॥ ॐ नमः शिवाय ॥
॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥
॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ १॥
- महिम्नः (mahimnaḥ)of greatness
- पारं (pāraṃ)limit
- ते (te)your
- परमविदुषः (paramaviduṣaḥ)of the supreme wise (parama:supreme | viduṣaḥ:of the wise)
- यत् (yat)which
- असदृशी (asadṛśī)inadequate
- स्तुतिः (stutiḥ)praise
- ब्रह्मादीनाम् (brahmādīnām)of Brahma and others (brahma:Brahma | ādīnām:and others)
- अपि (api)even
- तत् (tat)that
- अवसन्नाः (avasannāḥ)unable
- त्वयि (tvayi)in you
- गिरः (giraḥ)words
- अथ (atha)then
- अवाच्यः (avācyaḥ)ineffable
- सर्वः (sarvaḥ)all
- स्वमतिपरिणामावधि (svamatipariṇāmāvadhi)to the extent of one's intellect (sva:one's own | mati:intellect | pariṇāma:extent | avadhi:limit)
- गृणन् (gṛṇan)praising
- मम (mama)my
- अपि (api)also
- एषः (eṣaḥ)this
- स्तोत्रे (stotre)in the hymn
- हर (hara)O Hara (Shiva)
- निरपवादः (nirapavādaḥ)blameless
- परिकरः (parikaraḥ)support
अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥
- अतीतः (atītaḥ)beyond
- पंथानं (paṃthānam)path
- तव (tava)your
- च (ca)and
- महिमा (mahimā)greatness
- वाङ्मनसयोः (vāṅmanasayoḥ)of speech and mind (vāk:speech | manasayoḥ:of mind)
- अतद्व्यावृत्त्या (atadvyāvṛttyā)by negation (a:not | tad:that | vyāvṛttyā:by exclusion)
- यं (yaṃ)whom
- चकितम् (cakitam)astonished
- अभिधत्ते (abhidhatte)describes
- श्रुतिः (śrutiḥ)Vedas
- अपि (api)also
- स (sa)he
- कस्य (kasya)whose
- स्तोतव्यः (stotavyaḥ)to be praised
- कतिविधगुणः (katividhaguṇaḥ)of how many qualities (kati:how many | vidha:types | guṇaḥ:qualities)
- कस्य (kasya)whose
- विषयः (viṣayaḥ)subject
- पदे (pade)in the state
- तु (tu)but
- अर्वाचीने (arvācīne)in the present
- पतति (patati)falls
- न (na)not
- मनः (manaḥ)mind
- कस्य (kasya)whose
- न (na)not
- वचः (vacaḥ)speech
मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ ३॥
- मधुस्फीता (madhusphītā)sweet as honey (madhu:honey | sphītā:swollen, abundant)
- वाचः (vācaḥ)speech
- परमममृतं (paramamamṛtaṃ)highest nectar (parama:highest | amṛtaṃ:nectar)
- निर्मितवतः (nirmitavataḥ)created by
- तव (tava)your
- ब्रह्मन् (brahman)O Brahman
- किं (kiṃ)what
- वाक् (vāk)speech
- अपि (api)even
- सुरगुरोः (suraguroḥ)of the guru of gods (sura:gods | guroḥ:of the guru)
- विस्मयपदम् (vismayapadam)cause of wonder (vismaya:wonder | padam:cause)
- मम (mama)my
- तु (tu)but
- एतां (etāṃ)this
- वाणीं (vāṇīṃ)speech
- गुणकथनपुण्येन (guṇakathanapuṇyena)by virtue of praising qualities (guṇa:qualities | kathana:praising | puṇyena:by virtue of)
- भवतः (bhavataḥ)of you
- पुनामी (punāmī)purify
- इति (iti)thus
- अर्थे (arthe)for the purpose
- अस्मिन् (asmin)in this
- पुरमथन (puramathana)destroyer of cities (pura:cities | mathana:destroyer)
- बुद्धिः (buddhiḥ)intellect
- व्यवसिता (vyavasitā)determined
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥
- तवैश्वर्यं (tavaiśvaryaṃ)your greatness (tava:your | aiśvaryaṃ:greatness)
- यत् (yat)which
- तत् (tat)that
- जगत् (jagat)universe
- उदय (udaya)creation
- रक्षा (rakṣā)maintenance
- प्रलय (pralaya)destruction
- कृत् (kṛt)cause
- त्रयीवस्तु (trayīvastu)supported by three Vedas (trayī:three Vedas | vastu:supported by)
- व्यस्तं (vyastaṃ)distributed
- तिस्रुषु (tisruṣu)in the three
- गुण (guṇa)qualities
- भिन्नासु (bhinnāsu)divided
- तनुषु (tanuṣu)bodies
- अभव्यानाम् (abhavyānām)of the unworthy
- अस्मिन् (asmin)in this
- वरद (varada)O, Giver of Boons
- रमणीयाम् (ramaṇīyām)delightful
- अरमणीं (aramaṇīṃ)undelightful
- विहन्तुं (vihantuṃ)to destroy
- व्याक्रोशीं (vyākrośīṃ)slander
- विदधत (vidadhata)doing
- इह (iha)here
- एके (eke)some
- जडधियः (jaḍadhiyaḥ)stupid persons (jaḍa:stupid | dhiyaḥ:persons)
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ॥ ५॥
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ॥ ५॥
- किम् (kim)what
- ईहः (īhaḥ)effort
- किम् (kim)what
- कायः (kāyaḥ)body
- स (sa)he
- खलु (khalu)indeed
- किम् (kim)what
- उपायः (upāyaḥ)means
- त्रिभुवनम् (tribhuvanam)three worlds (tri:three | bhuvanam:worlds)
- किम् (kim)what
- आधारः (ādhāraḥ)basis
- धाता (dhātā)creator
- सृजति (sṛjati)creates
- किम् (kim)what
- उपादान (upādāna)resources
- इति (iti)thus
- च (ca)and
- अतर्क्य (atarkya)incomprehensible
- ऐश्वर्ये (aiśvarye)in majesty
- त्वयि (tvayi)in you
- अनवसर (anavasara)without opportunity
- दुःस्थः (duḥsthaḥ)disturbed
- हतधियः (hatadhiyaḥ)of confused mind
- कुतर्कः (kutarkaḥ)false argument
- अयम् (ayam)this
- कांश्चित् (kāṃścit)some
- मुखरयति (mukharayati)makes vocal
- मोहाय (mohāya)for delusion
- जगतः (jagataḥ)of the world
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
- अजन्मानः (ajanmānaḥ)unborn
- लोकाः (lokāḥ)worlds
- किम् (kim)whether
- अवयववन्तः (avayavavantaḥ)having parts (avayava:parts | vantaḥ:having)
- अपि (api)also
- जगताम् (jagatām)of the worlds
- अधिष्ठातारम् (adhiṣṭhātāram)ruler
- किम् (kim)whether
