Goddess Durga

श्रीचण्डिका नवाक्षरी त्रिशती

(Shri Chandika Navakshari Trishati)

Also known as sri chandika navakshari trishati · shree chandika navakshari trishati · chandika navakshari trishati

Three hundred names of Chandika laid out on the nine syllables of the navarna mantra, each syllable heading a long run of names built from it, so that the litany works through the mantra one sound at a time. The run on mu turns to the killing of Munda and is the fiercest stretch of it: the head swung in her hand, her red garment lit by the blood running from it, the garland of skulls at her throat as she dances. The run on the last syllable localises her sharply, naming her the destroyer of the king of Chedi and the guardian of the Chera country, and ending on the ruin of kings and thieves in the Chera and Chola lands. Four summary names close the list, joining Mahakali, Mahalakshmi and Mahasarasvati in her.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 303
॥ श्रीचण्डिका नवाक्षरी त्रिशती ॥
ॐ ऐङ्कारपीठमध्यस्थायै नमः ।
ॐ ऐङ्कारासनसुस्थितायै नमः ।
ॐ ऐङ्कारजपसन्तुष्टायै नमः ।
ॐ ऐङ्कारजपसौख्यदायै नमः ।
ॐ ऐङ्कारमोहनपरायै नमः ।
ॐ ऐङ्काराभरणोज्ज्वलायै नमः ।
ॐ ऐङ्काररूपायै नमः ।
ॐ ऐङ्कार्यै नमः ।
ॐ ऐङ्कारवरवर्णिन्यै नमः ।
ॐ ऐङ्कारकल्पवृक्षस्थायै नमः ।
ओं ऐङ्काराम्बुजलोचनायै नमः ।
ॐ ऐङ्कारवाच्यायै नमः ।
ॐ ऐङ्कारपूज्यायै नमः ।
ॐ ऐङ्कारपङ्कजायै नमः ।
ॐ ऐङ्कारकाननावासायै नमः ।
ॐ ऐङ्कारगिरिरूपिण्यै नमः ।
ॐ ऐङ्कारकन्दरासिंह्यै नमः ।
ॐ ऐङ्काराक्षरशोभितायै नमः ।
ॐ ऐङ्काराब्जसमासीनायै नमः ।
ॐ ऐङ्कारमुख्यमण्डलायै नमः ।
ॐ ऐङ्कारारण्यहरिण्यै नमः ।
ॐ ऐङ्कारामृतवर्षिण्यै नमः ।
ॐ ऐङ्कारकमलावासायै नमः ।
ॐ ऐङ्कारोद्यानवासिन्यै नमः ।
ॐ ऐङ्कारवन्दितपदायै नमः ।
ॐ ऐङ्कारवरदायिन्यै नमः ।
