भैरवाय सुभीमाय त्रिधाम्नेश नमो नमः ॥ १ ॥
तेजसां केतवे तुभ्यं हेतवे जगतामपि ॥ २ ॥
ओङ्कारव्याहृतिस्थाय महावीराय ते नमः ॥ ३ ॥
वेदार्थाय च वेदाय वेदगर्भाय शम्भवे ॥ ४ ॥
महाभैरवरूपाय भैरवानन्ददायिने ॥ ५ ॥
मायान्धकारनाशाय चक्षुस्तिमिरभञ्जिने ॥ ६ ॥
मन्त्रवाच्याय देवाय महामन्त्रार्थदायिने ॥ ७ ॥
यन्त्रैर्नियन्त्रैर्नियमैर्यमिनां फलदाय च ॥ ८ ॥
महापातकहर्त्रे च महाभयविनाशिने ॥ ९ ॥
बीभत्साय च रौद्राय भीताभयप्रदायिने ॥ १० ॥
बीजाय बीजरूपाय बीजभर्गाय ते नमः ॥ ११ ॥
महाभर्गाय वै तुभ्यं ज्ञानभर्गाय ते नमः ॥ १२ ॥
सुशोकाय विशोकाय ज्ञानभर्गाय ते नमः ॥ १३ ॥
दारिद्र्यदुःखभर्गय कामभर्गाय ते नमः ॥ १४ ॥
अतिदुर्वासनाभर्ग नमस्ते भैरवात्मने ॥ १५ ॥
रोगभर्गाय देवाय पापभर्गाय ते नमः ॥ १६ ॥
महानिरयभर्गाय नृत्तभर्गाय ते नमः ॥ १७ ॥
मृत्युभर्गाय देवाय दुर्गभर्गाय ते नमः ॥ १८ ॥
नाथाय भर्गनाथाय भर्गाय सततं नमः ॥ १९ ॥
महामार्ताण्ड वरद सर्वाभयवरप्रद ॥ २० ॥
अग्निधामातिधाम्ने च महामार्ताण्ड ते नमः ॥ २१ ॥
महामार्ताण्डदेवेश भूयो भूयो नमो नमः ॥ २२ ॥