- भवविधिः (bhavavidhiḥ)creation process (bhava:existence | vidhiḥ:process)
- अनादृत्य (anādṛtya)disregarding
- भवति (bhavati)becomes
- अनीशः (anīśaḥ)powerless
- वा (vā)or
- कुर्यात् (kuryāt)would do
- भुवनजनने (bhuvanajanane)in world creation (bhuvana:world | janane:creation)
- कः (kaḥ)who
- परिकरः (parikaraḥ)means
- यतः (yataḥ)from which
- मन्दाः (mandāḥ)fools
- त्वाम् (tvām)you
- प्रति (prati)towards
- अमरवर (amaravara)best of the gods (amara:immortal | vara:best)
- संशेरते (saṃśerate)doubt
- इमे (ime)these
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥
- त्रयी (trayī)threefold
- साङ्ख्यम् (sāṅkhyam)Sankhya philosophy
- योगः (yogaḥ)Yoga
- पशुपतिमतम् (paśupatimataṃ)Pashupata doctrine (paśupati:Lord of creatures | matam:doctrine)
- वैष्णवम् (vaiṣṇavam)Vaishnava doctrine
- इति (iti)thus
- प्रभिन्ने (prabhinne)divided
- प्रस्थाने (prasthāne)in paths
- परम् (param)supreme
- इदम् (idam)this
- अदः (adaḥ)that
- पथ्यम् (pathyam)suitable
- इति (iti)thus
- च (ca)and
- रुचीनाम् (rucīnām)of tastes
- वैचित्र्यात् (vaicitryāt)due to variety
- ऋजुकुटिल (ṛjukuṭila)straight and crooked (ṛju:straight | kuṭila:crooked)
- नानापथजुषाम् (nānāpathajuṣām)of various path followers (nānā:various | patha:path | juṣām:followers)
- नृणाम् (nṛṇām)of people
- एकः (ekaḥ)one
- गम्यः (gamyaḥ)destination
- त्वम् (tvam)you
- असि (asi)are
- पयसाम् (payasām)of waters
- अर्णवः (arṇavaḥ)ocean
- इव (iva)like
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥
- महोक्षः (mahokṣaḥ)the bull
- खट्वाङ्गं (khaṭvāṅgaṃ)parts of a cot
- परशु (paraśu)chisel
- अजिनं (ajinaṃ)elephant-skin
- भस्म (bhasma)ashes
- फणिनः (phaṇinaḥ)of the serpent
- कपालं (kapālaṃ)the skull
- च (ca)and
- इति (iti)thus
- यत् (yat)which
- तव (tava)your
- वरद (varada)Giver of the Boons
- तन्त्र (tantra)articles
- उपकरणम् (upakaraṇam)household
- सुराः (surāḥ)gods
- ताम् (tām)that
- ताम् (tām)that
- ऋद्धिं (ṛddhiṃ)riches
- दधति (dadhati)get
- तु (tu)but
- भवत् (bhavat)your
- भू (bhū)earth
- प्रणिहितां (praṇihitāṃ)by movement
- न (na)not
- हि (hi)indeed
- स्वात्मारामं (svātmārāmaṃ)absorbed in his soul (sva:own | ātma:soul | ārāmaṃ:absorbed)
- विषय (viṣaya)worldly things
- मृगतृष्णा (mṛgatṛṣṇā)false desires
- भ्रमयति (bhramayati)mislead
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥
- ध्रुवं (dhruvam)eternal
- कश्चित् (kaścit)some
- सर्वं (sarvam)all
- सकलम् (sakalam)entire
- अपरः (aparaḥ)another
- तु (tu)but
- अध्रुवम् (adhruvam)temporary
- इदं (idaṃ)this
- परः (paraḥ)another
- ध्रौव्ये (dhrauvye)eternal
- अध्रौव्ये (adhrauvye)temporary
- जगति (jagati)in the world
- गदति (gadati)speaks
- व्यस्तविषये (vyastaviṣaye)in contradictory subjects (vyasta:contradictory | viṣaye:in subjects)
- समस्ते (samaste)in all
- अपि (api)even
- एतस्मिन् (etasmin)in this
- पुरमथन (puramathana)Destroyer of Cities (pura:cities | mathana:destroyer)
- तैः (taiḥ)by them
- विस्मित (vismita)astonished
- इव (iva)as if
- स्तुवन् (stuvan)praising
- जिह्रेमि (jihremi)I am ashamed
- त्वां (tvāṃ)you
- न (na)not
- खलु (khalu)indeed
- ननु (nanu)certainly
- धृष्टा (dhṛṣṭā)bold
- मुखरता (mukharatā)loquacity
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०॥
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०॥
- तवैश्वर्यं (tavaiśvaryam)your greatness (tava:your | aiśvaryam:greatness)
- यत्नात् (yatnāt)by effort
- यदुपरि (yadupari)above which (yat:which | upari:above)
- विरिञ्चिः (viriñciḥ)Brahma
- हरिः (hariḥ)Vishnu
- अधः (adhaḥ)below
- परिच्छेतुं (paricchetuṃ)to measure
- यातौ (yātau)went
- अनिल (anila)wind
- अनल (anala)fire
- स्कन्धवपुषः (skandhavapuṣaḥ)having a body like a column (skandha:column | vapuṣaḥ:of body)
- ततः (tataḥ)then
- भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां (bhaktiśraddhā-bharaguru-gṛṇadbhyām)by those filled with devotion and faith (bhakti:devotion | śraddhā:faith | bhara:filled with | guru:heavy | gṛṇadbhyām:by those praising)
- गिरिश (giriśa)O mountain-dweller
- यत् (yat)which
- स्वयं (svayam)yourself
- तस्थे (tasthe)stood
- ताभ्यां (tābhyām)by them
- तव (tava)your
- किमनुवृत्तिः (kimanuvṛttiḥ)does not following (kim:does not | anuvṛttiḥ:following)
- न (na)not
- फलति (phalati)bear fruit
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् ।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११॥
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् ।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ ११॥
- अयत्नात् (ayatnāt)effortlessly
- आसाद्य (āsādya)having achieved
- त्रिभुवनम् (tribhuvanam)three worlds (tri:three | bhuvanam:worlds)
- अवैरव्यतिकरम् (avairavyatikaram)enemyless (avaira:without enemies | vyatikaram:conflict)
- दशास्यः (daśāsyaḥ)ten-headed (daśa:ten | āsyaḥ:headed)
- यत् (yat)whose
- बाहून् (bāhūn)arms
- अभृत (abhṛta)bearing
- रणकण्डू (raṇakaṇḍū)itch for battle (raṇa:battle | kaṇḍū:itch)
- परवशान् (paravaśān)subdued