ॐ ऐङ्कारामृतसन्धात्र्यै नमः ।
ॐ ऐङ्कारामृतपायिन्यै नमः ।
ॐ ऐङ्कारारण्यसञ्चारायै नमः ।
ॐ ऐङ्काराश्रयविराजितायै नमः ।
ॐ ऐङ्कारमन्त्रसञ्जप्यायै नमः ।
ॐ ऐङ्कारजपसिद्धिदायै नमः ।
ॐ ऐङ्कारनन्दनोद्यानकुसुमोज्ज्वलमूर्धजायै नमः ।
ॐ ह्रीङ्कारमन्त्रसमवासायै नमः ।
ॐ ह्रीङ्कारकुसुमशोभितायै नमः ।
ॐ ह्रीङ्काररूपायै नमः ।
ॐ ह्रीङ्कार्यै नमः ।
ॐ ह्रीङ्काराम्बुजमध्यगायै नमः ।
ॐ ह्रीङ्कारपूजनप्रीतायै नमः ।
ॐ ह्रीङ्काराक्षररूपिण्यै नमः ।
ॐ ह्रीङ्काराक्षरसञ्जप्यायै नमः ।
ॐ ह्रीङ्कारारण्यवल्लर्यै नमः ।
ॐ ह्रीङ्कारमणिभूषाढ्यायै नमः ।
ॐ ह्रीङ्कारारामशोभितायै नमः ।
ॐ ह्रीङ्कारजपसुप्रीतायै नमः ।
ॐ ह्रीङ्कारकमलोज्ज्वलायै नमः ।
ॐ ह्रीङ्कारशिखिसंरूढायै नमः ।
ॐ ह्रीङ्कारानन्ददायिन्यै नमः ।
ॐ ह्रीङ्कारगिरिसम्भूतायै नमः ।
ॐ ह्रीङ्कारगिरिवासिन्यै नमः ।
ॐ ह्रीङ्कारोद्यानपीठस्थायै नमः ।
ॐ ह्रीङ्कारवरदायिन्यै नमः ।
ॐ ह्रीङ्काररञ्जनपरायै नमः ।
ॐ ह्रीङ्कारादर्शबिम्बितायै नमः ।
ॐ ह्रीङ्काररोद्यानसंशोभायै नमः ।
ॐ ह्रीङ्कारारण्यवासिन्यै नमः ।
ॐ ह्रीङ्कारविलसद्रूपायै नमः ।
ॐ ह्रीङ्कारादित्यभास्वरायै नमः ।
ॐ ह्रीङ्कारेन्दुकलाधर्यै नमः ।
ॐ ह्रीङ्कारशशिमण्डलायै नमः ।
ॐ ह्रीङ्कारनादरसिकायै नमः ।
ॐ ह्रीङ्कारास्वादभृङ्गिकायै नमः ।
ॐ ह्रीङ्कारवापिकाहंस्यै नमः ।
ॐ ह्रीङ्कारालापकोकिलायै नमः ।
ॐ ह्रीङ्कारोज्ज्वलसर्वाङ्ग्यै नमः ।
ॐ ह्रीङ्कारमधुमत्तायै नमः ।
ॐ क्लीङ्कारपद्मनिलयायै नमः ।
ॐ क्लीङ्कारहृदयस्थितायै नमः ।
ॐ क्लीङ्कारबिम्बसंशोभायै नमः ।
ॐ क्लीङ्काराह्लादचन्द्रिकायै नमः ।
ॐ क्लीङ्कारानन्दसन्धात्र्यै नमः ।
ॐ क्लीङ्कारमणिमण्डपायै नमः ।
ॐ क्लीङ्कारपीठमध्यस्थायै नमः ।
ॐ क्लीङ्कारपारसौख्यदायै नमः ।
ॐ क्लीङ्कारसौधमध्यस्थायै नमः ।
ॐ क्लीङ्कारतिलकोज्ज्वलायै नमः ।
ॐ क्लीङ्कारामोदहृदयायै नमः ।
ॐ क्लीङ्कारविजयप्रदायै नमः ।
ॐ क्लीङ्कारबीजसर्वस्वायै नमः ।
ॐ क्लींस्थितायै नमः ।
ॐ क्लीन्निवासिन्यै नमः ।
ॐ क्लीङ्कारसाधकपरायै नमः ।
