Lord Shiva

श्री दक्षिणामूर्थि सहस्रनाम स्तोत्रम्

(Shri Dakshinamurti Sahasranama Stotram)

From Rudrayamala Tantra

The Shri Dakshinamurti Sahasranama Stotram is a profound devotional composition from the Rudrayamala Tantra, dedicated to Lord Shiva in his aspect as the supreme cosmic teacher. Dakshinamurti is depicted seated under a banyan tree, bestowing knowledge, wisdom, and spiritual illumination upon seekers. Chanting these one thousand names is believed to awaken the inner intellect, remove the darkness of ignorance, and grant the grace of the ultimate Guru. Devotees recite this sacred text to achieve mental clarity, profound insight into the scriptures, and ultimate liberation from the cycle of birth and death.

अस्य श्रीदक्षिणामूर्ति सहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणामूर्तिर्देवता ॐ बीजं स्वाहा शक्तिः नमः कीलकं मेधादक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ह्रामित्यादिना न्यासः ॥
ध्यानं
सिद्धितोयनिधेर्मध्ये रत्नग्रैवे मनोरमे ।
कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ 1 ॥
आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।
शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ 2 ॥
दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।
जटामण्डलसंलग्नशीतांशुकरमण्डितम् ॥ 3 ॥
नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।
विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ 4 ॥
चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः ।
चतुःषष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ 5 ॥
रत्नसिंहासने साधुद्वीपिचर्मसमायुते ।
तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ 6 ॥
वीरासने समासीनं लम्बदक्षपदाम्बुजम् ।
ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ 7 ॥
पादमूलसमाक्रान्तमहापस्मारवैभवम् ।
रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ 8 ॥
गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।
सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ 9 ॥
आराध्यमानवृषभमग्नीन्दुरविलोचनम् ।
पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ 10 ॥
एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ 11 ॥
लमित्यादि पञ्चोपचाराः ॥
स्तोत्रं
ओम् । देवदेवो महादेवो देवानामपि देशिकः ।
दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ 1 ॥
कैलासशिखरोत्तुङ्गकमनीयनिजाकृतिः ।
वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ 2 ॥
कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः ।
पाटीरपाण्डुराकारपरिपूर्णसुधाधिपः ।3 ॥
जटाकोटीरघटितसुधाकरसुधाप्लुतः ।
पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ 4 ॥
कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः ।
कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ 5 ॥
तिलप्रसूनसङ्काशनासिकापुटभासुरः ।
मन्दस्मितस्फुरन्मुग्धमहनीयमुखाम्बुजः ॥ 6 ॥
कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः ।
सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ 7 ॥
शङ्खाटोपगलद्दिव्यगलवैभवमञ्जुलः ।
करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ 8 ॥
अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः ।
विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ 9 ॥
बृहत्कटिनितम्बाढ्यः पीवरोरुद्वयान्वितः ।
जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ 10 ॥
मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः ।
अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ 11 ॥
घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः ।
सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ 12 ॥
दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः ।
कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ 13 ॥
कात्यायनीप्रेमनिधिः करुणारसवारिधिः ।
कामितार्थप्रदः श्रीमत्कमलावल्लभप्रियः ॥ 14 ॥
कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः ।
मन्दहाससमानेन्दुश्छिन्नाज्ञानतमस्ततिः ॥ 15 ॥
संसारानलसन्तप्तजनतामृतसागरः ।
गम्भीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ 16 ॥
निशाकरकराकारवशीकृतजगत्त्रयः ।
तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ 17 ॥
भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः ।
वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ 18 ॥
तापत्रयतमोभानुः पापारण्यदवानलः ।
संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ 19 ॥
ललाटहुतभुग्दग्धमनोभवशुभाकृतिः ।
तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ 20 ॥
अस्तङ्गतसमस्तेच्छो निस्तुलानन्दमन्थरः ।
धीरोदात्तगुणाधार उदारवरवैभवः ॥ 21 ॥
अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः ।
भक्तमानसहंसाग्र्यो भवामयभिषक्तमः ॥ 22 ॥
योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः ।
शुद्धस्फटिकसङ्काशो बद्धपन्नगभूषणः ॥ 23 ॥
नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः ।
वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ 24 ॥
धराधरेन्दुरानन्दसन्दोहरससागरः ।
द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ 25 ॥
प्रत्यगात्मा परञ्ज्योतिः पुराणः परमेश्वरः ।
प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ 26 ॥
सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरो हरः ।
सर्वप्रेमनिजाहासः सर्वानुग्रहकृच्छिवः ॥ 27 ॥
सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः ।
सच्चिदानन्दपूर्णात्मा सर्वभूतगुणाश्रयः ॥ 28 ॥
सर्वभूतान्तरः साक्षी सर्वज्ञः सर्वकामदः ।
सनकादिमहायोगिसमाराधितपादुकः ॥ 29 ॥
आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः ।
यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ 30 ॥
ब्रह्मादिदेवविनुतो योगमायानियोजकः ।
शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ 31 ॥
वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः ।
वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ 32 ॥
सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ।
नृत्तगीतकलाभिज्ञः कर्मवित्कर्ममोचकः ॥ 33 ॥
कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः ।
ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ 34 ॥
अनाथनाथो भगवानाश्रितामरपादपः ।
वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ 35 ॥
व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः ।
सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ 36 ॥
चिन्ताशोकप्रशमनो जगदानन्दकारकः ।
रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ 37 ॥
मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः ।
अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ 38 ॥
समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।
सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ 39 ॥
विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।
अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ 40 ॥
सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः ।
दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ 41 ॥
अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः ।
तप्तचामीकराकारो जितदावानलाकृतिः ॥ 42 ॥
निरञ्जनो निर्विकारो निजावासो निराकृतिः ।
जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ 43 ॥
कामहन्ता काममूर्तिः कल्याणवृषवाहनः ।
गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ 44 ॥
धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः ।
अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ 45 ॥
उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः ।
नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ 46 ॥
प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः ।
आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ 47 ॥
यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः ।
अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ 48 ॥
विश्वरूपो विरूपाक्षः प्रभुः परिबृढो दृढः ।
भव्यो जितारिषड्वर्गो महोदारो विषाशनः ॥ 49 ॥
सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।
प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ 50 ॥
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।
सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ 51 ॥
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 52 ॥
चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोपहृत् ।
भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ 53 ॥
अणिमादिगुणोपेतो लोकवश्यविधायकः ।
योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ 54 ॥
गुरुरूपधरः श्रीमत्परमानन्दसागरः ।
सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ 55 ॥
सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।
निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ 56 ॥
सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः ।
निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ 57 ॥
ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः ।
शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ 58 ॥
सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः ।
तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ 59 ॥
विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः ।
निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ 60 ॥
निरवद्यो निरातङ्को भीमो भीमपराक्रमः ।
वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ 61 ॥
अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः ।
विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ 62 ॥
अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः ।
अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ 63 ॥
ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः ।
गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ 64 ॥
कल्याणाचलकोदण्डः कमलापतिसायकः ।
वारांशेवधितूणीरः सरोजासनसारथिः ॥ 65 ॥
त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः ।
रवीन्दुचरणाचारिधरारथविराजितः ॥ 66 ॥
त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः ।
उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ 67 ॥
जातुप्रपन्नजनताजीवनोपायनोत्सुकः ।
संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ 68 ॥
मदद्विरदधिक्कारिगतिमञ्जुलवैभवः ।
मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ 69 ॥
कैवल्योदधिकल्लोललीलाताण्डवपण्डितः ।
विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ 70 ॥
वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।
अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ 71 ॥
सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः ।
अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ 72 ॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ 73 ॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसम्भवः ॥ 74 ॥
निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः ।
एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ 75 ॥
निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः ।
नित्यानन्दः सुराध्यक्षो निःसङ्कल्पो निरञ्जनः ॥ 76 ॥
निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः ।
विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ 77 ॥
भैरवो भैरवीनाथः कामदः कमलासनः ।
वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ 78 ॥
चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः ।
निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ 79 ॥
धर्मदक्षो महाराजः किरीटी वन्दितो गुहः ।
माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ 80 ॥
सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः ।
ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ 81 ॥
मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः ।
मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ 82 ॥
भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।
किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ 83 ॥
विजयो भूतभावज्ञो भीमसेनो दिवाकरः ।
बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ 84 ॥
ओषधीशो वामदेवो गोविन्दो नीललोहितः ।
षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ 85 ॥
कर्पूरदीपिकालोलः कर्पूररसचर्चितः ।
अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ 86 ॥
आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।
देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ 87 ॥
निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।
निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ 88 ॥
भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः ।
दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ 89 ॥
मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः ।
अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ 90 ॥
महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः ।
सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ 91 ॥
सद्योजातो वटारण्यवासी पुरुषवल्लभः ।
हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ 92 ॥
हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः ।
सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ 93 ॥
अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः ।
प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ 94 ॥
गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः ।
श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ 95 ॥
अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः ।
कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ 96 ॥
महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।
महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ 97 ॥
छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः ।
सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ 98 ॥
कालकालः कलिध्वंसी जरामरणनाशकः ।
शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ 99 ॥
चण्डीशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः ।
स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ 100 ॥
रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।
त्रियम्बको वररुचिर्देवदेवश्चतुर्भुजः ॥ 101 ॥
विश्वम्भरो विचित्राङ्गो विधाता पुरशासनः ।
सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ 102 ॥
नक्षत्रमालाभरणो मघवान् अघनाशनः ।
विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ 103 ॥
चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।
गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ 104 ॥
सर्वानन्दो दयारूपी शैलजासुमनोहरः ।
सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ 105 ॥
वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः ।
मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ 106 ॥
यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् ।
परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ 107 ॥
मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः ।
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ 108 ॥
मुनिवन्द्यो मुनिश्रेष्ठो मुनिबृन्दनिषेवितः ।
दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ 109 ॥
अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ 110 ॥
यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः ।
विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ 111 ॥
पावनान्तेवसद्योगिजनसार्थसुधाकरः ।
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ 112 ॥
चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ।
भक्तविज्ञप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ 113 ॥
ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ।
सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ 114 ॥
सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः ।
आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ 115 ॥
अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः ।
विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ 116 ॥
विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् ।
योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ 117 ॥
ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ।
चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ 118 ॥
सह्याचलगुहावासी साक्षान्मोक्षरसामृतः ।
दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ 119 ॥
ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ।
पङ्कजासनसंसेव्यः किङ्करामरवत्सलः ॥ 120 ॥
नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः ।
त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ 121 ॥
क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः ।
अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ 122 ॥
इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः ।
ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः ॥ 123 ॥
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ 124 ॥
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ 125 ॥
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ 126 ॥
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागहा रागशमनो रागदो रागिरागवित् ॥ 127 ॥
मनोन्मनो मनोरूपो बलप्रमथनो बलः ।
विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ 128 ॥
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ 129 ॥
शरन्नाथो शरत्कालनाशकः शरदाश्रयः ।
कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ 130 ॥
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ।
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ 131 ॥
वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ 132 ॥
शरणागतदीनार्तपरित्राणपरायणः ।
महाप्रेतासनासीनो जितसर्वपितामहः ॥ 133 ॥
मुक्तादामपरीताङ्गो नानागानविशारदः ।
विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ 134 ॥
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ।
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ 135 ॥
भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः ।
गौरीविलाससदनः पिशचानुचरावृतः ॥ 136 ॥
दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः ।
अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः ॥ 137 ॥
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ 138 ॥
युगावहो युगाधीशो युगात्मा युगनायकः ।
जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ 139 ॥
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ।
लीलाविडम्बितवपुर्भक्तमानसमण्डितः ॥ 140 ॥
बृन्दारकप्रियतमो बृन्दारकवरार्चितः ।
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ 141 ॥
निःसीममहिमा नित्यलीलाविग्रहरूपधृत् ।
चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ 142 ॥
समस्तभक्तसुखदः परमाणुर्महाह्रदः ।
अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ 143 ॥
कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः ।
शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ 144 ॥
महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ।
भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ 145 ॥
त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ।
सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ 146 ॥
पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ।
सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ 147 ॥
सद्भक्तध्याननिगलः शरणागतपालकः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 148 ॥
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ 149 ॥
आमोदो मोदजनकः सर्पराजोत्तरीयकः ।
कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ 150 ॥
सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ।
विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ 151 ॥
अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः ।
अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ 152 ॥
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः ।
तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ 153 ॥
अमोघबुद्धिराधार आधाराधेयवर्जितः ।
ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ 154 ॥
ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः ।
औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ 155 ॥
शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहः ।
दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ 156 ॥
अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ।
विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ 157 ॥
नित्यशुद्धो नित्यबुद्धो नित्यमुक्तोऽपराकृतः ।
मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः ॥ 158 ॥
महाकैलासनिलयः प्रज्ञानघनविग्रहः ।
श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ 159 ॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ 160 ॥
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।
दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ 161 ॥
प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः ।
निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ 162 ॥
तारकानां हृदन्तस्थस्तारकस्तारकान्तकः ।
ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ 163 ॥
परं व्योम परं धाम परमात्मा परं पदम् ।
पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ 164 ॥
प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः ।
बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ 165 ॥
ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद्ब्राह्मणप्रियः ।
भूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः ॥ 166 ॥
यशस्करो रत्नगर्भो महाराज्यसुखप्रदः ।
शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ 167 ॥
शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः ।
संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ 168 ॥
मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः ।
अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ 169 ॥
पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ।
षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ 170 ॥
विज्ञानघनसम्पूर्णो वीणावादनतत्परः ।
नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ 171 ॥
पराभिचारशमनः षडध्वोपरिसंस्थितः ।
सुषुम्नामार्गसञ्चारी बिसतन्तुनिभाकृतिः ॥ 172 ॥
पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः ।
क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ 173 ॥
सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः ।
तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ 174 ॥
तैलाभिषेकसन्तुष्टस्तिलभक्षणतत्परः ।
आपादकणिकामुक्ताभूषाशतमनोहरः ॥ 175 ॥
शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ।
मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ 176 ॥
अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ।
कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ 177 ॥
करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् ।
विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ 178 ॥
आवर्तनाभिरोमालिवलिमत्पल्लवोदरः ।
मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ 179 ॥
वीरासनसमासीनो वीणापुस्तोल्लसत्करः ।
अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ 180 ॥
माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः ।
अनर्घरत्नग्रैवेयविलसत्कम्बुकन्धरः ॥ 181 ॥
अनाकलितसादृश्यचिबुकश्रीविराजितः ।
मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ 182 ॥
चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ।
वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ 183 ॥
कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डितः ।
करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ 184 ॥
अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ।
चारुचामीकराकारजटाचर्चितचन्दनः ।
कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ 185 ॥
इति श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् ॥

Explore More