- शिरःपद्मश्रेणी (śiraḥpadmaśreṇī)garland of lotus heads (śiraḥ:heads | padma:lotus | śreṇī:garland)
- रचित (racita)made
- चरणाम्भोरुह (caraṇāmbhoruha)lotus feet (caraṇa:feet | ambhoruha:lotus)
- बलेः (baleḥ)strength
- स्थिरायाः (sthirāyāḥ)steadfast
- त्वद्भक्तेः (tvadbhakteḥ)your devotion (tvad:your | bhakteḥ:devotion)
- त्रिपुरहर (tripurahara)destroyer of three cities (tri:three | pura:cities | hara:destroyer)
- विस्फूर्जितम् (visphūrjitam)manifestation
- इदम् (idam)this
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥ १२॥
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥ १२॥
- अमुष्य (amuṣya)of him
- त्वत्सेवा-समधिगतसारं (tvatsevā-samadhigatasāraṃ)obtained essence through serving you (tvat:your | sevā:service | samadhigata:obtained | sāraṃ:essence)
- भुजवनं (bhujavanaṃ)strength of arms (bhuja:arm | vanaṃ:forest/strength)
- बलात् (balāt)by force
- कैलासेऽपि (kailāse'pi)even at Kailasa (kailāse:at Kailasa | api:even)
- त्वदधिवसतौ (tvadadhivasatau)at your dwelling (tvad:your | adhivasatau:dwelling)
- विक्रमयतः (vikramayataḥ)of the one exerting
- अलभ्यापातालेऽपि (alabhyāpātāle'pi)even in unreachable nether-world (alabhya:unreachable | pātāle:in nether-world | api:even)
- अलसचलितांगुष्ठशिरसि (alasacalitāṃguṣṭhaśirasi)on the moved toe head (alasa:moved | calita:moved | aṅguṣṭha:toe | śirasi:on the head)
- प्रतिष्ठा (pratiṣṭhā)established
- त्वय्यासीद् (tvayyāsīd)was in you (tvayi:in you | āsīt:was)
- ध्रुवम् (dhruvam)surely
- उपचितो (upacito)accumulated
- मुह्यति (muhyati)bewildered
- खलः (khalaḥ)wicked person
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३॥
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३॥
- यदृद्धिं (yadṛddhiṃ)that prosperity
- सुत्राम्णः (sutrāmṇaḥ)of Indra
- वरद (varada)Oh boon-giver
- परमोच्चैः (paramoccaiḥ)extremely high
- अपि (api)even
- सतीम् (satīm)existing
- अधःचक्रे (adhaścakre)made lower
- बाणः (bāṇaḥ)BaaNa
- परिजनविधेयत्रिभुवनः (parijanavidheyatribhuvanaḥ)serving three worlds with attendants (parijana:attendants | vidheya:obedient | tribhuvanaḥ:three worlds)
- न (na)not
- तत् (tat)that
- चित्रम् (citram)surprising
- तस्मिन् (tasmin)in him
- वरिवसितरि (varivasitari)dwelling
- त्वच्चरणयोः (tvaccaraṇayoḥ)in your feet (tvat:your | caraṇayoḥ:feet)
- न (na)not
- कस्यापि (kasyāpi)of anyone
- उन्नत्यै (unnatyai)for elevation
- भवति (bhavati)becomes
- शिरसः (śirasaḥ)of the head
- त्वयि (tvayi)to you
- अवनतिः (avanatiḥ)bowing
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः ॥ १४॥
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः ॥ १४॥
- अकाण्ड (akāṇḍa)uninterrupted
- ब्रह्माण्ड (brahmāṇḍa)universe
- क्षयचकित (kṣayacakita)fearful of destruction (kṣaya:destruction | cakita:fearful)
- देवासुरकृपा (devāsurakṛpā)compassion for gods and demons (deva:gods | asura:demons | kṛpā:compassion)
- विधेयस्य (vidheyasya)of the obedient
- आसीत् (āsīt)was
- यः (yaḥ)who
- त्रिनयन (trinayana)three-eyed (tri:three | nayana:eye)
- विषं (viṣaṃ)poison
- संहृतवतः (saṃhṛtavataḥ)who consumed
- स (sa)that
- कल्माषः (kalmāṣaḥ)stain
- कण्ठे (kaṇṭhe)in the throat
- तव (tava)your
- न (na)not
- कुरुते (kurute)does
- न (na)not
- श्रियम् (śriyam)beauty
- अहो (aho)indeed
- विकारः (vikāraḥ)deformity
- अपि (api)even
- श्लाघ्यः (ślāghyaḥ)praiseworthy
- भुवन (bhuvana)world
- भय (bhaya)fear
- भङ्ग (bhaṅga)removal
- व्यसनिनः (vyasaninaḥ)engaged in
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥
- असिद्धार्थाः (asiddhārthāḥ)unaccomplished
- न (na)not
- एव (eva)indeed
- क्वचित् (kvacit)anywhere
- अपि (api)even
- सदेव-असुर-नरे (sadeva-asura-nare)with gods, demons, men (sadeva:with gods | asura:demons | nare:men)
- निवर्तन्ते (nivartante)return
- नित्यं (nityaṃ)always
- जगति (jagati)in the world
- जयिनः (jayinaḥ)victorious
- यस्मिन् (yasmin)whose
- विशिखाः (viśikhāḥ)arrows
- सः (saḥ)he
- पश्यन् (paśyan)seeing
- ईश (īśa)O Lord
- त्वाम् (tvām)you
- इतर-सुर-साधारणम् (itara-sura-sādhāraṇam)ordinary among other gods (itara:other | sura:gods | sādhāraṇam:ordinary)
- अभूत् (abhūt)became
- स्मरः (smaraḥ)Cupid
- स्मर्तव्य-आत्मा (smartavya-ātmā)remembered soul (smartavya:remembered | ātmā:soul)
- न (na)not
- हि (hi)indeed
- वशिषु (vaśiṣu)among the controlled
- पथ्यः (pathyaḥ)beneficial
- परिभवः (paribhavaḥ)insult
मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥
- मही (mahī)earth
- पादाघातात् (pādāghātāt)from the strike of feet (pāda:feet | āghātāt:from the strike)
- व्रजति (vrajati)goes
- सहसा (sahasā)suddenly
- संशयपदं (saṃśayapadaṃ)state of doubt (saṃśaya:doubt | padam:state)
- पदं (padam)state
- विष्णोः (viṣṇoḥ)of Vishnu
- भ्राम्यद् (bhrāmyad)whirling
- भुज-परिघ-रुग्ण-ग्रह-गणम् (bhuja-parigha-rugṇa-graha-gaṇam)group of planets struck by arms (bhuja:arms | parigha:mace-like | rugṇa:struck | graha:planets | gaṇam:group)
- मुहुः (muhuḥ)repeatedly