ॐ क्लीङ्कारकलुषापहायै नमः ।
ॐ क्लीङ्कारपुष्टिसन्धात्र्यै नमः ।
ॐ क्लीङ्कारकमलासनायै नमः ।
ॐ क्लीङ्कारपद्मसंवासायै नमः ।
ॐ क्लीङ्कारमधुपायिन्यै नमः ।
ॐ क्लीङ्कारचापहस्ताढ्यायै नमः ।
ॐ क्लीङ्कारेषुसुबाहुकायै नमः ।
ॐ क्लीङ्कारकुसुममध्यस्थायै नमः ।
ॐ क्लीङ्कारकुसुमशोभितायै नमः ।
ॐ क्लीङ्कारमधुरालापायै नमः ।
ॐ क्लीङ्काराङ्कुशशोभितायै नमः ।
ॐ क्लीङ्कारपद्महस्ताढ्यायै नमः ।
ॐ क्लीङ्कारमधुवापिकायै नमः ।
ॐ क्लीङ्कारहतदैत्यौघायै नमः ।
ॐ क्लीङ्कारोत्पलमालिकायै नमः ।
ॐ क्लीङ्कारानलसन्दग्धदुष्टदैत्यसमूहिकायै नमः ।
ॐ क्लीङ्कारनन्दनोद्यानमणिमण्डपशोभितायै नमः ।
ॐ चापबाणलसद्धस्तायै नमः ।
ॐ चारुचन्द्रकलाधरायै नमः ।
ॐ चाम्पेयकुसुमप्रीतायै नमः ।
ॐ चारुनूपुरशोभितायै नमः ।
ॐ चारुरूपायै नमः ।
ॐ चारुहासायै नमः ।
ॐ चराचरनिवासिन्यै नमः ।
ॐ चातुर्वर्ण्यसमाराध्यायै नमः ।
ॐ चारुशुभ्रसुशोभितायै नमः ।
ॐ चारुकुसुमाकारनासादण्डविराजितायै नमः ।
ॐ चामरद्वयसंवीज्यलक्ष्मीवाणीसुशोभितायै नमः ।
ॐ चारुदन्तायै नमः ।
ॐ चारुजिह्वायै नमः ।
ॐ चारुकुण्डलशोभितायै नमः ।
ॐ चारुदेहायै नमः ।
ॐ चारुकण्ठायै नमः ।
ॐ चारुहस्तायै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ चारुपादायै नमः ।
ॐ चारुजङ्घायै नमः ।
ॐ चारुवक्षोजयुग्मायै नमः ।
ॐ चारुवक्षायै नमः ।
ॐ चारुनासायै नमः ।
ॐ चारुजघनोज्ज्वलायै नमः ।
ॐ चारुपृष्ठायै नमः ।
ॐ चारुकट्यै नमः ।
ॐ चारुपार्श्वद्वयोज्ज्वलायै नमः ।
ॐ चारुनेत्रायै नमः ।
ॐ चारुकर्णायै नमः ।
ॐ चारुनेत्रललाटिकायै नमः ।
ॐ चारुकेश्यै नमः ।
ॐ चारुमूर्त्यै नमः ।
ॐ चारुसर्वाङ्घसुन्दर्यै नमः ।
ॐ मुण्डसेनामहासङ्घनादविमोहितायै नमः ।
ॐ मुण्डसेनामहावेगगर्जनस्तम्भकारिण्यै नमः ।
ॐ मुण्डसेनापतीसङ्घज्याशब्दपरिमोहितायै नमः ।
ॐ मुण्डसेनापतीव्रातविनाशनसमुत्सुकायै नमः ।
ॐ मुण्डासुरचमूसङ्घघण्टाजयघोषमूर्छितायै नमः ।
ॐ मुण्डासुरचमूघोषस्वशब्दविनिवारिण्यै नमः ।
ॐ मुण्डजल्पवशोत्साहदैत्यसैन्यसमुत्सुकायै नमः ।
