पार्वत्युवाच
कवचं दक्षिणामूर्तेः कृपया वद मे प्रभो ॥ 1 ॥
ईश्वर उवाच
कवचं सर्वपापघ्नं वेदान्तज्ञानगोचरम् ॥ 2 ॥
वेदशास्त्रपुराणानि कविता तर्क एव च ॥ 3 ॥
ऋषिर्ब्रह्मा समुद्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ॥ 4 ॥
बीजं वेदादिकं चैव स्वाहा शक्तिरुदाहृता ।
सर्वज्ञत्वेऽपि देवेशि विनियोगं प्रचक्षते ॥ 5 ॥
अद्वन्द्वनेत्रममलेन्दुकलावतंसं
हंसावलम्बित समान जटाकलापम् ।
आनीलकण्ठमुपकण्ठमुनिप्रवीरान्
अध्यापयन्तमवलोकय लोकनाथम् ॥
ओम् । शिरो मे दक्षिणामूर्तिरव्यात् फालं महेश्वरः ।
दृशौ पातु महादेवः श्रवणे चन्द्रशेखरः ॥ 1 ॥
मुखं गौरीपतिः पातु रसनां वेदरूपधृत् ॥ 2 ॥
अधरं पातु विश्वात्मा हनू पातु जगन्मयः ॥ 3 ॥
स्कन्धौ मे पातु शुद्धात्मा करौ पातु यमान्तकः ॥ 4 ॥
हृन्मे पशुपतिः पातु पार्श्वे परमपूरुषः ॥ 5 ॥
कटिं पातु जगद्भर्ता सक्थिनी च मृडः स्वयम् ॥ 6 ॥
जानुनी त्र्यम्बकः पातु जङ्घे पातु सदाशिवः ॥ 7 ॥
इतीदं कवचं देवि परमानन्ददायकम् ॥ 8 ॥
आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥ 9 ॥
नित्यं पूजासमायुक्तः संवत्सरमतन्द्रितः ॥ 10 ॥
गद्यपद्यैस्तथा चापि नाटकाः स्वयमेव हि ।
निर्गच्छन्ति मुखाम्भोजात्सत्यमेतन्न संशयः ॥ 11 ॥
