Lord Shiva

द्वादशज्योतिर्लिङ्गानि

(Dwadasa Jyotirlinga Stotram)

Traditional

The Dwadasa Jyotirlinga Stotram is a sacred hymn that lists the twelve principal Jyotirlingas (radiant signs of the Almighty Lord Shiva) located across India. Reciting their names daily is believed to cleanse one of all sins and grant liberation.

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥ (घृष्णेशं, घृसृणेशं)
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति ।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥
इति द्वादशज्योतिर्लिङ्गानि ।

Explore More