ॐ मुण्डासुरवधोद्युक्तखड्गहस्तसुशोभितायै नमः ।
ॐ मुण्डासुरमहायुद्धसंस्तम्भितमहासुरायै नमः ।
ॐ मुण्डदूषितशक्त्यौघदैत्यसङ्घविदारितायै नमः ।
ॐ मुण्डकोपप्रज्वलितभीतदेवसमुत्सुकायै नमः ।
ॐ मुण्डासुरमहायुद्धदेववाद्यसुघोषितायै नमः ।
ॐ मुण्डासुरवधोत्साहदेवदुन्दुभिघोषितायै नमः ।
ॐ मुण्डासुरमहायुद्धपटहानद्धदैत्यगायै नमः ।
ॐ मुण्डासुरशिरोगृह्यखड्गपातनिकृन्तन्यै नमः ।
ॐ मुण्डासुरशिरोगृह्यहस्तकन्दुकक्रीडनोत्सुकायै नमः ।
ॐ मुण्डासुरशिरोहस्तसन्तुष्टसुरसैनिकायै नमः ।
ॐ मुण्डासुरहतप्राप्तदैत्यसङ्घप्ररोचिन्यै नमः ।
ॐ मुण्डासुरशिरोहस्तविभ्रामितदिगम्बरायै नमः ।
ॐ मुण्डासुरशिरोहस्तदैत्यसङ्घविभीषितायै नमः ।
ॐ मुण्डासुरशिरस्रावरक्तवस्त्रसमुज्ज्वलायै नमः ।
ॐ मुण्ड मुण्ड सुसन्दृष्ट दैत्यसैन्यपलायितायै नमः ।
ॐ मुण्डमालालसत्कण्ठलम्बजिह्वासुनर्तन्यै नमः ।
ॐ मुण्डवस्त्रपरीधानसुशोभितशरीरिण्यै नमः ।
ॐ मुण्डदैत्यवधोत्साहमुनिसङ्घसमुत्सुकायै नमः ।
ॐ मुण्डदैत्यवधोत्साहदेवसंस्तुतवैभवायै नमः ।
ॐ मुण्डदैत्यशिरछेत्र्यै नमः ।
ॐ मुण्डिन्यै नमः ।
ॐ मुण्डरूपिण्यै नमः ।
ॐ मुण्ड्यै नमः ।
ॐ मुण्डमथन्यै नमः ।
ॐ मुण्डोज्ज्वलसुशोभितायै नमः ।
ॐ मुण्डासुरवधोत्पन्नदेवऋषिगणतोषितायै नमः ।
ॐ डमरोत्कटसन्नद्धायै नमः ।
ॐ डाकिनीगणसेवितायै नमः ।
ॐ डमर्वङ्कुशहस्ताढ्यायै नमः ।
ॐ डाकिनीगणपूजितायै नमः ।
ॐ डम्बरयुक्तजनोत्साहायै नमः ।
ॐ डम्बरयुक्तविगर्हितायै नमः ।
ॐ डाडिमीकुसुमसङ्काशायै नमः ।
ॐ डाडिमीफलसुप्रियायै नमः ।
ॐ डकारशोभितमनवे नमः ।
ॐ डम्बिकायै नमः ।
ॐ डामरोत्सुकायै नमः ।
ॐ डामर्यै नमः ।
ॐ डम्बरहितायै नमः ।
ॐ डम्बाडम्बसमुत्सुकायै नमः ।
ॐ डमरुवाद्यसुसंप्रीत्यै नमः ।
ॐ डमरुहस्तसखीजनायै नमः ।
ॐ डमरोत्कटसन्नादायै नमः ।
ॐ डमरुध्वनिसङ्कुलायै नमः ।
ॐ डमरुध्वनिसंस्तम्भितदैत्यसङ्घविराजितायै नमः ।
ॐ डकारविलसन्मन्त्रायै नमः ।
ॐ डकारपरमार्थदायै नमः ।
ॐ डकारमन्त्रसर्वस्वायै नमः ।
ॐ डकारहतकिल्बिषायै नमः ।
ॐ डकारहतदैत्यौघायै नमः ।
