Lord Kalabhairava

श्री कालभैरव ककार अष्टोत्तरशतनामावली

(Sri Kalabhairava Kakara Ashtottara Shatanamavali)

Also known as shri kalabhairava kakara ashtottara shatanamavali · shree kalabhairava kakara ashtottara shatanamavali · kalabhairava kakara ashtottara shatanamavali

The kakārādi hundred and eight of Kālabhairava as a litany, opening on the four seeds hrīṁ krīṁ hūṁ hrīṁ and then giving each ka-name singly with its salutation. Because the constraint is alphabetical the list has to reach the whole god through one letter, and the strain shows in the best of it: Kālakāla and Kāladaṇḍadhṛt for time, Kukkurārūḍha for the dog he rides, Kapālin and Kaṅkālamālikādhārin for the skull and the garland of bones, Kālanemighna for the demon he killed, Kāmāri for the enemy of desire, Kārāgṛhavimocaka for the releaser from prison, and Karmabandhākhilacchedin for the cutter of every bond of action. Toward the end it turns openly to the left-hand tradition, naming him founder of the Kaula path, devoted to Kaula observance, and fond of the new moon and the eighth. A second recension of the same list is kept separately.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 109
॥ ह्रीं क्रीं हूं ह्रीम् ॥
ओं कालभैरवदेवाय नमः ।
ओं कालकालाय नमः ।
ओं कालदण्डधृजे नमः ।
ओं कालात्मने नमः ।
ओं काममन्त्रात्मने नमः ।
ओं काशिकापुरनायकाय नमः ।
ओं करुणावारिधये नमः ।
ओं कान्तामिलिताय नमः ।
ओं कालिकातनवे नमः । ९
ओं कालजाय नमः ।
ओं कुक्कुरारूढाय नमः ।
ओं कपालिने नमः ।
ओं कालनेमिघ्ने नमः ।
ओं कालकण्ठाय नमः ।
ओं कटाक्षानुगृहीताखिलसेवकाय नमः ।
ओं कपालखर्परोत्कृष्टभिक्षापात्रधराय नमः ।
ओं कावये नमः ।
ओं कल्पान्तदहनाकाराय नमः । १८
ओं कलानिधिकलाधराय नमः ।
ओं कपालमालिकाभूषाय नमः ।
ओं कालीकुलवरप्रदाय नमः ।
ओं कालीकलावतीदीक्षासंस्कारोपासनप्रियाय नमः ।
ओं कालिकादक्षपार्श्वस्थाय नमः ।
ओं कालीविद्यास्वरूपवते नमः ।
ओं कालीकूर्चसमायुक्तभुवनाकूटभासुराय नमः ।
ओं कालीध्यानजपासक्तहृदगारनिवासकाय नमः ।
ओं कालिकावरिवस्यादिप्रदानकल्पपादपाय नमः । २७
ओं काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकाय नमः ।
ओं कङ्कालमालिकाधारिणे नमः ।
ओं कमनीयजटाधराय नमः ।
ओं कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगाय नमः ।
ओं कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय नमः ।
ओं कूर्मपीठादिशक्तीशाय नमः ।
ओं कलाकाष्ठादिपालकाय नमः ।
ओं कटप्रुवे नमः ।
ओं कामसञ्चारिणे नमः । ३६
ओं कामारये नमः ।
ओं कामरूपवते नमः ।
ओं कण्ठादिसर्वचक्रस्थाय नमः ।
ओं क्रियादिकोटिदीपकाय नमः ।
ओं कर्णहीनोपवीताभाय नमः ।
ओं कनकाचलदेहवते नमः ।
ओं कन्दराकारदहराकाशभासुरमूर्तिमते नमः ।
ओं कपालमोचनानन्दाय नमः ।
ओं कालराजाय नमः । ४५
ओं क्रियाप्रदाय नमः ।
ओं करणाधिपतये नमः ।
ओं कर्मकारकाय नमः ।
ओं कर्तृनायकाय नमः ।
ओं कण्ठाद्यखिलदेशाहिभूषणाढ्याय नमः ।
ओं कलात्मकाय नमः ।
ओं कर्मकाण्डाधिपाय नमः ।
ओं किल्बिषमोचिने नमः ।
ओं कामकोष्ठकाय नमः । ५४
ओं कलकण्ठारवानन्दिने नमः ।
ओं कर्मश्रद्धवरप्रदाय नमः ।
ओं कुणपाकीर्णकान्तारसञ्चारिणे नमः ।
ओं कौमुदीस्मिताय नमः ।
ओं किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजिताय नमः ।
ओं कल्याणकृत्कलिध्वंसिने नमः ।
ओं कर्मसाक्षिणे नमः ।
ओं कृतज्ञपाय नमः ।
ओं करालदंष्ट्राय नमः । ६३
ओं कन्दर्पदर्पघ्नाय नमः ।
ओं कामभेदनाय नमः ।
ओं कालागुरुविलिप्ताङ्गाय नमः ।
ओं कातरार्ताभयप्रदाय नमः ।
ओं कलन्दिकाप्रदाय नमः ।
ओं कालीभक्तलोकवरप्रदाय नमः ।
ओं कामिनीकाञ्चनाबद्धमोचकाय नमः ।
ओं कमलेक्षणाय नमः ।
ओं कादम्बरीरसास्वादलोलुपाय नमः । ७२
ओं काङ्क्षितार्थदाय नमः ।
ओं कबन्धनावाय नमः ।
ओं कामाख्याकाञ्च्यादिक्षेत्रपालकाय नमः ।
ओं कैवल्यप्रदमन्दाराय नमः ।
ओं कोटिसूर्यसमप्रभाय नमः ।
ओं क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय नमः ।
ओं काम्यादिकर्मसर्वस्वफलदाय नमः ।
ओं कर्मपोषकाय नमः ।
ओं कार्यकारणनिर्मात्रे नमः । ८१
ओं कारागृहविमोचकाय नमः ।
ओं कालपर्यायमूलस्थाय नमः ।
ओं कार्यसिद्धिप्रदायकाय नमः ।
ओं कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनाय नमः ।
ओं कालचक्रप्रभेदिने नमः ।
ओं कालिम्मन्ययोगिनीप्रियाय नमः ।
ओं काहलादिमहावाद्यतालतांडवलालसाय नमः ।
ओं कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय नमः ।
ओं कालरात्रिमहारात्रिशिवारात्र्यादिकारकाय नमः । ९०
ओं कोलाहलध्वनये नमः ।
ओं कोपिने नमः ।
ओं कौलमार्गप्रवर्तकाय नमः ।
ओं कर्मकौशल्यसन्तोषिणे नमः ।
ओं केलिभाषणलालसाय नमः ।
ओं कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकाय नमः ।
ओं कालनाथपराय नमः ।
ओं काराय नमः ।
ओं कालधर्मप्रवर्तकाय नमः । ९९
ओं कुलाचार्याय नमः ।
ओं कुलाचाररताय नमः ।
ओं कुह्वष्टमीप्रियाय नमः ।
ओं कर्मबन्धाखिलच्छेदिने नमः ।
ओं कोष्ठस्थभैरवाग्रण्ये नमः ।
ओं कठोरौजस्यभीष्माज्ञापालकिङ्करसेविताय नमः ।
ओं कालरुद्राय नमः ।
ओं कालवेलाहोरांशमूर्तिमते नमः ।
ओं कराय नमः । १०८
॥ इति श्री कालभैरव ककार अष्टोत्तरशतनामावली ॥

Explore More