Lord Krishna

श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं

(Sri Sudarshan Kavach)

Sri Vallabhacharya

Also known as shri sudarshan kavach · shree sudarshan kavach · sudarshan kavach

Vallabhacharya's armour, and the thing being invoked is not a god with a body but a weapon: Sudarshana, the discus, is named as the deity of the mantra, and the seed of it is the imperative hana hana, strike, strike. The text says plainly what it is for and what it is modelled on — the protection of Uttara's womb and the guarding of Parikshit inside it, and the turning aside of the brahmastra — so the precedent it claims is the one episode in which the discus was used to shield rather than to cut. It is also meant to be written rather than only said: the verses are to be set down inside a yantra drawn in the shape of a wheel. Most of its middle is a long run of Krishna's names, and its last verse fixes the observance, from one Krishna-ashtami to the next.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

श्रीकृष्णाय नमः ॥
श्रीगोपीजनवल्लभाय नमः ॥
अथ विनियोगः ॐ अस्य श्रीसुदर्शनकवचमहामन्त्रस्य नारायणऋषिः । श्रीसुदर्शनो देवता ॥ गायत्री छन्दः ॥ दुष्टं दारयतीति कीलकम् ॥ हन हन द्विष इति बीजम् ॥ सर्वशत्रुक्षयार्थे सुदर्शनस्तोत्रपाठे विनियोगः ॥
ॐ वैष्णवानां हि रक्षार्थं श्रीवल्लभनिरूपितः । सुदर्शनमहामन्त्रो वैष्णवानां हितावहः ॥ १॥
यन्त्रमध्ये निरूप्यन्ते चक्राकारं च लिख्यते । उत्तरागर्भरक्षा च परीक्षितहिते रतः ॥ २॥
ब्रह्मास्त्रवारणं चैव भक्तानां भयभञ्जनः । वधं च दुष्टदैत्यानां खण्डं खण्डं च कारकः ॥ ३॥
वैष्णवानां हितार्थाय चक्रं धारयते हरिः । पीताम्बरः परब्रह्म वनमाली गदाधरः ॥ ४॥
कोटिकन्दर्पलावण्यो गोपिकाप्राणवल्लभः । श्रीवल्लभः कृपानाथो गिरिधृक् शत्रुमर्दनः ॥ ५॥
दावाग्निपानकर्ता च गोपीभयनिवारकः । गापालो गोपकन्याभिः समावृत्तोऽधितिष्ठते ॥ ६॥
व्रजमण्डलप्रकाशी च रामकृष्णजगन्मयः । गो-गोपिकासमाकीर्णो वेणुवादनतत्परः ॥ ७॥
कामरूपी कलावांश्च कामिन्यां कामदो विभुः । मन्मथो मथुरानाथो माधवो मकरध्वजः ॥ ८॥
श्रीधरः श्रीकरश्चैव श्रीनिवासः सतां गतिः । भुक्तिदो मुक्तिदो विष्णुर्भूधरो भूतभावनः ॥ ९॥
सर्वदुःखहरो वीरो दुष्टदैत्यविनाशकः । श्रीनृसिंहो महाविष्णुः श्रीनिवासः सतां गतिः ॥ १०॥
चिदानन्दमयो नित्यः पूर्णब्रह्मसनातनः । कोटिभानुप्राकाशी च निश्चितार्थस्वरूपकः ॥ ११॥
भक्तप्रियः पद्मनेत्रो भक्तानां वाञ्छितप्रदः । हृदि कृष्णो मुखे कृष्णो नेत्रे कृष्णश्च कर्णयोः ॥ १२॥
भक्तिप्रियश्च श्रीकृष्णः सर्वं कृष्णमयं जगत् । कालमृत्युयमाहूतं भूतप्रेतो न दृश्यते ॥ १३॥
पिशाचा राक्षसाश्चैव हृदि रोगाश्च दारुणाः । भूचराः खेचराः सर्वे डाकिनी शाकिनी तथा ॥ १४॥
नाटकं चेटकं चैव छलं छिद्रं न दृश्यते । अकाले मरणं तस्य शोकदुःखं न लभ्यते ॥ १५॥
सर्वविघ्नं क्षयं याति रक्ष मे गोपिकाप्रिय । भयदावाग्निचौराणां विग्रहे राजसङ्कटे ॥ १६॥
व्याल-व्याघ्र-महाशत्रु-वैरिबन्धो न लभ्यते । आधिव्याधिहरश्चैव ग्रहपीडा-विनाशनम् ॥ १७॥
इमे सप्तशश्लोका यन्त्रमध्ये च लिख्यते । वंशवृद्धिर्भवेत्तस्य श्रोता च फलमाप्नुयात् ॥ १८॥
कृष्णाष्टमीं समारभ्य यावतकृष्णाष्टमी भवेत् । देवं ध्यात्वा जपेन्मत्रमयुतानां चतुष्टयम् ॥ १९॥
वैष्णवानां हि रक्षार्थं वैष्णवानां हिताय च । सुदर्शनमहामन्त्रो लभते जयमङ्गलम् । सर्वपापहर कृष्ण त्वामहं शरणं गतः ॥ २०॥
इति श्रीमद्वल्लभाचार्यचरणविरचितं श्रीसुदर्शनकवचं सम्पूर्णम् ॥

Explore More