Lord Shiva

श्री शिवकर्पूरस्तोत्रम्

(Shiva Karpurastotram)

Also known as shiva karpuradi stotram · shadakshara shiva stotram · karpurasyadyavarnam tadanu giripate pardine hrdyutaste

A hymn built around the six-syllabled mantra, and it says so at the outset rather than concealing it: the mantra is directly the one of six syllables, a maker of good and a destroyer of enemies; whoever repeats this mantra always, remembering his own teacher's lotus feet. That opening tells you what kind of text it is — a sadhana instruction wearing the shape of a stotra, in the same family as the Karpuradi Stotra of Kali from which it takes its name and much of its manner. The forty-four verses that follow alternate between describing Shiva and telling the reciter what to do with the syllables, and the two cannot be separated: the description is the meditation the repetition requires.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

कर्पूरस्याद्यवर्णं तदनु गिरिपते पर्दिने हृद्युतस्ते।
मन्त्रः साक्षात् षडरर्णो भवति शुभकरः शत्रुविध्वंसकारी।
एतन्मन्त्रं सदा यो जपति निजगुरोः पादपद्मं स्मरन् सन्,
पूज्यो भूत्वा सदैव प्रभवति स नरः श्रीयमोऽन्यो रिपूणाम्॥१॥
भोः शम्भो सौष्मकान्ते वकरमसहिताकारयुक्ताम्बुतीक्ष्णैः,
पञ्चार्णो मन्त्रराजो भवति शुभकरो मुक्तिदः शैवरूपः।
तारान्ते ये जपन्तो-ह तवमनुवरं शुद्धभावैः प्रशान्ताः,
ते ते सिद्धिं लभन्ते शिवरसमुदिता मुक्तरूपा मुनीन्द्राः॥२॥
श्रीमत्मासादयुग्मं कृतपुटितमहापञ्चतारैमहेश,
त्वन्मन्त्रं शाम्भवाख्यं स्मरति यदि जनोवारमेकं जितात्मा।
भूत्वा पृथ्व्यां स लक्ष्मी-पतिरपि च महाकालकालः कवीन्द्रः,
पश्चान्निर्वाण मुक्तिं सुरनुतलभते पुण्यपापैर्विमुक्तः॥३॥
शम्भो त्वां श्रीमहापाशुपतमनुवरं संस्मरन् बाणलिङ्गे,
सद्योजातादिवक्रार्चनमपि ललितापूजनं भालदेशे।
कुर्वञ्च्छीयन्त्रपूजां ममममहिलाभिर्नरो ब्रह्मरन्धे,
साक्षाद्योगीन्द्ररूपः प्रभवति शिवतां याति सत्यं पृथिव्याम्॥४॥
यस्त्वां ब्राह्मे मुहूर्ते यजति सह सदा क्षीररुद्राभिषेकैः,
सद्यः सन्तोष्यदेवं ग्रहभयहरणं जायते तस्य शर्व।
तैलाख्यैः शत्रुनाशं स्मरहदुरितध्वंशनं गोपयोभिः,
निर्वाणो मोक्षरूपः प्रभवति कुलजः कौलरुद्राभिषेकैः॥५॥
शिवं त्वां पञ्चास्यं त्रिनयनयुतं शुद्धधवलं,
चतुर्हस्तोपेतं सुपरशुमृगाभीतिवरदम्।
सदानन्दं व्याघ्राम्बरपरिदधानं स्मरहर,
स्मरन्ति श्रीशैवास्त्रिवसुदलपीठोपरिगतम्॥६॥
प्रदोषे भक्तोयो यजति तव पादाम्बुजयुगं,
सुपत्रैर्विल्वैर्वा कुशुमसलिलैर्वा त्रिषवणम्।
प्रशान्तो दिव्यो वार्चयति शिवरात्रौ पशुपते,
स एव ब्रह्मात्मा स हि भुवनसौख्यञ्चलभते॥७॥
निशायां श्रीचक्रं यजति शिवलिङ्गोपरिसदा,
तथा विन्दौ शैवं त्रिपुरहर निर्वाणपरमम्।
कुलद्रव्यैश्वाहङ्कृतिमयवलिं यः प्रकुरुते,
परो दिव्यः कौलो ब्रजति शिवतां भोः पशुपते॥८॥
व्रती मूलाधारोपरिरसदलं दिग्दलमथो,
परं हृत्पत्राख्यं परशिव महाषोडशदलम्।
त्रिवेण्यां हक्षाभ द्विदलकमलं ब्रह्ममदनं,
हठाभ्यां संयोगदलसति सुषुम्णाख्यपथतः॥९॥
सहस्रारेदीपाकृतिपरमलिङ्गं परशिवं,
सदा ध्यायन् दिव्यं समरसयुतं हंसगपरम्।
परान्तस्थं शुद्धं जपतियदिमन्त्रं कुलजन-,
स्तदा जीवन्मुक्तः परमपदलीनः प्रभवति॥१०॥
इदं स्तोत्रं सूक्ष्मं मनुवरसमुद्धारणजप-,
स्वरूपाख्यम्पूजा-परमशुभयोगादिसहितम्॥
मया भक्त्या शम्भो तव परशिवाख्यं विरचितं,
प्रसादार्थीतेऽहङ्गिरिश धनशंशेरमनुजः॥११॥
॥ इति श्रीशिवकर्पूरस्तोत्रम् ॥

Explore More