(वराह पुराणे सप्तमोऽध्याये)
धृतक्षमं क्षुधितजनार्तिनाशनम् ।
शिवं विशालाऽसुरसैन्यमर्दनं
नमाम्यहं हृतसकलाऽशुभं स्मृतौ ॥ १ ॥
पुरातनं विमलमलं नृणां गतिम् ।
त्रिविक्रमं हृतधरणिं बलोर्जितं
गदाधरं रहसि नमामि केशवम् ॥ २ ॥
श्रिया वृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ३ ॥
केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ४ ॥
तथा तृतीये नीलवर्णमच्युतम् ।
कलौ युगेऽलिप्रतिमं महेश्वरं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ५ ॥
तथैव नारायणरूपतो जगत् ।
प्रपालयेद्रुद्रवपुस्तथान्तकृ-
-द्गदाधरो जयतु षडर्धमूर्तिमान् ॥ ६ ॥
-स्त्वेतेषु विश्वस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो
दधातु धैर्यं मम धर्ममोक्षयोः ॥ ७ ॥
-र्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवो
गदाधरो मामुदधौ तु योऽतरत् ॥ ८ ॥
स्वशक्तितश्चाण्डमिदं ससर्ज ह ।
तस्मिन् जलोत्थासनमाप तैजसं
ससर्ज यस्तं प्रणतोऽस्मि भूधरम् ॥ ९ ॥
सुरादिसंरक्षणतो वृषाकपिः ।
मुखस्वरूपेण स सन्ततो विभु-
-र्गदाधरो मे विदधातु सद्गतिम् ॥ १० ॥