ॐ डकारगिरिसुप्रियायै नमः ।
ॐ डकाराक्षरसुप्रीतायै नमः ।
ॐ डकारामोददायिन्यै नमः ।
ॐ डम्बासुरसुसंहन्त्र्यै नमः ।
ॐ डम्बाडम्बविवर्जितायै नमः ।
ॐ डकारहतपापौघायै नमः ।
ॐ डकारपरसौख्यदायै नमः ।
ॐ डकारपूजनप्रीतायै नमः ।
ॐ डकारोज्ज्वलमध्यगायै नमः ।
ॐ यैङ्काराक्षरसम्पूज्यायै नमः ।
ॐ यैङ्काराक्षरशोभितायै नमः ।
ॐ यैङ्कारक्षरशोभितमनसे नमः ।
ॐ यैङ्कारतरुवासिन्यै नमः ।
ॐ यैङ्कारगिरिसम्भवायै नमः ।
ॐ यैङ्कारगुहसंस्थितायै नमः ।
ॐ यैङ्कारसिंहसंवाहायै नमः ।
ॐ यैङ्काराक्षरसुस्थिरायै नमः ।
ॐ यैङ्काराक्षरसुप्रीतायै नमः ।
ॐ यैङ्कारमनुमध्यगायै नमः ।
ॐ यैङ्कारमनुमध्यस्थायै नमः ।
ॐ यैङ्काराक्षरसुप्रियायै नमः ।
ॐ यैङ्कारविलसन्मन्त्रायै नमः ।
ॐ यैङ्काराक्षरभासुरायै नमः ।
ॐ यैङ्कारगजसंरूढायै नमः ।
ॐ यैङ्कारतुरगोज्ज्वलायै नमः ।
ॐ यैङ्कारविलसद्योगायै नमः ।
ॐ यैङ्काराह्लादकारिण्यै नमः ।
ॐ यैङ्काररथसंरूढायै नमः ।
ॐ यैङ्कारसुखसुप्तिकायै नमः ।
ॐ यैङ्काराक्षररूपिण्यै नमः ।
ॐ यैङ्कारपरमानन्दायै नमः ।
ॐ यैङ्कारपरमाक्षरायै नमः ।
ॐ यैङ्कारानन्दहृदयायै नमः ।
ॐ यैङ्कारपरसौख्यदायै नमः ।
ॐ यैङ्कारसुखसंसुप्तायै नमः ।
ॐ यैङ्कारायै नमः ।
ॐ यैङ्काररूपिण्यै नमः ।
ॐ यैङ्कारज्ञानसम्पन्नायै नमः ।
ॐ यैङ्कारपररूपिण्यै नमः ।
ॐ यैङ्कारसम्पदापत्यै नमः ।
ॐ यैङ्कारफलदायिन्यै नमः ।
ॐ यैङ्कारजपसौख्यदायै नमः ।
ॐ विज्ञानजनसन्तुष्टायै नमः ।
ॐ विज्ञानजनपूजितायै नमः ।
ॐ विज्ञानजनसुप्रीतायै नमः ।
ॐ विज्ञानजनसौख्यदायै नमः ।
ॐ विज्ञानपरमानन्ददायै नमः ।
ॐ विज्ञानजनतोषिण्यै नमः ।
ॐ विज्ञानानन्दसुखितायै नमः ।
ॐ विज्ञानतत्त्वसन्दर्शायै नमः ।
ॐ विज्ञानानन्दरूपिण्यै नमः ।
ॐ विज्ञानवादसुप्रीतायै नमः ।
ॐ विज्ञानार्थविदां वरायै नमः ।
ॐ विज्ञानवादमध्यस्थायै नमः ।
ॐ विज्ञानघनरूपिण्यै नमः ।
ॐ विज्ञानज्ञानसन्धात्र्यै नमः ।
ॐ विज्ञानसुखदायिन्यै नमः ।
ॐ विज्ञानार्थविवादकारणानन्दविग्रहायै नमः ।
ॐ विज्ञानतत्त्वपदार्थजनसन्देहनाशिन्यै नमः ।