- द्यौः (dyauḥ)heaven
- दौस्थ्यं (dausthyaṃ)misery
- याति (yāti)goes
- अनिभृत-जटा-ताडित-तटा (anibhṛta-jaṭā-tāḍita-taṭā)banks struck by matted locks (anibhṛta:agitated | jaṭā:matted locks | tāḍita:struck | taṭā:banks)
- जगद्रक्षायै (jagadrakṣāyai)for protecting the world (jagat:world | rakṣāyai:for protecting)
- त्वं (tvaṃ)you
- नटसि (naṭasi)dance
- ननु (nanu)indeed
- वामैव (vāmaiva)strangely
- विभुता (vibhutā)glorious act
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥
- वियद्व्यापी (viyadvyāpī)pervading the sky (viyat:sky | vyāpī:pervading)
- तारा-गण-गुणित-फेनोद्गम-रुचिः (tārā-gaṇa-guṇita-phenodgama-ruciḥ)charm enhanced by star groups (tārā:stars | gaṇa:group | guṇita:enhanced | phena:foam | udgama:emergence | ruciḥ:charm)
- प्रवाहः (pravāhaḥ)flow
- वारां (vārāṃ)of waters
- यः (yaḥ)which
- पृषतलघुदृष्टः (pṛṣatalaghudṛṣṭaḥ)seen as a droplet (pṛṣata:droplet | laghu:small | dṛṣṭaḥ:seen)
- शिरसि (śirasi)on the head
- ते (te)your
- जगद्द्वीपाकारं (jagaddvīpākāraṃ)world-island form (jagat:world | dvīpa:island | ākāraṃ:form)
- जलधिवलयं (jaladhivalayaṃ)ocean circle (jaladhi:ocean | valayaṃ:circle)
- तेन (tena)by that
- कृतमिति (kṛtamiti)is made (kṛtam:made | iti:thus)
- अनेनैवोन्नेयं (anenaivonneyaṃ)by this itself inferred (anena:by this | eva:itself | unneyam:inferred)
- धृतमहिम (dhṛtamahima)bearing greatness (dhṛta:bearing | mahima:greatness)
- दिव्यं (divyaṃ)divine
- तव (tava)your
- वपुः (vapuḥ)form
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥
- रथः (rathaḥ)chariot
- क्षोणी (kṣoṇī)earth
- यन्ता (yantā)charioteer
- शतधृतिः (śatadhṛtiḥ)Brahma
- अगेन्द्रः (agendraḥ)Meru mountain
- धनुः (dhanuḥ)bow
- अथ (atha)then
- रथाङ्गे (rathāṅge)parts of the chariot (ratha:chariot | aṅge:parts)
- चन्द्रार्कौ (candrārkau)moon and sun (candra:moon | arka:sun)
- रथ-चरण-पाणिः (ratha-caraṇa-pāṇiḥ)chariot-wheel holder (ratha:chariot | caraṇa:wheel | pāṇiḥ:holder)
- शरः (śaraḥ)arrow
- इति (iti)thus
- दिधक्षोः (didhakṣoḥ)desiring to burn
- ते (te)your
- कः (kaḥ)what
- अयम् (ayam)this
- त्रिपुरतृणम् (tripuratṛṇam)three cities as grass (tripura:three cities | tṛṇam:grass)
- आडम्बर (āḍambara)demonstrative show
- विधिः (vidhiḥ)method
- विधेयैः (vidheyaiḥ)by subordinates
- क्रीडन्त्यः (krīḍantyaḥ)playing
- न (na)not
- खलु (khalu)indeed
- परतन्त्राः (paratantrāḥ)dependent
- प्रभुधियः (prabhudhiyaḥ)minds of the lord (prabhu:lord | dhiyaḥ:minds)
हरिस्ते साहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९॥
- हरिः (hariḥ)Vishnu
- ते (te)your
- साहस्रं (sāhasraṃ)thousand
- कमल (kamala)lotuses
- बलिम् (balim)offering
- आधाय (ādhāya)having placed
- पदयोः (padayoḥ)at the feet
- यत् (yat)which
- एकोने (ekone)one less
- तस्मिन् (tasmin)in that
- निजम् (nijam)own
- उदहरन् (udaharan)uttering
- नेत्रकमलम् (netrakamalam)eye as lotus (netra:eye | kamalam:lotus)
- गतः (gataḥ)gone
- भक्त्युद्रेकः (bhaktyudrekaḥ)intense devotion (bhakti:devotion | udrekaḥ:intensity)
- परिणतिम् (pariṇatim)transformation
- असौ (asau)this
- चक्रवपुषः (cakravapuṣaḥ)form of a wheel (cakra:wheel | vapuṣaḥ:form of)
- त्रयाणां (trayāṇāṃ)of the three
- रक्षायै (rakṣāyai)for protection
- त्रिपुरहर (tripurahara)destroyer of Tripura (tri:three | pura:cities | hara:destroyer)
- जागर्ति (jāgarti)awakens
- जगताम् (jagatām)of the worlds
क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ २०॥
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ २०॥
- क्रतौ (kratau)in the sacrifice
- सुप्ते (supte)asleep
- जाग्रत् (jāgrat)awake
- त्वम् (tvam)you
- असि (asi)are
- फलयोगे (phalayoge)in the connection with results (phala:result | yoge:in the connection)
- क्रतुमतां (kratumatām)of the sacrificers (kratu:sacrifice | matām:of those having)
- क्व (kva)where
- कर्म (karma)action
- प्रध्वस्तं (pradhvastaṃ)destroyed
- फलति (phalati)bears fruit
- पुरुषाराधनमृते (puruṣārādhanamṛte)without worship of the Supreme (puruṣa:Supreme Person | ārādhana:worship | mṛte:without)
- अतः (ataḥ)therefore
- त्वां (tvāṃ)you
- सम्प्रेक्ष्य (samprekṣya)seeing
- क्रतुषु (kratuṣu)in sacrifices
- फलदान-प्रतिभुवं (phaladāna-pratibhuvaṃ)guarantor of fruit-giving (phala:fruit | dāna:giving | pratibhuvaṃ:guarantor)
- श्रुतौ (śrutau)in the Vedas
- श्रद्धां (śraddhāṃ)faith
- बध्वा (badhvā)having bound
- दृढपरिकरः (dṛḍhaparikaraḥ)firmly engaged (dṛḍha:firm | parikaraḥ:engaged)
- कर्मसु (karmasu)in actions
- जनः (janaḥ)people
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ २१॥
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ २१॥
- क्रियादक्षः (kriyādakṣaḥ)skilled in rituals (kriyā:rituals | dakṣaḥ:skilled)
- दक्षः (dakṣaḥ)Daksha
- क्रतुपतिः (kratupatiḥ)lord of sacrifices (kratu:sacrifice | patiḥ:lord)
- अधीशः (adhīśaḥ)supreme lord
- तनुभृताम् (tanubhṛtām)of embodied beings (tanu:body | bhṛtām:of those who bear)
- ऋषीणाम् (ṛṣīṇām)of sages
- आर्त्विज्यं (ārtvijyaṃ)priesthood
