gatum yajnaya

The Purusha Suktam, the Rigvedic hymn to the cosmic Purusha from whose sacrifice the worlds, the Vedas and the orders of society arose. Recited in almost every major Vedic rite.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

|| श्री गणेशाय नमः ||
ॐ तच्छं योरावृणीमहे | गातुं यज्ञाय |
गातुं यज्ञपतये |
दैवी स्वस्तिरस्तु नः | स्वस्तिर्मानुषेभ्यः |
ऊर्ध्वं जिगातु भेषजम् |
शं नो अस्तु द्विपदे | शं चतुष्पदे ||
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् |
स भूमिं विश्वतो वृत्वाऽत्यतिष्ठ्द्दड्गुलम् || १ ||
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् |
उतामृतत्वस्येशानो यद्न्नेनातिरोहति || २ ||
एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः |
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि || ३ ||
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः |
ततो विष्वड्व्यक्रामत्साशनानशने अभि || ४ ||
तस्माद्विराळजायत विराजो अधिपूरुषः |
स जातो अत्यरिच्यत पश्चाभ्दूमिमथो पुरः || ५ ||
यत्पुरुषेण हविषा देवा यज्ञमतन्वत |
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः || ६ ||
तं यज्ञं बहिर्षि प्रौक्षन्पुरुषं जातमग्रतः |
तेन देवा अयजन्त साध्या ऋषयश्च ये || ७ ||
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् |
पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये || ८ ||
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे |
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत || ९ ||
तस्मादश्वा अजायन्त ये के चोभयादतः |
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः || १० ||
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् |
मुखं किमस्य कौ बाहू का ऊरु पादा उच्येते || ११ ||
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः |
ऊरुतदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत || १२ ||
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत |
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत || १३ ||
नाभ्या आसीदन्तरिक्षं शीर्षणो द्यौः समवर्तत |
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँअकल्पयन् || १४ ||
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः |
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् || १५ ||
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || १६ ||

Explore More