ॐ विज्ञानज्ञानविदितायै नमः ।
ॐ विज्ञानारण्यवासिन्यै नमः ।
ॐ विज्ञानासवसुप्रीतायै नमः ।
ॐ विज्ञानमधुपायिन्यै नमः ।
ॐ विज्ञानामृतसंवासायै नमः ।
ॐ विज्ञानामृतपायिन्यै नमः ।
ॐ विज्ञानामृताब्धिमध्यस्थायै नमः ।
ॐ विज्ञानाब्धिसमाह्लादायै नमः ।
ॐ विज्ञानाब्धिचन्द्रमसे नमः ।
ॐ विज्ञानमन्दिरावासायै नमः ।
ॐ विज्ञानमधुभृङ्गिकायै नमः ।
ॐ विज्ञानरथसंरूढायै नमः ।
ॐ विज्ञानतुरगोज्ज्वलायै नमः ।
ॐ विज्ञानहृदयानन्दसत्स्वरूपप्रदेशिन्यै नमः ।
ॐ विज्ञानानन्दसम्योगप्रबोधनपटीयस्यै नमः ।
ॐ विज्ञानमण्डपान्तस्थसुपूजितपदद्वयायै नमः ।
ॐ चेतनायै नमः ।
ॐ चेतनारूपायै नमः ।
ॐ चेतनारूपधारिण्यै नमः ।
ॐ चेकाराक्षरसम्पूज्यायै नमः ।
ॐ चेकाराक्षरमूर्धजायै नमः ।
ॐ चेकारशोभितमनवे नमः ।
ॐ चेकाराक्षरशोभितायै नमः ।
ॐ चेकारसिद्धनैर्मल्यायै नमः ।
ॐ चेकाराक्षरसौख्यदायै नमः ।
ॐ चेकिताशेषभुवनायै नमः ।
ॐ चेकारानन्दायिन्यै नमः ।
ॐ चेरदेशकृतावासायै नमः ।
ॐ चेरदेशसुरक्षितायै नमः ।
ॐ चेकाराक्षरसंशोभायै नमः ।
ॐ चेरेश्वरसुरक्षितायै नमः ।
ॐ चेकारान्त्यसुशोभितायै नमः ।
ॐ चेकाराक्षरसञ्जप्यायै नमः ।
ॐ चेकाराक्षरसम्युतायै नमः ।
ॐ चेकाराक्षरमन्त्राद्यजपसन्तोषदायिन्यै नमः ।
ॐ चेदिराज्यकृतद्वेषायै नमः ।
ॐ चेदिराजावमानितायै नमः ।
ॐ चेदिराजसंहन्त्र्यै नमः ।
ॐ चेदिराजभयप्रदायै नमः ।
ॐ चेदिराजसमुन्मूलनाशनोत्सुकविग्रहायै नमः ।
ॐ चेदिराजप्रमोत्पन्नसमुत्सुकविराजितायै नमः ।
ॐ चेदिराजवधोत्साहायै नमः ।
ॐ चेदिराजवधप्रियायै नमः ।
ॐ चेदिराजशिरोहन्त्र्यै नमः ।
ॐ चेदिजनसुरक्षितायै नमः ।
ॐ चेतनाचेतनयै नमः ।
ॐ चेनोज्ज्वलरूपिण्यै नमः ।
ॐ चेरचोळादिदेशस्थराजचोरविनाशिन्यै नमः ।
ॐ ऐं ह्रीं क्लीं शोभायै नमः ।
ॐ चामुण्डायै सुपूजितायै नमः ।
ॐ विच्छे विशेषतत्त्वार्थज्ञानज्ञेयस्वरूपिण्यै नमः ।
ॐ महाकाली-महालक्ष्मी-महासरस्वतीस्वरूपिण्यै चण्डिकापरमेश्वर्यै नमः ।
ॐ श्रीदुर्गापरमेश्वर्यै नमः ।
॥ इति श्रीचण्डिका नवाक्षरी त्रिशती नामावलिः समाप्ता ॥

Explore More