- शरणद (śaraṇada)O protector
- सदस्याः (sadasyāḥ)participants
- सुर-गणाः (sura-gaṇāḥ)groups of gods (sura:god | gaṇāḥ:groups)
- क्रतुभ्रंशः (kratubhraṃśaḥ)sacrifice destruction (kratu:sacrifice | bhraṃśaḥ:destruction)
- त्वत्तः (tvattaḥ)from you
- क्रतुफल-विधान-व्यसनिनः (kratuphala-vidhāna-vyasaninaḥ)obsessed with sacrifice results (kratu:sacrifice | phala:result | vidhāna:arrangement | vyasaninaḥ:obsessed)
- ध्रुवं (dhruvaṃ)certainly
- कर्तुं (kartuṃ)to perform
- श्रद्धा (śraddhā)faith
- विधुरम् (vidhuram)lacking
- अभिचाराय (abhicārāya)for counter-productive
- हि (hi)indeed
- मखाः (makhāḥ)sacrifices
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२॥
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२॥
- प्रजानाथं (prajānāthaṃ)Protector of beings (prajā:beings | nāthaṃ:protector)
- नाथ (nātha)O Lord
- प्रसभम् (prasabham)forcefully
- अभिकं (abhikaṃ)towards
- स्वां (svāṃ)own
- दुहितरं (duhitaraṃ)daughter
- गतं (gataṃ)went
- रोहिद् (rohid)female deer
- भूतां (bhūtāṃ)having become
- रिरमयिषुम् (riramayiṣum)desiring to enjoy
- ऋष्यस्य (ṛṣyasya)of a male deer
- वपुषा (vapuṣā)with the form
- धनुष्पाणेः (dhanuṣpāṇeḥ)with bow in hand (dhanuṣ:bow | pāṇeḥ:in hand)
- यातं (yātaṃ)went
- दिवम् (divam)to the sky
- अपि (api)even
- सपत्राकृतम् (sapatrākṛtam)made with wings (sa:with | patra:wings | ākṛtam:made)
- अमुम् (amum)him
- त्रसन्तं (trasantaṃ)frightened
- ते (te)by you
- अद्यापि (adyāpi)even today
- त्यजति (tyajati)leaves
- न (na)not
- मृगव्याधरभसः (mṛgavyādharabhasaḥ)hunter's force (mṛga:deer | vyādha:hunter | rabhasaḥ:force)
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३॥
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३॥
- स्वलावण्याशंसा (svalāvaṇyāśaṃsā)desire for own beauty (sva:own | lāvaṇya:beauty | āśaṃsā:desire)
- धृतधनुषम् (dhṛtadhanuṣam)holding the bow (dhṛta:holding | dhanuṣam:bow)
- अह्नाय (ahnāya)to the day
- तृणवत् (tṛṇavat)like grass
- पुरः (puraḥ)before
- प्लुष्टं (pluṣṭam)burnt
- दृष्ट्वा (dṛṣṭvā)having seen
- पुरमथन (puramathana)destroyer of cities (pura:cities | mathana:destroyer)
- पुष्पायुधम् (puṣpāyudham)flower-weaponed (puṣpa:flower | āyudham:weapon)
- अपि (api)even
- यदि (yadi)if
- स्त्रैणम् (straiṇam)womanly
- देवी (devī)goddess
- यमनिरत (yamanirata)engaged in control (yama:control | nirata:engaged)
- देहार्ध (dehārdha)half of the body (deha:body | ardha:half)
- घटनात् (ghaṭanāt)due to union
- अवैति (avaiti)considers
- त्वाम् (tvām)you
- अद्धा (addhā)certainly
- बत (bata)alas
- वरद (varada)boon-giver
- मुग्धा (mugdhā)deluded
- युवतयः (yuvatayaḥ)young women
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥
- श्मशानेषु (śmaśāneṣu)in the cremation grounds
- आक्रीडा (ākrīḍā)play
- स्मरहर (smarahara)destroyer of Cupid (smara:Cupid | hara:destroyer)
- पिशाचाः (piśācāḥ)ghosts
- सहचराः (sahacarāḥ)companions
- चिता-भस्मालेपः (citā-bhasmālepaḥ)smeared with ashes (citā:funeral pyre | bhasma:ashes | ālepaḥ:smeared)
- स्रगपि (sragapi)garland also (srag:garland | api:also)
- नृकरोटी-परिकरः (nṛkaroṭī-parikaraḥ)adorned with skulls (nṛ:human | karoṭī:skull | parikaraḥ:adorned)
- अमङ्गल्यम् (amaṅgalyam)inauspicious
- शीलं (śīlaṃ)character
- तव (tava)your
- भवतु (bhavatu)let it be
- नाम (nāma)indeed
- एवम् (evam)thus
- अखिलं (akhilaṃ)entirely
- तथापि (tathāpi)nevertheless
- स्मर्तॄणां (smartṝṇāṃ)of those who remember
- वरद (varada)boon giver
- परमं (paramaṃ)supreme
- मङ्गलम् (maṅgalam)auspiciousness
- असि (asi)you are
मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५॥
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ २५॥
- मनः (manaḥ)mind
- प्रत्यक् (pratyak)inward
- चित्ते (citte)in the consciousness
- सविधम् (savidham)together
- अविधाय (avidhāya)without placing
- आत्त (ātta)controlled
- मरुतः (marutaḥ)breaths
- प्रहृष्यद्रोमाणः (prahṛṣyadromāṇaḥ)with hair standing on end (prahṛṣyat:thrilled | romāṇaḥ:hair)
- प्रमद-सलिलोत्सङ्गति-दृशः (pramada-salilotsaṅgati-dṛśaḥ)eyes filled with tears of joy (pramada:joy | salila:water | utsaṅgati:overflowing | dṛśaḥ:eyes)
- यदालोक्य (yadālokya)having seen which
- आह्लादं (āhlādam)bliss
- ह्रद (hrada)lake
- इव (iva)like
- निमज्य (nimajya)immersed
- अमृतमये (amṛtamaye)in nectar (amṛta:nectar | maye:in)
- दधति (dadhati)hold
- अन्तः (antaḥ)within
- तत्त्वं (tattvam)truth
- किमपि (kimapi)something
- यमिनः (yaminaḥ)ascetics
- तत् (tat)that
- किल (kila)indeed
- भवान् (bhavān)you
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥ २६॥
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥ २६॥
- त्वम् (tvam)you
- अर्कः (arkaḥ)sun
- त्वम् (tvam)you
- सोमः (somaḥ)moon
- त्वम् (tvam)you
- असि (asi)are
- पवनः (pavanaḥ)air
- त्वम् (tvam)you
- हुतवहः (hutavahaḥ)fire
- त्वम् (tvam)you
- आपः (āpaḥ)water
- त्वम् (tvam)you
- व्योम (vyoma)sky
- त्वम् (tvam)you
- धरणिः (dharaṇiḥ)earth
- आत्मा (ātmā)self
- त्वम् (tvam)you
