पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ॥ १ ॥
पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ २ ॥
दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ ३ ॥
सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ ४ ॥
विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥ ५ ॥
ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे ।
ॐ ह्रूं घटावादी मूतिरुत्तरस्यां दिशिस्तथा ।
ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः ।
ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥
ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः । प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् । रुद्ररूपस्तु पाताले बटुकाय नमो नमः ॥
आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥ १ ॥
बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥ २ ॥
हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥ ३ ॥
सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥ ४ ॥
शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥ ५ ॥
इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥ ६ ॥
लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकारो हं ममावतु ॥ ७ ॥
ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥ ८ ॥
पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥ ९ ॥
आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥ ११ ॥
एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥ १२ ॥
आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥ १३ ॥
सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥ १४ ॥
गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥ १५ ॥
राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥ १६ ॥
सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥ १७ ॥
