।। श्री उन्मत्त-भैरव उवाच।।
यक्षिणी-नायिकानां तु,संक्षेपात् सिद्धि-दायकं ।।
यक्षिणि स्वयमायाति, कवच-ज्ञान-मात्रतः ।।
यक्षिणी-वशमानयेत् ।।
श्री अमुकी यक्षिणी देवता, साक्षात् सिद्धि-समृद्धयर्थे पाठे विनियोगः ।
गायत्री छन्दसे नमः मुखे,
श्री अमुकी यक्षिणी देवतायै नमः हृदि,
साक्षात् सिद्धि-समृद्धयर्थे पाठे
विनियोगाय नमः सर्वांगे।
किङ्किणीजालमालाढ्यां त्रिपुरां पद्मलोचनाम् ।
वराभयकरां धन्यां योगिनीं कामचारिणीम् ॥
नानालङ्कृतिविग्रहे! सुरमणि श्रीदेवकन्ये प्रिये! ।
दारिद्र्यं हन मे सुखं प्रियपदं वाञ्छादिसिद्धिं देहि
राज्यं मित्रकलत्रपुत्रधनदे! मातः! समाधेहि मे ॥
महाभयसमाकुलं हर भजामि भूमण्डले ।
कृपां कुरु ममालये सपरिवारदेवैः सह
सदा भव हि भागिनी क्षम कुलापतापं मुदा ॥
गौरी विद्याधरी श्यामा प्रसन्ना भव सर्वदा ॥
त्वमेका पातु मां धात्री स्वर्णपात्रकराम्बुजा ॥
प्रसन्ना भव शब्दाख्या कामिनी कामदायिनी ॥
नमामि वरदे देवि! योगिनीगणसेविते! ॥
अमले कमले देवि! दारिद्र्यदोषभञ्जिनी ॥
कलिकालकृते देवि! खेचरी शतनायिके ॥
सिद्धिदा विधुराणां च अकालमृत्युनाशिनी ॥
वाक्यसिद्धिप्रदा देवी पद्मरागसुमालिनी ॥
मायाबीजात्मिका देवी वधूबीजसमाकुले ॥
विचित्राम्बरशोभाङ्गी नानालङ्कारवेष्टिते ॥
स्मेराननाब्जे कामेशि! ममाज्ञापय दुर्लभम् ॥
सिद्धिदा वरदा माता भगिनी च भवप्रिया ॥
ममाग्रे संस्थिरा भूत्वा सिद्धिदा भव सर्वदा ॥
शतवर्षसहस्राणि मायेकं रक्ष सेवकम् ॥
ममाङ्गे चैव पार्श्वे त्वं कामिनी भव मे सदा ॥
वनिता भव मे नित्यं नित्यं देहं कुरु प्रिये ॥
पक्वान्नं नारिकेलं वा खण्डमिश्रं निवेदयेत् ।
सिद्धिं यच्छन्ति भूतिन्यः स्तोत्रपूजाप्रभावतः ॥
अस्यापि स्मरणादेव, राजत्वं लभतेऽचिरात् ।।
वेद-ज्ञानी सर्व-शास्त्र-वेत्ता भवति निश्चितम् ।
यक्षिणी कुल-विद्या च, समायाति सु-सिद्धदा ।।
पठित्वा धारयित्वा च, निर्जनेऽरण्यमन्तरे ।।
भार्या भवति सा देवी, महा-कवच-पाठतः ।।