- इति (iti)thus
- च (ca)and
- परिच्छिन्नाम् (paricchinnām)limited
- एवम् (evam)thus
- त्वयि (tvayi)in you
- परिणता (pariṇatā)transformed
- बिभ्रति (bibhrati)bear
- गिरं (giraṃ)words
- न (na)not
- विद्मः (vidmaḥ)know
- तत्तत्त्वं (tattattvaṃ)that essence (tat:that | tattvaṃ:essence)
- वयम् (vayam)we
- इह (iha)here
- तु (tu)but
- यत् (yat)which
- त्वम् (tvam)you
- न (na)not
- भवसि (bhavasi)are
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७॥
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ २७॥
- त्रयीं (trayīṃ)threefold
- तिस्रः (tisraḥ)three
- वृत्तिः (vṛttiḥ)states
- त्रिभुवनम् (tribhuvanam)three worlds (tri:three | bhuvanam:worlds)
- अथ (atha)and
- त्रीन् (trīn)three
- अपि (api)also
- सुरान् (surān)gods
- अकाराद्यैः (akārādyaiḥ)beginning with 'a' (akāra:'a' | ādyaiḥ:beginning with)
- वर्णैः (varṇaiḥ)letters
- त्रिभिः (tribhiḥ)by three
- अभिदधत् (abhidadhat)expressing
- तीर्णविकृति (tīrṇavikṛti)transcending change (tīrṇa:transcending | vikṛti:change)
- तुरीयम् (turīyam)fourth state
- ते (te)your
- धाम (dhāma)abode
- ध्वनिभिः (dhvanibhiḥ)by sounds
- अवरुन्धान (avarundhāna)encompassing
- मणुभिः (maṇubhiḥ)by atoms
- समस्त-व्यस्तम् (samasta-vyastam)entire and distinct (samasta:entire | vyastam:distinct)
- त्वाम् (tvām)you
- शरणद (śaraṇada)grantor of refuge (śaraṇa:refuge | da:giver)
- गृणाति (gṛṇāti)praises
- ओम् (om)OM
- इति (iti)thus
- पदम् (padam)word
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ॥ २८॥
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ॥ २८॥
- भवः (bhavaḥ)Bhava
- शर्वः (śarvaḥ)Sharva
- रुद्रः (rudraḥ)Rudra
- पशुपतिः (paśupatiḥ)Pashupati
- अथ (atha)and
- उग्रः (ugraḥ)Ugra
- सहमहान् (sahamahān)Sahamahān
- तथा (tathā)also
- भीमेशानौ (bhīmeśānau)Bhima and Ishana (bhīma:Bhima | īśāna:Ishana)
- इति (iti)thus
- यद् (yad)which
- अभिधानाष्टकम् (abhidhānāṣṭakam)eightfold names (abhidhāna:names | aṣṭakam:eightfold)
- इदम् (idam)this
- अमुष्मिन् (amuṣmin)in this
- प्रत्येकं (pratyekaṃ)individually
- प्रविचरति (pravicarati)discusses
- देव (deva)O God
- श्रुतिः (śrutiḥ)Vedas
- अपि (api)also
- प्रियाय (priyāya)dear
- अस्मै (asmai)to this
- धाम्ने (dhāmne)abode
- प्रणिहित-नमस्यः (praṇihita-namasyaḥ)salutation offered (praṇihita:offered | namasyaḥ:salutation)
- अस्मि (asmi)I am
- भवते (bhavate)to you
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ २९॥
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ २९॥
- नमः (namaḥ)salutations
- नेदिष्ठाय (nediṣṭhāya)to the nearest
- प्रियदव (priyadava)forest-lover (priya:beloved | dava:forest)
- दविष्ठाय (daviṣṭhāya)to the farthest
- च (ca)and
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
- क्षोदिष्ठाय (kṣodiṣṭhāya)to the minutest
- स्मरहर (smarahara)destroyer of Cupid (smara:Cupid | hara:destroyer)
- महिष्ठाय (mahiṣṭhāya)to the biggest
- च (ca)and
- नमः (namaḥ)salutations
- नमो (namo)salutations
- वर्षिष्ठाय (varṣiṣṭhāya)to the oldest
- त्रिनयन (trinayana)three-eyed one (tri:three | nayana:eye)
- यविष्ठाय (yaviṣṭhāya)to the youngest
- च (ca)and
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
- सर्वस्मै (sarvasmai)to everything
- ते (te)to you
- तदिदम् (tadidam)this
- अतिसर्वाय (atisarvāya)beyond everything
- च (ca)and
- नमः (namaḥ)salutations
बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत् संहारे हराय नमो नमः ।
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३०॥
प्रबल-तमसे तत् संहारे हराय नमो नमः ।
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३०॥
- बहुल-रजसे (bahula-rajase)abundant in rajas (bahula:abundant | rajase:in rajas)
- विश्वोत्पत्तौ (viśvotpattau)in the creation of the world (viśva:world | utpattau:in creation)
- भवाय (bhavāya)to Bhava
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
- प्रबल-तमसे (prabala-tamase)strong in tamas (prabala:strong | tamase:in tamas)
- तत् (tat)that
- संहारे (saṃhāre)in destruction
- हराय (harāya)to Hara
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
- जन-सुखकृते (jana-sukhakṛte)for the happiness of people (jana:people | sukhakṛte:for happiness)
- सत्त्वोद्रिक्तौ (sattvodriktau)in the abundance of sattva (sattva:sattva | udriktau:in abundance)
- मृडाय (mṛḍāya)to Mṛḍa
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
- प्रमहसि (pramahasi)in the supreme
- पदे (pade)in the state
- निस्त्रैगुण्ये (nistraiguṇye)beyond three qualities (nis:beyond | trai:three | guṇye:qualities)
- शिवाय (śivāya)to Shiva
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥ ३१॥
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥ ३१॥
- कृश (kṛśa)thin
- परिणति (pariṇati)matured
- चेतः (cetaḥ)mind
- क्लेशवश्यम् (kleśavaśyam)subject to suffering (kleśa:suffering | vaśyam:subject to)
- क्व (kva)where
- च (ca)and
- इदं (idaṃ)this
- क्व (kva)where
- च (ca)and
- तव (tava)your
- गुण (guṇa)qualities
- सीमोल्लङ्घिनी (sīmollaṅghinī)transcending limits (sīmā:limit | ullaṅghinī:transcending)
