Lord Kalabhairava

श्रीभैरवताण्डवस्तोत्रम्

(Sribhairavatandavastotram)

Also known as shri bhairava tandava stotram · sribhairavatandavastotra · bhairav tandav stotram

A dance hymn, and the sound is the substance of it. Every line is built from chains of internal rhyme in the same manner as the Śiva Tāṇḍava Stotra — caṇḍaṁ praticaṇḍaṁ karadhṛtadaṇḍaṁ kṛtaripukhaṇḍaṁ — so that the metre keeps striking the same syllable the way a drum does, and the god described is doing exactly that. He is smeared with vermilion, far off on the field of battle, hung with a girdle of small bells whose sound purifies the three worlds, drinking from the skull-bowl; his form is made of compassion though he is surrounded by ghosts and spirits, his speech soft and clear; Kālī's child stands with the sword. The closing verse gives the text a second name that says what it was used for — the Bhairava Aṣṭaka that removes hardship.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ॥
अथ श्रीभैरवताण्डवस्तोत्रम् ।
ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं
लोकं सुखयन्तं विलसितसन्तं प्रकटितदन्तं नृत्यकरम् ।
डमरुध्वनिशङ्खं(मन्तं) तरलवतंसं(तरं तं ) मधुरहसन्तं लोकभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥
चर्चितसिन्दूरं रणभूविदूरं(रणभुवि शूरं) दुष्टविदूरं श्रीनिकरं
किङ्किणिगणरावं त्रिभुवनपावं खर्प्प(र्प)रसावं पुण्यभरम् ।
करुणामयवेषं सकलसुरेशं मुक्तसुकेशं पापहरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ २॥
कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं
कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं(छगं तं) शुद्धतरम् ।
गतिनिन्दितकेशं(हंसं) नर्तनदेशं(नरनुतहंसं) स्वच्छकशं(शुकं) सन्मुण्डकरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ३॥
कठिनस्तनकुम्भं सुकृतसुलम्भं कालीडिम्भं खड्गधरं
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।
तनुभाजितशेषं विलमसुदेशं सर्वसुरेशं प्रीतिन(प)रं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ४॥
ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं
सुखिताखिललोकं परिहृतशोकं शुद्धविलोकं पुष्टिकरम् ।
वरदाभयहारं तरलिततारं क्षुद्रविदा(हा)रं तुष्टिकरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ५॥
सकलायुधभारं विजनविहारं सुश्रविशारं(विश्वविसारं) भ्रष्टमलं
शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् ।
पदनूपूरशिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्ठहरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ६॥
मदयुतसंरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् ।
कुटिलभ्रुकुटीकं ज्वरधननी(वी)कं विसरन्ध्रीकं प्रेमभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ७॥
परिनिर्जितकामं विलसितवामं योगिजनाभं(परमभिरामं) योगेशं
बहुमद्यपनाथं गीतसुगाथं कृष्टसुनाथं वीरेशम् ।
कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं दत्तवरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ ८॥
इति श्रीभैरवताण्डवस्तोत्रं अथवा कष्टहरं श्रीभैरवाष्टकस्तोत्रं सम्पूर्णम् ॥

Explore More