श्रीभैरव उवाच ।
म्रियन्ते साधका येन विना श्मशानभूमिषु ॥
रणेषु चातिघोरेषु महावायुजलेषु च ।
शृङ्गिमकरवज्रेषु ज्वरादिव्याधिवह्निषु ॥
कथयामि शृणु प्राज्ञ बटोस्तु कवचं शुभम् ।
गोपनीयं प्रयत्नेन मातृजारोपमं यथा ॥
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः ।
सात्त्विकं राजसं चैव तामसं देव तत् शृणु ॥
वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां बटुकमनिशं शूलखड्गौदधानम् ॥ 1 ॥
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ 2 ॥
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि ।
नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणी नूपुराढ्यम् ॥ 3 ॥
ॐ शिरो मे भैरवः पातु ललाटं भीषणस्तथा ।
नेत्रे च भूतहननः सारमेयानुगो भ्रुवौ ॥ 1
नासापुटौ तथोष्ठौ च भस्माङ्गः सर्वभूषणः ॥ 2
स्कन्धौ दैत्यरिपुः पातु बाहू अतुलविक्रमः ॥ 3
वक्षःस्थलं तथा शान्तः कामचारी स्तनं मम ॥ 4
क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ 5
गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ 6
गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ 7
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ 8
पूर्व स्यामसिताङ्गो मे दिशि रक्षतु सर्वदा ॥ 9
नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ 10
भीषणो भैरवः पातूत्तरस्यां दिशि सर्वदा ॥ 11
ऊर्ध्वे पातु विधाता वै पाताले नन्दिको विभुः ॥ 12
वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ 13
डाकिनीपुत्रकः पातु दारांस्तु लाकिनीसुतः ॥ 14
लाकिनीपुत्रकः पातु पशूनश्वानजांस्तथा ॥ 15
राज्यं राज्यश्रियं पायात् भैरवो भीतिहारकः ॥ 16
तत् सर्वं रक्ष मे देव त्वं यतः सर्वरक्षकः ॥ 17
नाख्येयं नरलोकेषु सारभूतं च सुश्रियम् ॥ 18
न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर ॥ 19
अनेन कवचेशेन रक्षां कृत्वा द्विजोत्तमः ॥ 20
मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः ॥ 21
भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो ॥ 22
सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ 23
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ 24