- शश्वदृद्धिः (śaśvadṛddhiḥ)ever-increasing prosperity (śaśvat:ever | ṛddhiḥ:prosperity)
- इति (iti)thus
- चकितम् (cakitam)fearful
- अमन्दीकृत्य (amandīkṛtya)making not slow (amanda:not slow | kṛtya:making)
- माम् (mām)me
- भक्तिः (bhaktiḥ)devotion
- आधात् (ādhāt)placed
- वरद (varada)boon-giver
- चरणयोः (caraṇayoḥ)at the feet
- ते (te)your
- वाक्य (vākya)words
- पुष्पोपहारम् (puṣpopahāram)floral offering (puṣpa:flower | upahāram:offering)
असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ ३२॥
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥ ३२॥
- असित (asita)dark
- गिरि (giri)mountain
- समं (samaṃ)equal to
- स्यात् (syāt)may be
- कज्जलं (kajjalaṃ)ink
- सिन्धु (sindhu)ocean
- पात्रे (pātre)in the pot
- सुर (sura)divine
- तरुवर (taruvara)best divine tree (taru:tree | vara:best)
- शाखा (śākhā)branch
- लेखनी (lekhanī)pen
- पत्रम् (patram)paper
- उर्वी (urvī)earth
- लिखति (likhati)writes
- यदि (yadi)if
- गृहीत्वा (gṛhītvā)having taken
- शारदा (śāradā)Saraswati
- सर्वकालं (sarvakālaṃ)all the time (sarva:all | kālaṃ:time)
- तदपि (tadapi)even then
- तव (tava)your
- गुणानाम् (guṇānām)qualities
- ईश (īśa)O Lord
- पारं (pāraṃ)limit
- न (na)not
- याति (yāti)reaches
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥
- असुर (asura)demon
- सुर (sura)god
- मुनीन्द्रैः (munīndraiḥ)by the great sages (muni:sage | indra:great)
- अर्चितस्य (arcitasya)worshipped
- इन्दु-मौलेः (indu-mauleḥ)of the moon-crested (indu:moon | mauli:crest)
- ग्रथित-गुणमहिम्नः (grathita-guṇamahimnaḥ)of bound virtues and greatness (grathita:bound | guṇa:virtue | mahima:greatness)
- निर्गुणस्य (nirguṇasya)of the attributeless
- ईश्वरस्य (īśvarasya)of the lord
- सकल-गण-वरिष्ठः (sakala-gaṇa-variṣṭhaḥ)best among all groups (sakala:all | gaṇa:groups | variṣṭha:best)
- पुष्पदन्ताभिधानः (puṣpadantābhidhānaḥ)named Pushpadanta (puṣpadanta:Pushpadanta | abhidhāna:named)
- रुचिरमलघुवृत्तैः (ruciramalaghuvṛttaiḥ)with charming, not short metres (rucira:charming | alaghu:not short | vṛttaiḥ:metres)
- स्तोत्रम् (stotram)hymn
- एतत् (etat)this
- चकार (cakāra)composed
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४॥
पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ॥ ३४॥
- अहरहरनवद्यं (aharaharanavadyaṃ)daily faultless (ahara:daily | anavadyaṃ:faultless)
- धूर्जटेः (dhūrjaṭeḥ)of Dhūrjaṭi (Shiva)
- स्तोत्रमेतत् (stotrametat)this hymn (stotram:hymn | etat:this)
- पठति (paṭhati)reads
- परमभक्त्या (paramabhaktyā)with great devotion (parama:great | bhaktyā:with devotion)
- शुद्ध-चित्तः (śuddha-cittaḥ)pure-minded (śuddha:pure | cittaḥ:mind)
- पुमान् (pumān)man
- यः (yaḥ)who
- स (sa)he
- भवति (bhavati)becomes
- शिवलोके (śivaloke)in Shiva's domain (śiva:Shiva | loke:in the domain)
- रुद्रतुल्यः (rudratulyaḥ)equal to Rudra (rudra:Rudra | tulyaḥ:equal to)
- तथाऽत्र (tathā'tra)and here (tathā:and | atra:here)
- प्रचुरतर-धनायुः (pracuratara-dhanāyuḥ)abundant wealth and life (pracuratara:abundant | dhana:wealth | āyuḥ:life)
- पुत्रवान् (putravān)endowed with children
- कीर्तिमांश्च (kīrtimāṃśca)and famous (kīrtimān:famous | ca:and)
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५॥
- महेशात् (maheśāt)than Mahesha
- न (na)not
- अपरो (aparo)higher
- देवः (devaḥ)God
- महिम्नः (mahimnaḥ)than greatness
- न (na)not
- अपरः (aparaḥ)better
- स्तुतिः (stutiḥ)hymn
- अघोरात् (aghorāt)than Aghora
- न (na)not
- अपरो (aparo)greater
- मन्त्रः (mantraḥ)mantra
- नास्ति (nāsti)there is not
- तत्त्वम् (tattvam)truth
- गुरोः (guroḥ)than teacher's
- परम् (param)beyond
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६॥
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ॥ ३६॥
- दीक्षा (dīkṣā)initiation
- दानं (dānaṃ)charity
- तपः (tapaḥ)penance
- तीर्थं (tīrthaṃ)pilgrimage
- ज्ञानं (jñānaṃ)spiritual knowledge
- यागादिकाः (yāgādikāḥ)sacrifices and similar acts (yāga:sacrifice | ādikāḥ:and similar acts)
- क्रियाः (kriyāḥ)acts
- महिम्नस्तव (mahimnastava)of the hymn's greatness (mahimnaḥ:of greatness | stava:hymn)
- पाठस्य (pāṭhasya)of the reading
- कलां (kalāṃ)one-sixteenth
- नार्हन्ति (nārhanti)do not yield
- षोडशीम् (ṣoḍaśīm)sixteenth part
कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य दासः ।
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ॥ ३७॥
शशिधरवर-मौलेर्देवदेवस्य दासः ।
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ॥ ३७॥
- कुसुमदशन-नामा (kusumadaśana-nāmā)named Kusumadanta (kusuma:flower | daśana:tooth | nāmā:named)
- सर्व-गन्धर्व-राजः (sarva-gandharva-rājaḥ)king of all Gandharvas (sarva:all | gandharva:Gandharvas | rājaḥ:king)
- शशिधरवर-मौलेः (śaśidharavara-mauleḥ)of the best moon-crested (śaśidhara:moon-crested | vara:best | mauleḥ:of the head)
- देवदेवस्य (devadevasya)of the Lord of lords (deva:lord | devasya:of the lord)
- दासः (dāsaḥ)servant
- स (sa)he
- खलु (khalu)indeed
