Lord Vishnu

श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम्

(Sri Dhanvantari Ashtottara Shatanama Stotram)

Also known as shri dhanvantari ashtottara shatanama stotram · shree dhanvantari ashtottara shatanama stotram · dhanvantari ashtottara shatanama stotram

A hundred and eight names in thirty-one verses, and nearly all of them come out of the churning of the ocean. He is the lord prayed to by gods in terror of age and death; the one for whom Anjaneya carried the mountain, with Vinata's son standing at his side; the sinking Mandara and the tortoise that took its weight; the glance that steadied Vasuki; the reconciler of gods and demons at each other's throats over the nectar. A run in the middle turns to his body from the ears down, giving him every mark the science of signs looks for. Near the end come the appearance as Mohini that bewildered even Shiva, and the circle of the wives of the guardians of the quarters. The same names stand here in salutation form as well.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः ।
जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १ ॥
निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः ।
आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २ ॥
निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।
नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥ ३ ॥
कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः ।
स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥ ४ ॥
प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् ।
भेषजग्रहणानेहः स्मरणीयपदाम्बुजः ॥ ५ ॥
नवयौवनसम्पन्नः किरीटान्वितमस्तकः ।
नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥ ६ ॥
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः ।
चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥ ७ ॥
सुधापात्रोपरिलसदाम्रपत्रलसत्करः ।
शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥ ८ ॥
सुकपोलः सुनासश्च सुन्दरभ्रूलताञ्चितः ।
स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥ ९ ॥
दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः ।
विचित्ररत्नखचितवलयद्वयशोभितः ॥ १० ॥
समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः ।
सुधागन्धरसास्वादमिलद्भृङ्गमनोहरः ॥ ११ ॥
लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः ।
लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥ १२ ॥
नवरत्नमणीक्लुप्तहारशोभितकन्धरः ।
हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥ १३ ॥
विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः ।
निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥ १४ ॥
सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः ।
अलक्तकारक्तपादो मूर्तिमद्वार्धिपूजितः ॥ १५ ॥
सुधार्थान्योन्यसम्युध्यद्देवदैतेयसान्त्वनः ।
कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥ १६ ॥
अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः ।
पुष्पवर्षणसम्युक्तगन्धर्वकुलसेवितः ॥ १७ ॥
शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः ।
विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥ १८ ॥
साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः ।
साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥ १९ ॥
नमनोन्मुखदेवादिमौलिरत्नलसत्पदः ।
दिव्यतेजःपुञजरूपः सर्वदेवहितोत्सुकः ॥ २० ॥
स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः ।
गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥ २१ ॥
निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् ।
अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥ २२ ॥
क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः ।
मदमत्तेभगमनः सर्वलोकविमोहनः ॥ २३ ॥
स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः ।
रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥ २४ ॥
सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः ।
देवामृतप्रदाता च परिवेषणहृष्टधीः ॥ २५ ॥
उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकः ।
पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥ २६ ॥
राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः ।
अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनः ॥ २७ ॥
गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसम्युतः ।
स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥ २८ ॥
मोहिनीदर्शनायातस्थाणुचित्तविमोहकः ।
शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥ २९ ॥
वेदान्तवेद्यमहिमा सर्वलोकैकरक्षकः ।
राजराजप्रपूज्याङ्घ्रिः चिन्तितार्थप्रदायकः ॥ ३० ॥
धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् ।
यः पठेत्सततं भक्त्या नीरोगः सुखभाग्वेत् ॥ ३१ ॥
॥ इति श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Explore More