नेत्रयोर्विष्णुरूपी च वैकुण्ठो घ्राणमेव च ॥ १ ॥
विद्याधीशस्तु मे जिह्वां कण्ठं विश्वेशवन्दितः ॥ २ ॥
भुजौ मे नृहरिः पातु करौ च सुरनायकः ॥ ३ ॥
सुरवन्द्यः कटिं पातु जानुनी कमलासनः ॥ ४ ॥
अखिलं च शरीरं मे पातां गोविन्दमाधवौ ॥ ५ ॥
पावकः सर्वपापानामकाराय नमो नमः ॥ ६ ॥
पुनातु विश्वभुवनं त्वोङ्काराय नमो नमः ॥ ७ ॥
तस्या बीजेन सम्युक्तो यकाराय नमो नमः ॥ ८ ॥
वैजयन्तीसमायुक्तो विकाराय नमो नमः ॥ ९ ॥
पावनो द्विजपङ्क्तीनां ठकाराय नमो नमः ॥ १० ॥
वामभागे च लक्ष्मीश्च लकाराय नमो नमः ॥ ११ ॥
लभते मानवो नित्यं वैष्णवं धर्ममाश्रितः ॥ १२ ॥
भूतानि च पलायन्ते मन्त्रोपासकदर्शनात् ॥ १३ ॥
विष्णुसायुज्यमाप्नोति सत्यं सत्यं न संशयः ॥ १४ ॥