- निज-महिम्नः (nija-mahimnaḥ)of his own glory (nija:own | mahimnaḥ:of glory)
- भ्रष्टः (bhraṣṭaḥ)fallen
- एव (eva)indeed
- अस्य (asya)his
- रोषात् (roṣāt)due to anger
- स्तवनम् (stavanam)hymn
- इदम् (idam)this
- अकार्षीत् (akārṣīt)composed
- दिव्य-दिव्यं (divya-divyaṃ)most divine (divya:divine | divyaṃ:most divine)
- महिम्नः (mahimnaḥ)of glory
सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः ।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८॥
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः ।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ ३८॥
- सुरगुरुमभिपूज्य (suragurumabhipūjya)worshipping the teacher of gods (sura:gods | gurum:teacher | abhipūjya:worshipping)
- स्वर्ग-मोक्षैक-हेतुं (svarga-mokṣaika-hetuṃ)cause of heaven and liberation (svarga:heaven | mokṣa:liberation | eka:one | hetuṃ:cause)
- पठति (paṭhati)reads
- यदि (yadi)if
- मनुष्यः (manuṣyaḥ)a person
- प्राञ्जलिः (prāñjaliḥ)with folded hands
- न (na)not
- अन्य-चेताः (anya-cetāḥ)with single-mindedness (anya:other | cetāḥ:mind)
- व्रजति (vrajati)goes
- शिव-समीपं (śiva-samīpaṃ)near Shiva (śiva:Shiva | samīpaṃ:near)
- किन्नरैः (kinnaraiḥ)by kinnaras
- स्तूयमानः (stūyamānaḥ)being praised
- स्तवनमिदममोघं (stavanamidamamoghaṃ)this unfailing hymn (stavanam:hymn | idam:this | amoghaṃ:unfailing)
- पुष्पदन्तप्रणीतम् (puṣpadantapraṇītam)composed by Pushpadanta (puṣpadanta:Pushpadanta | praṇītam:composed)
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम् ।
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥ ३९॥
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥ ३९॥
- आसमाप्तम् (āsamāptam)here ends
- इदं (idaṃ)this
- स्तोत्रं (stotraṃ)hymn
- पुण्यं (puṇyaṃ)meritorious
- गन्धर्व-भाषितम् (gandharva-bhāṣitam)uttered by the Gandharva (gandharva:Gandharva | bhāṣitam:uttered)
- अनौपम्यम् (anaupamyam)incomparable
- मनोहारि (manohāri)charming
- सर्वम् (sarvam)all
- ईश्वरवर्णनम् (īśvaravarṇanam)description of the great master (īśvara:great master | varṇanam:description)
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः ।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥
- इति (iti)thus
- एषा (eṣā)this
- वाङ्मयी (vāṅmayī)in the form of words (vāk:speech | mayī:consisting of)
- पूजा (pūjā)worship
- श्रीमच्छङ्कर-पादयोः (śrīmacchaṅkara-pādayoḥ)at the feet of Shri Shankara (śrīmat:venerable | śaṅkara:Shankara | pādayoḥ:at the feet)
- अर्पिता (arpitā)dedicated
- तेन (tena)by this
- देवेशः (deveśaḥ)lord of the gods (deva:god | īśaḥ:lord)
- प्रीयतां (prīyatām)be pleased
- मे (me)my
- सदाशिवः (sadāśivaḥ)ever-auspicious (sadā:always | śivaḥ:auspicious)
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१॥
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१॥
- तव (tava)your
- तत्त्वं (tattvaṃ)truth
- न (na)not
- जानामि (jānāmi)I know
- कीदृशः (kīdṛśaḥ)what kind
- असि (asi)you are
- महेश्वर (maheśvara)great God (mahā:great | īśvara:God)
- यादृशः (yādṛśaḥ)as you are
- असि (asi)you are
- महादेव (mahādeva)great God (mahā:great | deva:God)
- तादृशाय (tādṛśāya)to that nature
- नमः (namaḥ)salutations
- नमः (namaḥ)salutations
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४२॥
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४२॥
- एककालं (ekakālaṃ)once (eka:one | kālaṃ:time)
- द्विकालं (dvikālaṃ)twice (dvi:two | kālaṃ:time)
- वा (vā)or
- त्रिकालं (trikālaṃ)thrice (tri:three | kālaṃ:time)
- यः (yaḥ)who
- पठेन्नरः (paṭhennaraḥ)a man reads (paṭhet:reads | naraḥ:man)
- सर्वपाप-विनिर्मुक्तः (sarvapāpa-vinirmuktaḥ)freed from all sins (sarva:all | pāpa:sins | vinirmuktaḥ:freed from)
- शिव (śiva)Shiva
- लोके (loke)in the world
- महीयते (mahīyate)is honored
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥
॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः
स्तोत्रं समाप्तम् ॥
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥
॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः
स्तोत्रं समाप्तम् ॥
- श्री (śrī)auspicious
- पुष्पदन्त-मुख-पङ्कज-निर्गतेन (puṣpadanta-mukha-paṅkaja-nirgaten)emerged from Pushpadanta's lotus-like mouth (puṣpadanta:Pushpadanta | mukha:mouth | paṅkaja:lotus | nirgaten:emerged from)
- स्तोत्रेण (stotreṇa)by the hymn
- किल्बिष-हरेण (kilbiṣa-hareṇa)remover of sins (kilbiṣa:sins | hareṇa:remover)
- हर-प्रियेण (hara-priyeṇa)dear to Hara (hara:Hara (Shiva) | priyeṇa:dear to)
- कण्ठस्थितेन (kaṇṭhasthitena)held in the throat
- पठितेन (paṭhitena)recited
- समाहितेन (samāhitena)with concentration
- सुप्रीणितो (suprīṇito)greatly pleased
- भवति (bhavati)becomes
- भूतपतिः (bhūtapatiḥ)lord of beings
- महेशः (maheśaḥ)Mahesha (Shiva)
- इति (iti)thus
- श्री (śrī)auspicious
- पुष्पदन्त (puṣpadanta)Pushpadanta
- विरचितं (viracitaṃ)composed
- शिवमहिम्नः (śivamahimnaḥ)of Shiva's greatness (śiva:Shiva | mahimnaḥ:greatness)
- स्तोत्रं (stotraṃ)hymn
- समाप्तम् (samāptam)completed
